वाचस्पत्यम्
शार्दूलविक्रीडित || न० ऊमविंशत्यक्षरपादके छन्दोनेदे तक्व- क्षणं यथा “सूर्य्याश्वैर्मसजस्तताः सगुरवः शार्दूलवि- क्रीडितम्” छन्दोम० ।
शब्दकल्पद्रुमः
शार्द्दूलविक्रीडितं || क्ली अतिधृतिवृत्तौ ऊन- विंशतिपादच्छन्दोविशेषः । यथा, —
“सूर्य्याश्वैर्म-स-ज-स्त-ताः सगुरवः शार्द्दूलविक्री- डितम् । गोविन्दं प्रणमोत्तमाङ्ग रसने त्वं घोषयाहर्निशं पाणी पूजयतं मनः स्मर पदे तस्यालयं गच्छ- तम् । एवञ्चेत् कुरुताखिलं मम हितं शर्षादय- स्तद्ध्रुवं न प्रेक्ष्ये भवतां कृते भवमहाशार्द्दूलविक्री- डितम् ।” इति छन्दोमञ्जरी २ स्तवकः ॥