संस्कृत-शब्दकोशः

शार्करीय शार्ङ्गष्टा

शार्ङ्ग

वाचस्पत्यम्

शार्ङ्ग ||‍ त्रि० शृङ्गस्य विकारः अण् । १ शृङ्गजाते पदार्थे । २ विष्णुधनुषि ३ धनुर्मात्रे च पु० मेदि० ४ आर्द्रके न० राजनि० ।


शब्दकल्पद्रुमः

शार्ङ्गं || क्ली आर्द्रकम् । इति राजनिर्घण्टः ॥ (शृङ्गस्य विकारः । शृङ्ग + अण् ।)
विष्णुधनुः । धनुर्मात्रम् । इति मेदिनी । गे, २६ ॥ (यथा, रघुः । ४ । ६२ । “शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥”)
शृङ्गसम्बन्धिनि, त्रि ॥



Correction: