वाचस्पत्यम्
शार || दौर्वल्ये अद० चु० उम० सक० सेट् । शारयति—ते अशशारत् त ।
वाचस्पत्यम्
शार || न० शार—अच्, शृ—घञ् वा । १ कर्वूरवर्णे २ तद्वति त्रि० अमरः ३ वायौ पु० अमरः ४ अक्षोपकरणे मेदि० ।
शब्दकल्पद्रुमः
शार || त् क दौर्ब्बल्ये । इति कविकल्पद्रुमः । (अदन्त चुरा०-पर०-अक०-सेट् ।)
अशशारत् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शारं || त्रि (शॄ + घञ् ।)
कर्व्वुरवर्णः । इत्यमरः ॥
शब्दकल्पद्रुमः
शारः || पुं, (शीर्य्यतेऽनेन शृणाति वा । शॄ + “शॄ वायुवर्णनिवृत्तेषु ।” ३ । ३ । २१ । इत्यस्य वार्त्तिकोक्त्या घञ् ।)
वायुः । इत्यमरः ॥ अक्षोपकरणम् । इति मेदिनी ॥ हिंसनम् । कर्व्वुरवर्णः कुशे, स्त्री । इति केचित् ॥