वाचस्पत्यम्
शाल || कथने भ्वा० आत्म० सक० सेट् चङि न ह्रस्वः । शालते अशालिष्ट ।
वाचस्पत्यम्
शाल || पु० शल—घञ् । १ मत्स्यभेदे २ प्राकारे स्वनामख्याते ३ वृक्षभेदे अमरः । ४ बृक्षमात्रे राजनि० दन्त्यादिस्तु वृक्षमात्रे “रसालः सालः समदृश्यतामुना” इति नैषधम । ५नदभेदे शब्दच० । ६ शालिवाहननृपे विश्वः ।
शब्दकल्पद्रुमः
शाल || ङ ऋ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
कत्थने प्रशंसायाम् । ङ, शालते गुणिनं गुणी । ऋ, अशशालत् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शालः || पुं, (शल्यते प्रशंस्यते इति । शाल + घञ् ।)
मत्स्यभेदः । गजाड इति ख्यातः । प्राकारः । वृक्षविशेषः । तत्पर्य्यायः । सर्जः २ कार्ष्यः ३ अश्वकर्णकः ४ शस्यसम्बरः ५ । इत्य- मरः ॥ शङ्कुवृक्षः ६ । इति रत्नमाला ॥ नद- भेदः । इति शब्दरत्नावली ॥ शालनृपः । स तु शालिवाहनराजः । इति विश्वः ॥ वृक्षमात्रम् । इति राजनिर्घण्टः ॥ * ॥
शालो झसे धीवर एव दाश इत्युष्मभेदात्तालव्यादिः । दन्त्यादिश्च । कैवर्त्त इव बद्धराजीवोत्पलसालो वसन्तकाल आजगाम । इति वासवदत्तश्लेषात् । कैवर्त्त- पक्षे सालो मत्स्यविशेषः । वसन्तपक्षे सालस्य पुष्पं सालम् । इति भरतः ॥