शार्दूलललित
परि०-
मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम् ।
गण०-
म, स, ज, स, त, स, (12.6.) ।
उदा०-
“कृत्वाकंसमृगे पराक्रमविधिं शार्दूलललितं
यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु।
संतोषं परमं तु देवनिवहे त्रैलोक्यशरणं
श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥”