वाचस्पत्यम्
शारङ्ग || पुंस्त्री० शारं कर्वुरमङ्गं यस्य शक० । १ चातकपक्षिणि २ हरिणे ३ गजे ४ भृङ्गे ५ मयूरे च । रायमुकुटः जाति- त्वात् स्त्रियां ङीष् । ६ हिंस्रे ७ वाद्ययन्त्रभेदे स्त्री ङीप् शब्दार्थचि० ।
शब्दकल्पद्रुमः
शारङ्गः || पुं, (शीर्य्यते आतपैः । शॄ + “तरत्या- दिभ्यश्च ।” उणा० १ । ११९ । इति अङ्गच् ।)
चातकः । (यथा, —
“अष्टौ मासान् जलधर तवापेक्षया शुष्ककण्ठः शारङ्गोऽहं निरवधिवतव्यानिनायाति कृत्स्नात् । आस्तां तावत् सलिलकणिकालाभसम्भावनापि वर्षारम्भप्रथमसमये दारुणो वज्रपातः ॥” इत्युद्भटः ॥)
हरिणः । (यथा, शाकुन्तले । १ । “एष राजेव दुष्मन्तः शारङ्गेनातिरंहसा ॥”)
हस्ती । भृङ्गः । मयूरः । कर्व्वुरवर्णविशिष्टे, त्रि । इत्यमरटीकायां मुकुटादयः ॥