संस्कृत-शब्दकोशः

शार्दूल शार्दूलवाहन

शार्दूलललित

वाचस्पत्यम्

शार्दूलललित ||‍ न० अष्टादशाक्षरपादके छन्दोभेदे तल्लक्षणं यथा “सः सो जः सतसा दिनेशऋतुभिः शार्दूत्रललि- तम” छन्दोम० ।


शब्दकल्पद्रुमः

शार्द्दूलललितं || क्ली धृतिवृत्तौ अष्टादशाक्षर- पादच्छन्दोविशेषः । यथा, —
“मः सो जःस-त-सा दिनेश ऋतुभिः शार्द्दूल- ललितम् । कृत्वा कंसमृगे पराक्रमविधिं शार्द्दूलललितं यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदवम् । सन्तोषं परमन्तु देवनिवहे त्रैलोक्यशरणं श्रेयो वः स तनोत्वपारमहिमा लक्ष्मीप्रिय- तमः ॥” इति छन्दोमञ्जरी २ स्तवकः ॥



Correction: