संस्कृत-शब्दकोशः

शारदिक शारदीय

शारदी

शब्दकल्पद्रुमः

शारदी || स्त्री (शारद + ङीप् ।)
तोयपिप्पली । सप्तपर्णः । इति मेदिनी ॥ कोजागरपूर्णिमा । इति शब्दरत्नावली ॥ शरत्कालीने, त्रि । यथा, स्कान्दभविष्ययोः । “शारदीचण्डिकापूजा त्रिविधा परिगीयते । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ सात्त्विकी जपयज्ञाद्यैर्नैवेद्यैश्च निरामिषैः । माहात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् ॥ पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनाः प्रिये । राजसी वलिदानेन नैवेद्यैः सामिषैस्तथा ॥ सुरामांसाद्युपहारैर्जपयज्ञैर्विना तु या । विना मन्त्रैस्तामसी स्यात् किरातानाञ्च सम्मता ॥” इति तिथ्यादितत्त्वम् ॥ (संवत्सरसम्बन्धिनी । यथा, ऋग्वेदे । १ । १३१ । ४ । “यदिन्द्रशारदीरवातिरः सा सहानो अवा- तिरः ॥”)



Correction: