शार्दूलविक्रीडित
परि० -
सूर्याश्वैर्यदि मः सजौ सततगा: शार्दूलविक्रीडितम् ।
गण०-
म, स, ज, स, त, त, ग (12.7.) ।
उदा०-
“वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः।
अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥” वि० १।१।