वाचस्पत्यम्
शारदीय || त्रि० शरदि भवः छण् । १ शरत्काले कर्त्तव्ये उत्सवादौ तथाभूतायां दुर्गापूजायां स्त्री “अदूरे जग- दम्बायाः शारदीयो महोत्सवः” । “शारदीया महा- पूजा चतुःकर्ममयो शुभा” ति० त० ।