वाचस्पत्यम्
शारीर || त्रि० शरीरस्येदम् अण् । १ देहसम्बद्धे सुखदुःखादौ तत्सोढमस्य पुनः अण् । २ वृषे पु० मेदि० । शरीरमात्म- त्वेनाभिमन्यते अण् । ३ जीवे । स्वार्थे क । तत्रार्थे । शारीरं जीवं दुःखं वा अधिकृत्य कृतो ग्रन्थः कन् । व्यासकृते वेदान्तसूत्रे चिकित्साङ्गे सुश्रुतग्रन्थाद्येकदेशे च शारीरञ्च दुःखं रोगादिकं यथोक्तं विष्णुपु० ६५ अ० । “आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः । शिरोरोग प्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयपुश्वास छर्द्यादिभिरनेकधा । तथाक्षिरोगातिसारकुष्ठाङ्गामय- संज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि” सुश्रुतान्तर्गतशारीरकस्थानञ्च तत्र दृश्यम् ।
शब्दकल्पद्रुमः
शारीरं || क्ली वृषः । (शरीरे भवः । शरीर + अण् ।)
शरीरजाते, त्रि । इति मेदिनी ॥ * ॥
शारीरदण्डो यथा, —
“दिग्दण्डं प्रथमं कुर्य्यात् वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डञ्च वधदण्डमतः परमिति ॥” वधदण्डोऽपि शारीरो ब्राह्मण्यव्यतिरिक्तानाम् । इति मिताक्षरायां व्यवहारकाण्डम् ॥ * ॥
शारीरदुःखं यथा, —
“आध्यात्मिको वै द्विविधः शारीरो मानम्ब- स्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ कामक्रोधभयद्बेषलोभमोहविषादजः । शोकासूयापमानेर्ष्यामात्सर्य्यादिभयस्तथा ॥ मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम । सुकुमारतनुर्गर्भे जन्तुर्ब्बहुमलावृते ॥ उल्वसंवेष्टितो भुग्नपृष्ठग्रीवातिसंहतिः । अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ॥ अतितापिभिरत्यर्थं वर्द्धमानातिवेदनः । प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ॥ शकृन्मूत्रमहापङ्कशायी सर्व्वत्र पीडितः । निरुच्छ्वासः सचैतन्यः स्मरन् जन्मशतान्यथ ॥ आस्ते गर्भेऽतिदुःखेन निजकर्म्मनिबन्धनः । जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ॥ प्रजापत्येन वातेन पीड्यमानास्थिबन्धनः । अधोमुखो वै ह्रियते प्रवलैः सूतिमारुतैः ॥ क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः । मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ॥ विज्ञानं भ्रंशमाप्नोति जातश्च मुनिसत्तम । कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ॥ पूतिव्रणान्निपतितो धरण्यां क्रमिको यथा । कण्डूयनेऽपि वाशक्तः परिवर्त्तेऽप्यनीश्वरः ॥ स्नानपानादिकाहारमप्याप्नोति परेच्छया । अशुचिः स्रस्तरे सुप्तः कीटदंशादिभिस्तथा ॥ भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे । जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ॥ बालभावे यदाप्नोति आधिभौतादिकानि च । अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ॥ न जानाति कुतः कोऽहं क्व वा गन्ता किमा- त्मकः ॥” इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥ * ॥
अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्या- स्यामः । शुक्रशोणितं गर्भाशयस्थमात्मप्रकृति- विकारसंमूर्च्छितं गर्भ इत्युच्यते । तच्च चेतना- वस्थितं वायुर्व्विभजति । तेज एनं पचति । आपः क्लेदयन्ति । पृथिवी संहन्ति । आकाशं विवर्द्धयति । एवं विवर्द्धितः स यदा हस्तपाद- जिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा श- रीरमिति संज्ञां लभते । तच्च षडङ्गं शाखा- चतस्नो मध्यं पञ्चमं षष्ठं शिर इति ॥ * ॥
अतः परं प्रत्यङ्गानि कथ्यन्ते । मस्तकोदरपृष्ठनाभि- ललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः । कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषणपार्श्व- स्फिक्जानुबाहूरुप्रभृतयो द्वे द्वे । विंशतिरङ्गु- लयः । स्रोतांसि च वक्ष्यमाणानि । एष प्रत्यङ्ग- विभाग उक्तः ॥ * ॥
तस्य पुनः संख्यानम् । त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्- फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा जालानि कूर्च्चा रज्जवः सेवन्यः संघाताः सीमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्म्माणि सिरा धमन्यो योगवहानि स्रोतांसि च ॥ * ॥
त्वचः सप्त । कलाः सप्त । आशयाः सप्त । धातवः सप्त । सप्त शिरा- शतानि । पञ्च पेशीशतानि । नव स्नायुशतानि । त्रीण्यस्थिशतानि । द्वे दशोत्तरे सन्धिशते । सप्तो- त्तरं मर्म्मशतम् । चतुर्विंशतिर्धमन्यः । त्रयो दोषास्त्रयो मलाः । नव स्रोतांसि इति समासः ॥ * ॥
विस्तारोऽत ऊर्द्ध्वम् । त्वचोऽभि- हिताः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयं वृक्कौ च ॥ * ॥
आश- यास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ता- शय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति ॥ * ॥
सार्द्धत्रिव्यामान्यन्त्राणि पुंसां स्त्रीणामर्द्धव्यामहीनानि । श्रवणनयन- वदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहिर्मुखान्येतान्येव स्त्रीणामपराणि च त्रीणि द्वेस्तनयोरधस्ताद्रक्तवहञ्च ॥ * ॥
षोडश कण्डराः । तासाञ्चतस्रः पादयोस्तावत्यो हस्तग्रीवापृष्ठेषु । तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहाः । ग्रीवाहृदयनिबन्धिनीनां अधोभागगतानां मेढ्रं श्रोणिपृष्ठनिबन्धिनीनां अधोभागगतानां विम्बः । मूर्द्धोरुवक्षोऽक्षपिण्डादीनाञ्च मांससिरास्नाय्व- स्थिजालानि प्रत्येकं चत्वारि चत्वारि । तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि परस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति । यैर्गवाक्षितमिदं शरीरम् ॥ * ॥
षट् कूर्च्चास्ते हस्तपादग्रीवामेढ्रेषु । हस्तयोर्द्वौ पादयोर्द्बौ ग्रीवामेढ्रयोरेकैकः । महत्यो मांसरज्जवश्चतस्रः पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्ये आभ्यन्तरे च द्वे ॥ * ॥
सप्त सेवन्यः । शिरसि विभक्ताः पञ्च जिह्वासेफसोरेकैका ताः परि- हर्त्तव्याः शस्त्रेण ॥ * ॥
चतुर्द्दशास्थ्नां संघाताः । तेषां त्रयो गुल्फजानुवङ्क्षणेषु । एतेनेतरसक्थि- बाहू च व्याख्यातौ । त्रिकशिरसोरेकैकः ॥ * ॥
चतुर्द्दशैव सीमन्ताः । ते चास्थिसंघातवद्गण- नीया यतस्तैर्युक्ता अस्थिसंघाताः । ये ह्युक्ताः संघातास्तु खल्वष्टादशैकेषाम् ॥ * ॥
त्रीणि स षष्ठान्यस्थिशतानि वेदवादिनो भाषन्ते । शल्य- तन्त्रे तु त्रीण्येव शतानि । तेषां सविंशमस्थि- शतं शाखासु । सप्तदशोत्तरं शतं श्रोणिपार्श्व- पृष्ठोदरोरःसु । ग्रीवां प्रत्यूर्द्ध्वं त्रिषष्टिः । एव- मस्थ्नां त्रीणि शतानि पूर्य्यन्ते । एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश । तल- कूर्च्चगुल्फसंश्रितानि दश । पार्ष्ण्यामेकम् । जङ्घायां द्बे । जानुन्येकम् । एकमूराविति । त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतर- सक्थिबाहू च व्याख्यातौ । श्रोण्यां पञ्च तेषां गुदभगनितम्बेषु चत्वारि । त्रिकसंश्रितमेकम् । पार्श्वे षट्त्रिंशदेवमेकस्मिन् द्वितीयेऽप्येवम् । पृष्ठे त्रिंशत् । अष्टावुरसि । द्वे अक्षकसंज्ञे । ग्रीवायां नवकम् । कण्ठनाड्यां चत्वारि । द्बे हन्वोः । दन्ता द्बात्रिंशत् । नासायां त्रीणि । एकं तालुनि । गण्डकर्णशङ्खेष्वेकैकम् । षट्- शिरसि । एतानि पञ्चविधानि भवन्ति । तद्- यथा । कपालरुचकतरुणबलयनलकसंज्ञानि । तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपा- लानि । दशनास्तु रुचकानि । घ्राणकर्ण- ग्रीवाक्षिकोषेषु तरुणानि । पाणिपादपार्श्व- पृष्ठोदरोरःसु बलयानि । शेषाणि नलक- संज्ञानि ॥ * ॥
भवन्ति चात्र । “अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः । अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् ॥ तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् । अस्थीनि न विनश्यन्ति साराण्येतानि देहि- नाम् ॥ मांसान्यत्र निबद्धानि शिराभिः स्नायुभिस्तथा । अस्थीन्यालम्बनं कृत्वा न शीर्य्यन्ते पतन्ति वा ॥” सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च । “शाखासु हन्वोः कट्याञ्च चेष्टावन्तस्तु सन्धयः । शेषास्तु सन्धयः सर्व्वे विज्ञेया हि स्थिरा बुधैः ॥” संख्यातस्तु दशोत्तरे द्वे शते । तेषां शाखा- स्वष्टषष्टिरेकोनषष्टिः कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वं त्र्यशीतिः । एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयो द्वावङ्गुष्ठे ते चतुर्द्दश । जानुगुल्फवङ्क्षणेष्वेकैकः । एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति । एते- नेतरसक्थिबाहू च व्याख्यातौ । त्रयः कटी- कपालेषु । चतुर्व्विंशतिः पृष्ठवंशे । तावन्त एव पार्श्वयोः । उरस्यष्टौ । तावन्त एव ग्रीवायाम् । त्रयः कण्ठे । नाडीषु हृदयक्लोमनिबद्धास्वष्टा- दश । दन्तपरिमाणा दन्तमूलेषु । एकः काक- लके नासायाञ्च । द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ । गण्डकर्णशङ्खेष्वेकैकः । द्वौ हनुसन्धी । द्बावु- परिष्टाद्भ्रुवोः शङ्खयोश्च । पञ्च शिरःकपा- लेषु । एको मूर्द्ध्नि ॥ * ॥
त एते सन्धयो- ऽष्टविधाः । कोरोदूखलसामुद्गप्रतरतुन्नसेवनी- वायसतुण्डमण्डलशङ्खावर्त्ताः । तेषामङ्गुलिमणि- बन्धगुल्फजानुकूर्परेषु कोराः सन्धयः । कक्षा- वङ्क्षणदशनेषूदूखलाः । अंसपीठगुदभगनितम्बेषु सामुद्गाः । ग्रीवापृष्ठवंशयोः प्रतराः । शिरः- कटीकपालेषु तुन्नसेवनी । हन्वोरुभयतस्तु वायसतुण्डाः । कण्ठहृदयनेत्रक्लोमनाडीषु मण्डलाः । श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः । “तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः । अस्थ्नान्तु सन्धयो ह्येते केवलाः परिकीर्त्तिताः । पेशास्नायुशिराणान्तु सन्धिसंख्या न विद्यते ॥” नवस्नायुशतानि । तासां शाखासु षट् शतानि । द्बे शते त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वं सप्ततिः । एकैकस्यान्तु पादाङ्गुल्यां षट् निचितास्ता- स्त्रिंशत् । तावत्य एव तलकूर्च्चगुल्फेषु । तावत्य एव जंघायाम् । दशा जानुनि । चत्वारिंश- दूरौ । दश वङ्क्षणे । शतमध्यर्द्धमेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थिबाहू च व्याख्यातौ । षष्टिः कट्याम् । अशीतिःपृष्ठे । पार्श्वयोः षष्टिः । उरसि त्रिंशत् । षट्त्रिंशत् ग्रीवायाम् । मूर्द्ध्नि चतुस्त्रिंशत् । एवं नव- स्नायुशतानि व्याख्यातानि ॥ * ॥
भवन्ति चात्र । “स्नायुश्चतुर्विधा विद्यात्तास्तु सर्व्वा निबोध मे । प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ॥ प्रतानवत्यः शाखासु सर्व्वसन्धिषु चाप्यथ । वृत्तास्तु कण्डराः सर्व्वा विज्ञेयाः कुशलैरिह ॥ आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु । पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥ नौर्यथा फलकास्तीर्णा बन्धनैर्ब्बहुभिर्युता । भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ॥ एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः । स्नायुभिर्ब्बहुभिर्बद्धास्तेन भारसहा नराः ॥ न ह्यस्थीनि न वा पेश्यो न शिरा न च सन्धयः । व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ॥ यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरा- स्तथा । स गूढं शल्यमाहर्त्तुं देहाच्छक्नोति देहि- नाम् ॥” * ॥
पञ्च पेशीशतानि भवन्ति । तासां चत्वारि शतानि शाखासु । कोष्ठे षट्षष्टिः । ग्रीवां प्रत्यूर्द्ध्वञ्चतुस्त्रिंशत् । एकैकस्यान्तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश । दश प्रपदे । पादो- परि कूर्च्चसन्निविष्टास्तावत्य एव । दश गुल्फ- तलयोः । गुल्फजान्वन्तरे विंशतिः । पञ्च जानुनि । विंशतिरूरौ । दश वङ्क्षणे । शतमेव- मेकस्मिन् सक्थ्नि भवन्ति । एते नेतरसक्थि- बाहू च व्याख्यातौ । तिस्रः पायौ । एका मेढ्रे । सेवन्यां चापरा । द्बे वृषणयोः । स्फिचोः पञ्च पञ्च । द्बे वस्तिशिरसि । पञ्चोदरे । नाभ्यामेका । पृष्ठोर्द्ध्वसंनिविष्टाः पञ्च पञ्च दीर्घाः । षट् पार्श्वयोः । दश वक्षसि । अक्ष- कांसौ प्रति समन्तात् सप्त । द्वे हृदयामाश- ययोः । षट् यकृत्प्लीहोण्डुकेषु । ग्रीवाया- ञ्चतस्रः । अष्टौ हन्वोः । एकैका काकलकगलयोः । द्वे तालुनि । एका जिह्वायाम् । ओष्ठयोर्द्वे । घोणायां द्बे । द्वे नेत्रयोः । गण्डयोश्चतस्रः । कर्णयोर्द्वे । चतस्रो ललाटे । एका शिरसी- त्येवमेतानि पञ्च पेशीशतानि ॥ * ॥
“सिरास्राय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम् । पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्वतः ॥” स्त्रीणान्तु विंशतिरधिका । दश तासां स्तनयो- रेकैकस्मिन् । पञ्च पञ्च यौवने तासां परिवृद्धिः । अपत्यपथे चतस्रस्तासां प्रसृतेऽभ्यन्तरतो द्वे मुखाश्रिते वाह्ये च प्रवृत्ते द्वे । गर्भच्छिद्र- संश्रितास्तिस्रः । शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव । पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति । तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिर- मृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायु- प्रच्छादका यथादेशं स्वभावतः एव भवन्ति ॥ * ॥
भवति चात्र । “पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षण- मुष्कजाः । स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥” मर्म्मसिरा धमनीस्रोतसामन्यत्र प्रविभागः ॥ * ॥
“शङ्खनाभ्याकृतिर्योनिः स्त्र्यावर्त्ता सा प्रकीर्त्तिता । तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥ यथा रोहितमत्स्यस्य मुखं भवति रूपतः । तत्संस्थानां तथारूपां गर्भशय्यां विदुर्ब्बुधाः ॥ आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः । स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ॥ त्वक्पर्य्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः । शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ॥ तस्मान्निःसंशयं ज्ञानं हर्त्ता शल्यस्य वाञ्छता । शोधयित्वा मृतं सम्यक् द्रष्टव्योऽङ्गविनिश्चयः ॥ प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टञ्च यद्भवेत् । समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ॥ तस्मात् समस्तगात्रमविषोपहतं अदीर्घव्याधि- पीडितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुष- मवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्ज- वल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गं अप्र- काशे देशे कोययेत् । सम्यक्प्रकुथितञ्चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुवल्कलकूची- नामन्यतमेन शनैः शनैरवधर्षयंस्त्वगादीन् सर्व्वानेव बाह्याभ्यन्तराङ्गप्रत्यङ्गविशेषान् यथो- क्तान् लक्षयेच्चक्षुषा । श्लोकौ चात्र भवतः । “न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः । दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥ शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः । दृष्टश्रुताभ्यां सन्देहमवापो ह्याचरेत् क्रियाः ॥” षष्ठोऽध्यायः । अथातः प्रत्येकमर्म्मनिर्देशं शारीरं व्याख्या- स्यामः । सप्तोत्तरं मर्म्मशतम् । तानि मर्म्माणि पञ्चात्मकानि । तद्यथा । मांसमर्म्माणि । सिरामर्म्माणि स्नायुमर्म्माणि । अस्थिमर्म्माणि । सन्धिमर्म्माणि चेति । न खलु मांससिरा- स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि भवन्ति यस्मान्नोपलभ्यन्ते । तत्रेकादश मांस- मर्म्माणि । एकचत्वारिंशत् शिरामर्म्माणि । सप्तविंशतिः स्नायुमर्म्माणि । अष्टावस्थि- मर्म्माणि । विशतिः सन्धिमर्म्माणि । तदेतत् सप्तोत्तरं मर्म्मशतम् ॥ * ॥
तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थिबाहू च व्याख्यातौ । उदरोरसोर्द्वादश । चतुर्दश पृष्ठे । ग्रीवां प्रत्यूर्द्ध्वं सप्तत्रिंशत् । तत्र सक्थिमर्म्माणि क्षिप्रतलहृदयकूर्च्चकूर्च्चशिरोगुल्फेन्द्रवस्तिजान्वा- ण्युर्व्वीलोहिताक्षाणि विटपञ्चेति । एतेनेतर- सक्थि व्याख्यातम् ॥ * ॥
उदरोरसोस्तु । गुद- वस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्य- पस्तम्भौ चेति । पृष्ठमर्म्माणि तु कटीकतरुण- कुकुन्दर-नितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति । बाहुमर्म्मणि तु क्षिप्रतलहृदयकूर्च्चकूर्च्च- शिरोमणिबन्धेन्द्रवस्तिकुर्पराण्युर्घीलोहिताक्षाणि कक्षधरञ्चेति । एतेनेतरो बाहुर्व्याख्यातः । जत्रूर्द्ध्वं मर्म्माणि । चतस्रो धमन्योऽष्टौ मातृकाः । द्वे कृकाटिके । द्वे विधुरे । द्वौ फणौ । द्बाव- पाङ्गौ । द्बावावर्त्तौ । द्वावुत्क्षेपौ । द्बौ शङ्खा- वेका स्थपनी । पञ्च सीमन्ताः । चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति । तत्र तलहृद- येन्द्रवस्तिगुदस्तनरोहितानि मांसमर्म्माणि । नीलधमनी-मातृकाशृङ्गाटकापाङ्गस्थपनीफण- स्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिवृ- हतीलोहिताक्षोर्व्व्यःसिरामर्म्माणि । आणि- विटपकक्षधरकूर्च्चकूर्च्चशिरोवस्तिक्षिप्रांसविधु- रोत्क्षेपाः स्नायुमर्म्माणि । कटीकतरुणनित- म्बांसफलकशङ्खास्त्वस्थिमर्म्माणि । जानुकुर्पर- सीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्त्तकृका- टिकाश्चेति सन्धिमर्म्माणि । तान्येतानि पञ्च विकल्पानि मर्म्माणि भवन्ति । तद्यथा । सद्यः- प्राणहराणि । कालान्तरप्राणहराणि । विशल्य- घ्नानि । वैकल्यकराणि । रुजाकराणीति । तत्र सद्यःप्राणहराण्येकोनविंशतिः । कालान्तर- प्राणहराणि त्रयस्त्रिंशत् । त्रीणि विशल्य- घ्नानि । चतुर्श्चत्वारिंशद्बैकल्यकराणि । अष्टौ रुजाकराणीति ॥ * ॥
भवन्ति चात्र । “शृङ्गाटकान्यधिपतिः शङ्खो कण्ठशिरोगुदम् । हृदयं वस्तिनाभी च घ्नन्ति सद्योहतानि तु ॥ वक्षोमर्म्माणि सीमन्ततलक्षिप्रेन्द्रवस्तयः । कटीकतरुणे सन्धी पार्श्वजौ बृहती च या ॥ नितम्बाविति चैतानि कालान्तरहराणि तु । उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्द्दिशेत् ॥ लोहिताक्षाणि जानूर्वी कूर्च्चा विटपकूर्पराः । कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ॥ अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा । वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च ॥ गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्च्चशिरांसि च । रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् । क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च ॥” मर्म्माणि नाम मांसशिरास्नाय्वस्थिसन्धिसन्नि- पातास्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति । तस्मान्मर्म्मस्वभिहतास्तांस्तान् भावानापद्यन्ते । तत्र सद्यःप्राणहराण्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति । कालान्तरप्राणहराणि सौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्य- प्राणहराणि वायव्यानि शल्यमुंखनिरुद्धो याव- दन्तर्व्वायुस्तिष्ठति तावज्जीवत्युद्धृतमात्रे तु शल्ये मर्म्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते । वैकल्य- कराणि सौम्यानि सोमो हि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति । रुजाकराण्यग्निवायु- गुणभूयिष्ठानि विशेषतश्च तौ रुजाकरौ । पाञ्चभौतिकीञ्च रुजामाहुरेके । केचिदाहु- र्म्मांसादीनां पञ्चानामपि समस्तानां विवृद्धा- नाञ्च समवायात् सद्यःप्राणहराणि । एक- हीनानामल्पानां वा कालान्तरप्राणहराणि । द्बिहीनानां विशल्यप्राणहराणि । त्रिहीनानां वैकल्यकराणि । एकस्मिन्नेव रुजाकराणीति । यतश्चैव मतोऽस्थिमर्म्मस्वप्यभिहतेषु शोणिता गमनं भवति ॥ * ॥
“चतुर्व्विधा यास्तु शिराः शरीरे प्रायेण ता मर्म्मसु सन्निविष्टाः । स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतिपालयन्ति ॥ ततः क्षते मर्म्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति । विवर्द्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये ॥ रुजाभिभूतन्तु पुनः शरीरं प्रलीयते नश्यति चास्य संज्ञा । अतो हि शल्यं विनिहन्तुमिच्छन् मर्म्माणि यत्नेन परीक्ष्य कर्षेत् ॥” एतेन शेषं व्याख्यातम् । तत्र सद्यःप्राणहर- मन्ते विद्धं कामान्तरेण मारयति । कालान्तर- प्राणहरमन्ते विद्धं वैकल्यमापादयति । विशल्य- प्राणहरमन्ते विद्धं कालान्तरेण क्लेशयति रुजाञ्च करोति । रुजाकरमतीव्रवेदनं भवति । तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मार- यन्ति । कालान्तरप्राणहराणि पक्षान्मासाद्वा । तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति । विशल्यप्राणहराणि वैकल्यकराणि च कदाचि- दत्यभिहतानि मारयन्ति ॥ * ॥
अत ऊर्द्ध्वं प्रत्येकशो मर्म्मस्थानान्यनुव्याख्यास्यामः । तत्र पादाङ्गुष्ठाङ्गुल्योर्म्मध्ये क्षिप्रं नाम मर्म्म तत्र विद्धस्याक्षेपकेण मरणम् । मध्यमाङ्गुलीमनु- पूर्व्वेण मध्ये पादतलस्य तलहृदयं नाम तत्रापि रुजाभिर्मरणम् । क्षिप्रस्योपरिष्टादुभयतः कूर्च्चो नाम यत्र पादस्य भ्रमणवेपने भवतः । गुल्फ- सन्धेरध उभयतः कूर्च्चशिरो नाम तत्र रुजा- शोफौ । पदजङ्घयोः सन्धाने गुल्फो नाम तत्र रुजस्तब्धपादता खञ्जता वा । पार्ष्णिं प्रति जङ्घामध्ये इन्द्रवस्तिर्नाम तत्र शोणितक्षये मरणम् । जङ्घोर्व्वोः सन्धाने जानु नाम तत्र खञ्जता जानुन ऊर्द्ध्वमुभयतस्त्र्यङ्गुलमाणिर्नाम तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च । ऊरु- मध्ये ऊर्व्वी नाम तत्र शोणितक्षयात् सक्थि- शोषः । ऊर्व्या उर्द्ध्वमधोवङ्क्षणसन्धेरूरुमूले जोहिताक्षं नाम तत्र लोहितक्षयेण पक्षा- घातः । वङ्क्षणवृषणयोरन्तरे विटपं नाम तत्र वाण्ड्यमल्पशुक्रता वा भवति । एवमेतान्येका- दशसक्थिमर्म्माणि व्याख्यातानि । एतेनेतर- सक्थिबाहू च व्याख्यातौ । विशेषतस्तु यानि सक्थ्नि गुल्फजानुविटपानि तानि बाहौ मणि- बन्धकूर्परकक्षधराणि । यथा वङ्क्षणवृषणयो- रन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं तस्मिन् विद्धेत एवोपद्रवाः । विशेषतस्तु मणि- बन्धे कुण्ठता । कुर्पराख्ये कुणिः । कक्षधरे कक्षाघातः । एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्म्माणि व्याख्यातानि ॥ * ॥
अत ऊर्द्ध्व- मुदरोरसोर्मर्म्मस्थानान्यनुव्याख्यास्यामः । तत्र वातवर्च्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म्म तत्र सद्योमरणम् । अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो वस्तिर्नाम तत्रापि सद्योमरण- मश्मरीव्रणादृते । तत्राप्युभयतो भिन्ने न जीव- त्येकतो भिन्ने मूत्रस्रावी व्रणो भवति । स तु यत्नेनोपक्रान्तो रोहति । पक्वामाशययोर्म्मध्ये सिराप्रभवा नाभिर्नाम तत्रापि सद्य एव मर- णम् । स्तनयोर्म्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम तत्र सद्य एव मरणम् । स्तनयोरधस्तात् हृदङ्गुलमुभयत- स्तनमूले नाम मर्म्मणी तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते । स्तनचूचुकयोरूर्द्ध्वं द्ब्यङ्गुलमुभयतः स्तनरोहितौ नाम तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्याञ्च म्रियते । अंशकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ नाम तत्र रक्तेन पूयभावं गतेन मरणम् । उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम तत्र वातपूर्णकोष्ठतया कासश्वासाभ्याञ्च मर- णम् । एवमेतान्युदरोरसोर्द्बादश मर्म्माणि व्याख्यातानि ॥ * ॥
अत ऊर्द्ध्वं पृष्ठमर्म्माण्यनु- व्याख्यास्यामः । तत्र पृष्ठवंशमुभयतः प्रतिश्रोणी काण्डमस्थीनि कटीकतरुणे नाम मर्म्मणी तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियते । पार्श्वजघनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शा- ज्ञानमधःकाये चेष्टोपघातश्च । श्रोणीकाण्डयो- रुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ नाम तत्राधःकायशोषो दौर्ब्बल्याच्च मरणम् । अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्व- मध्ययोस्तिर्य्यगूर्द्ध्वञ्च जघनात् पार्श्वसन्धी नाम तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूला- दुभयतः पृष्ठवंशस्य बृहती नाम तत्र शोणि- तातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते । पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम तत्र बाह्वोः स्वापः शोषो वा । बाहुमूर्द्ध्वग्रीवामध्ये- ऽंसपीठस्कन्धनिबन्धनावंसौ नाम तत्र स्तब्ध- बाहुता । एवमेतानि चतुर्द्दश पृष्ठमर्म्माणि व्याख्यातानि ॥ * ॥
अत ऊर्द्ध्वं जत्रुगतानि व्याख्यास्यामः । तत्र कण्ठनाडीमुभयतश्चतस्रो धमन्यो द्बे नीले द्बे च मन्ये व्यत्यासेन तत्र मूकता स्वरवैकृतमरसग्राहिता च । ग्रीवाया- मुभयतश्चतस्रःसिरामातृकास्तत्र सद्योमरणम् । शिरोग्रीवयोः सन्धाने कृकाटिके नाम तत्र चलमूर्द्ध्वता । कर्णपृष्ठतोऽधःसंश्रिते विधुरे नाम तत्र व्याधिर्य्यम् । घ्राणमार्गमुभयतः स्रोतोमार्ग- प्रतिबद्धे अभ्यन्तरतः फणे नाम तत्र गन्धा- ज्ञानम् । भ्रूपुच्छान्तयोरधोऽक्ष्णोर्वाह्यतोऽपाङ्गौ नाम तत्रान्ध्यं दृष्ट्युपघातो वा । भ्रुवोरुपरि- निम्नयोरावर्त्तौ नाम तत्रान्ध्यं दृष्ट्युपघातश्च । भ्रवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ नाम तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः । भ्रुवोर्मध्ये स्थपनी नाम तत्रोत्क्षेपवत् । पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम तत्रोन्मादभयचित्त- नाशैर्मरणम् । घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि तानि चत्वारि मर्म्माणि तत्रापि सद्योमरणम् । मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातो रोमावर्त्तः अधिपतिस्तत्रापि सद्योमरणम् । एवमेतानि सप्तत्रिंशदूर्द्ध्वजत्रुगतानि मर्म्माणि व्याख्यातानि ॥ * ॥
भवन्ति चात्र । “ऊर्व्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमिता स्तनपूर्व्वमूलम् । विद्ध्यङ्गुलद्बयमितं मणिबन्धगुल्कं त्रीण्येव जानु सपरं सह कुर्पराभ्याम् ॥ हृद्बस्थिकूर्च्चगुदनाभि वदन्ति मूर्द्ध्नि चत्वारि पञ्च च गले दश यानि च द्बे । तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्द्धम् ॥ एतत् प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्म्मकरणं परिहृत्य मर्म्म । पार्श्वाभिघातितमपीह निहन्ति मर्म्म तस्माद्धि मर्म्मसदनं परिवर्ज्जनीयम् ॥ छिन्नेषु पाणिचरणेषु शिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति । प्राप्यामितव्यसनमुग्रमतो मनुष्याः संछिन्नशाखतरुवन्निधनं न यान्ति ॥ क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति । एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः ॥ तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे । मर्म्माणि शल्यविषयार्द्धमुदाहरन्ति यस्माच्च मर्म्मसु हता न भवन्ति सद्यः ॥ जीवन्ति तत्र यदि वैद्यमुणेन केचित् ते प्राप्नुवन्ति विकलत्वमसंशयं हि । सम्भिन्नजर्ज्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः । छिन्नैश्च सक्थिभुजपादकरैरशेषै- र्येषां न मर्म्मपतिता विविधाः प्रहाराः ॥ सोममारुततेजांसि रजःसत्त्वतमांसि च । मर्म्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ॥ मर्म्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः । इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्य्ययः ॥ रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते । हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् ॥ ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति । हते वैकल्यजनने केवलं वैद्यनैपुणात् ॥ शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् । विशल्यघ्नेषु विज्ञेयं पूर्व्वोक्तं यच्च कारणम् ॥ रुजाकराणि मर्म्माणि क्षतानि विविधा रुजः । कुर्व्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ॥ छेदभेदाभिघातेभ्यो दहनाद्दारणादपि । उपघातं विजानीयान्मर्म्मणान्तुल्यलक्षणम् ॥ मर्म्माभिघातश्च न कश्चिदस्ति योऽल्पात्ययो वापि निरत्ययो वा । प्रायेण मर्म्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ॥ मर्म्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् । प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ॥” * ॥
सप्तमोऽध्यायः । अथातः सिरावर्णनविभक्तिनाम शारीरं व्याख्या- स्यामः । सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यते अनुगृह्यते चाकुञ्चन- प्रसारणादिभिर्व्विशेषैः । द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिर्मूलं ततश्च प्रसरन्त्यूर्द्ध्वमधस्तिर्य्यक् च ॥ * ॥
भवतश्चात्र । “यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् । नाभ्यां सर्व्वा निबद्धास्ता प्रतन्वन्ति समन्ततः ॥ नाभिस्थाः प्राणिनां प्राणा प्राणान्नाभिर्व्युपा- श्रिता । सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥” तासां मूलसिराश्चत्वारिंशत् । तासां वात- वाहिन्यो दश । पित्तवाहिन्यो दश । कफ- वाहिन्यो दश । दश रक्तवाहिन्यः । तासान्तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्तति- शतं भवति । तावत्य एव पित्तवाहिन्यः । पित्त- स्थाने कफवाहिन्यश्च । कफस्थाने रक्तवाहि- न्यश्च । यकृत्प्लीह्नोरेवमेतानि सप्तसिराशतानि । तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्च- विंशतिः । एतनेतरसक्थिबाहू च व्याख्यातौ । विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्रा- श्रिताः । श्रोण्यामष्टौ । द्वे द्बे पार्श्वयोः । षट् पृष्ठे । तावत्य एव चोदरे । दश वक्षसि । एकचत्वारिंशज्जत्रुण ऊर्द्ध्वम् । तासां चतुर्दश ग्रीवायाम् । कर्णयोश्चतस्रः । नव जिह्वायाम् । षट् नासिकायाम् । अष्टौ नेत्रयोः । एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम् । एष एव विभागः शेषाणामपि । विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश । कर्ण- योर्द्वे । एवं रक्तवहा कफवहाश्च । एवमेतानि सप्त सिराशतानि सविभागानि व्याख्यातानि ॥ * ॥
भवन्ति चात्र । “क्रियानामप्रतीघातममीहं बुद्धिकर्म्मणाम् । करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ॥ यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा जायन्ते वातसम्भवाः ॥ भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् । संसर्पत् स्वाः सिराः पित्तं कुर्य्याच्चान्यान् गुणा- नपि ॥ यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः ॥ स्नेहमङ्गेषु सन्धीनां स्थैर्य्यं बलमुदीर्णताम् । करोत्यन्यान् गुणांश्चापि बलासः स्वाः शिरा- श्चरन् ॥ यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥ धातूणां पूरणं वर्णं स्पर्शज्ञानमसंशयम् । स्वाः सिराः सञ्चरद्रक्तं कुर्य्याच्चान्यान् गुणानपि ॥ यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥ न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा । श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः ॥ प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम् । ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः ॥ तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः । पित्ता दुष्टाश्च नीलाश्च शीता गौर्य्यः स्थिराः कफात् । असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ॥ अत ऊर्द्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा भिषक् । वैकल्यं मरणञ्चापि व्यधात्तासां ध्रुवं भवेत् ॥ सिराशतानि चत्वारि विद्याच्छाखासु बुद्धि- मान् । षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिञ्च मूर्द्धनि ॥ शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु । पञ्चाशज्जानुनश्चोर्द्ध्वमवेध्याः परिकीर्त्तिताः ॥” तत्र सिराशतमेकैकस्मिन् सक्थ्नि भवति तासां जालधरा त्वेका तिस्रश्चाभ्यन्तराः । तत्रोर्व्वी- संज्ञे द्बे लोहिताक्षसंज्ञा चैकैतास्त्ववेध्याः । एतेनेतरसक्थिबाहू च व्याख्यातावेवमशस्त्र- कृत्याः षोडश शाखासु । द्वात्रिंशत् श्रोण्यां तासामष्टावशस्त