वाचस्पत्यम्
शालग्राम || पु० शालानां वृक्षाणां ग्रामः समहो यत्र । १ पर्वतभेदे तत्र जातः अण् । तत्र जाते २ विष्णोर्मूर्त्तिभेदे गण्डकशब्दे २५११ पृ० दर्शिते गण्डक्या एकदेशस्थ लभेदजाते ३ विष्ण्वादिदेवचक्रयुक्तशिलाभेदे च तदुत्पत्ति- र्लक्षणभेदेन तन्नामभेदाश्च यथा “कीटयोनिं प्रपद्येथा” इति गण्डक्याः सुरान् प्ततिशापे “तेन कर्मविपाकेन जडा कृष्णा नदी भयेति” देवानां गण्डकीं प्रति शापे च जाते विष्णुना तत्समाधानायोक्तं यथा “शृणु ब्रह्मन्! महादेव! शृणु देव! गजानन! । मद्गणो ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र वै । भविष्यतस्तयोर्मक्षं मविष्यामि कलेवरम् । शीर्णं भविष्यति यदा तन्मेदोमज्जसंभवाः पाषाणान्तर्गताः कीटा वज्राख्याः प्रभविष्यथ” इति “अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी । गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् । विस्तोर्णं तन्महाक्षेत्रं पुण्य- शेत्रं महीतले । चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु विश्रुतम् । शालग्रामगता देवा देवो द्वारावतीं गतः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः । सर्वदेवप्रीति करा भुक्तिमुक्तिप्रदायिनः । भवन्त्वस्यां तु पाषाणा- मेतदन्तर्गता सुराः । प्रार्थितं स्वं विना सर्वे वज्रकीटा भवन्त्विति । अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि । मविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम् । विज्ञाय येऽर्च- विष्यन्ति प्रीषतां सा च देवता” इति विष्णूक्तौ ब्रह्मणा तल्लक्षणस्य प्रश्ने विष्णूक्तिर्यथा “स्योयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तस्ये । स्रिग्धा शिला मन्त्रसिद्धिं रूक्षाऽसिद्धिं करोति च । मेचका कोर्त्तिहा धौताङ्गारवत् सा यशोहरा । पाण्डुरूपार्थ- शमनि मलिना पापधीकरी । पीता पुत्रफलं दद्या- रवर्णा सुतान् हरेत् । नीला संदिशते लक्ष्मीं धूम्राभा हरते मतिम् । रोगप्रदा रक्तवर्णा सिन्दूराभा महा कलिम् । दारिद्र्यकारिणी वक्रा समा सर्वार्थसाधिका । स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत् । पूजाफलं लाञ्छितया निष्फला लाञ्छनं विना । क- पिला चित्तवैकल्यं नेत्रयोगञ्च कर्वुरा । भग्ना भङ्गकरो- ज्ञेया बहुचक्रापमानदा । लक्षणान्तरहीना च देवचक्रा वियोगदा । वृहन्मुखी कलत्रघ्नी वृहच्चक्रा सुतान् हरेत् । संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम् । भग्न- चक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी । कुष्ठादिकं व्यालमुखी विषमा विविधापदः । विकृताबर्त्तनाभिश्च विकारान् कुरुते वहून् । वंशच्छेदो गृहस्थानां नार- सिंह्यां प्रजायते । रेखार्त्ता दुःखदात्री च यथा सूक्ष्मा तथा सुखम् । यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतः शृणु । लक्ष्मोहरिः १ स विज्ञेयो यत्र पद्मं सचक्रकम् । केवला वनमाला च गृहस्थानामभीष्टदा । वासुदेवः २ स विज्ञेयो यद्द्वारे चक्रयुग्मकम् । निरन्तरं समं चापि स श्वेतः पापनाशनः । सङ्कर्षणः ३ स विज्ञेयः प्राक्- पश्चाच्चक्रयुग्मकम् । संलग्नपूर्वभागस्थं महारत्नं सुशो- भनम् । प्रद्युम्नः ४ सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं सुवि- स्तरम् । सुस्थिरान्वबेहिश्छिद्रः पीत इष्टप्रदायकः । अनिरुद्धस्तु ५ नीलाभो वर्तुलश्चातिशोभनः । रेखाद्वयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् । केशवः६ स तु विज्ञेयस्त्वेकं वा द्वयमेव वा । प्राग्वा पश्चाच्च चक्रं स्यात् चतुष्काणः स भाग्यकृत् । नारायणः ७ श्यामवर्णो नाभौ चक्रं तथोन्नतम् । दीर्घरेखासमायुक्तं दक्षिणे शुषिरं पृथु । हरिरूपा ८ शिला सा स्यात् यथा ऊर्द्धं सुखं भवेत् । हरिवद् दृश्यते द्वारं भुक्तिमुक्तिप्रदा तु सा । परमेष्ठी ९ स विज्ञेयः पद्मचक्रान्वितस्तु यः । यि- ल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत् । विष्णुस्तु १० कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभो । द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः । नारसिंहस्तु ११ कपिलः पृथुचक्रो वृहन्मुखः । त्रयो वा पञ्च चा यत्र बिन्दवो गृहिणां न सन् । कपिलनारसिंहस्तु १२ गुडलाक्षा- निभो भवेत् । स्थूलचक्रद्वयं मध्ये द्वारे रेखा सुशोभना । महानृसिंहो १३ विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः । रेस्याश्च केशराकारा मुखं दीर्थं भयानकम् । लक्ष्मीनृसिहो १४ विज्ञेयश्चतुश्चक्रः सबिन्दुकः । पूर्वोक्तलंक्षणैर्युक्तो वन- मालाविभूषितः । वराहोऽसौ१५ शक्तिलिङ्गे चक्रे च विषमे तथा । इन्द्रलीलनिभः स्थूलस्त्रिरखाला- ञ्छिती भवेत् । पृथ्वेवराहनाम्नी १६ सा या वराहा- कृतिः शिला । आभुग्ना चैव रेखैका गतराज्यप्रदा- यिका । मत्स्याख्या १७ सा शिला ज्ञेया बिन्दुत्रय विभूषिता । कांस्यद्वारा स्वर्णनिभा दीर्घा सा भुक्ति० मुक्तिदा । कूर्माख्या १८ तु शिला पृष्ठे वर्तुला चोन्नता भवेत् । हरितं वर्णमायाता कौस्तुभेन च चिह्निता । शिलाकूर्म १९ स विज्ञेयः कूर्माकारस्तु यो भवेत् । च- क्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा । हयग्रीवो २० ऽङ्कुशाकारो रेखा चक्रसमीपगा । बहुबिन्दुसमायुक्तं पृष्ठं नीरदनीलभम् । ज्ञेयः सौम्यहयग्रीवो २१ हय- ग्रीवासमा शिला । दीर्घया लेखया युक्ता रेखा वा तादृशी भवेत् । हयशीर्षः २२ स विज्ञेयो मुखं यस्य हयाकृति । पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा । वैकण्ठ २३ स्तिलवर्णाभश्चक्रमेकं तथा ध्वजम् । द्वारापरि तथा रेखा पूज्याकारा सुशोभना । श्रोधरस्तु २४ तथा देवश्चिह्नितो वनमालया । कदम्बकुसुमाकारो रेखा पञ्चकभूषितः । वामनः २५ स तु विज्ञेयो योऽतिह्रखश्च वर्तुलः । अतसीकुसुमप्रख्या बिन्दुनोपरिशोमितः । टधिवामननामा २६ तु जर्ग्घाधश्चक्रसंयुतः । महाद्युति- रतिह्रस्यः सुभिक्षक्षेमदायकः । सुदर्शन २७ स्तथा देवः श्यामवर्णो महाद्युतिः । वामपार्श्वे तथा चक्रं रेखैकैव तु दक्षिणे । सहस्रार्जुननामा २८ऽसौ नानारेखामयो भवेत् । चक्राकारा यन्त्रपङ्क्तिः स नष्टद्रव्यदायकः । स्थूलदामोदरो २९ यस्य मध्ये चक्रं प्रतिष्ठितम् । दूर्वा- भो द्वारसंकीर्णः पीतरेखो धनप्रदः । राधादामोदरो ३० ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम् । नातिदीर्घमुखं मध्ये लम्ब- रेखा स भोगदः । दामोदरः २१ स विज्ञेयो यश्चक्रद्वय- लाञ्छितः । सूक्ष्मं भवेच्चावयवं पूजितः सुखदः सदा । अनन्तो ३२ बहुवर्णः स्यान्नागभोगेन चिह्नितः । अनेक- चक्रसंमिन्नः सर्वकामफलप्रदः । पुरुषोत्तमनामा ३३ऽसौ यस्य दिक्षुविदिक्षु च । ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरु- पार्थफलप्रदः । योगेश्वरः ३४ स विज्ञेयो लिङ्गं यस्य शिरोगतम् । ब्रह्महत्यादिपापानां नाशको योगसि द्धिदः । पद्मनाभ ३५ स्तथा रक्तः पङ्कजच्छत्रसंयुतः । तुलस्या पूजितो नित्यं दरिद्रस्त्वोश्वरोभयेत् । रश्मि जाली हिरण्याक्ष ३६ श्चन्द्राभः स्फटकोपमः । अथ वा जायते नानास्वर्णरेखाभिरन्वितः । गरुड ३७ स तु विज्ञेया मध्ये पक्षद्वयान्विते । सुदीर्धा दृश्यते रेखा स सर्पविषनाशकः । जनार्दनः ३८ स विज्ञेयः केवलानि स्फुटानि च । यस्योदरे तु चक्राणि चत्वारि पितृतृप्ति- कृत् । लक्ष्मीनारायणो ३९ ज्ञेयो वनमालाङ्कितोदरः । सूक्ष्मद्वारश्चतुश्चकौ भुक्तिमुक्तिप्रदायकः । हृशीकेशः ४० सविज्ञेयो योऽर्द्ध्वंचन्द्राकृतिर्भवेत् । तमभ्यर्च्य लभेत् स्वर्गं विषयांश्च समोहितान् । लक्ष्मीनरहरि ४१ र्ज्ञेयः कृष्ण- वर्णः सबिन्दुकः । वामपार्श्वे समे चक्रे गृहस्थार्भा- ष्टदायकः । त्रिविक्रमस्तु ४२ विज्ञेयः श्यामवर्णो महा- द्युतिः । वामपार्श्वे चक्रयुग्ममेकरेखा तु दक्षिणे । कृष्णो ४३ ज्ञेयः शिला कृष्णा सचक्रा वा विचक्रिका । प्रदक्षिणावर्त्तकृतवनमालाविभूषिता । चतुर्मुखः ४४ स विज्ञेयो द्वे चक्रे मध्यदेशतः । चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः” मेरुत० । शिवादिशिलाभेदास्तत्रै- वोक्ता यथा शिवोक्तिः “शालग्रामा मतस्वरूपाः शृणु तेषान्तु लक्षणम् । यत्सेवनाद्भवेदिष्टमिह लाके परत्र च । शिवनाभः १ स विज्ञेयः सलिङ्गाकारतां गतः । स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः । त्र्यम्चकः २ स तु विज्ञेया विन्दूत्तरविभूषितः । शूलाकारा तथा रेखा गतपुंस्त्वप्रदायकः । धूर्जाटिः ३ स तु विज्ञेयो यत्र रेखा जटासमा । तिस्रो यत्र प्रदृश्यले सोऽर्चिता ज्ञानदायकः । शम्भुभ्तु ४ पाण्डुरा ज्ञेयो विन्दुः कृष्णस्तु मस्तके । बिल्वममाणस्तेजस्वी पूजितः स्त्री २ शङ्करः । ईश्वरः ५ स तु विज्ञेयो रक्ता विन्दुस्तु मस्तके । एक- चक्रो द्विचक्रो वाभ्यन्तरेऽपश्च गोष्पदम् । मृत्युञ्जयः ६ स विज्ञेयस्त्वपमृत्युविनाशकः । अधश्चक्रं तदूर्द्धञ्च श्वेता रेखा त्रिशूलवान् । चन्द्रशेखर ७ नामाऽसावर्द्ध- चन्द्राकृतिस्तु के । मध्ये चक्रद्वयं तस्य सेवनाद्रोगनाश- नम् । रुद्रः ८ स एव विज्ञेयः कपिलो मूर्ध्नि लक्षितः । चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम्” । “शालग्रामानथा वक्ष्ये शक्तिकीटसमुद्गवान् । येषां पूजनतो देवी भवानी सुप्रसीदति । श्रीविद्या १ सा तले चक्रमूर्द्ध्वे छत्रं प्रवृ- श्यते । बाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिले- ष्टदा । महाकाली २ तु सा ज्ञेया योनिचिह्नसमन्विता । द्विच्छिद्राढ्या सर्वशिला त्रिकोणेनाङ्किता च या । यदा- युधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्दिशेत् । देवीशिला सचक्रा या दक्षमार्गेण तां यजेत् । सार्चिता वाममार्गण लोकद्वयसुखावहा । या चक्ररहिता देवीशिलांतां वामतोऽर्चयेत्” । “सौरी शिला दुर्लभैव प्रायः कलियुगे पुनः । स्फटि- काभा भवेत् सा तु धर्मं नित्यं विमुञ्चति । गणेशः स तु विज्ञेयः स्वल्पशुण्डाङ्कितो भवेत् । शुण्डाकारा शिला वापि गजाननसमापि वा । यस्या मध्ये महच्चक्रं सूक्ष्मचक्रञ्च यद्दिशि । सा शिला तस्य दिक्पस्य सेव्या यद्दिशि राज्यदा । अर्द्धचन्द्राकृतिर्यत्र दृश्यते शकल- इवम् । सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता । वाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः! । दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता । पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्मता । सर्पाकारा तु राहोः स्यात् केतोस्तु ध्वजरूपिणी” मेरुत० । तुलसीं प्रति भगवदुक्तिः “अहञ्च शैलरूपी च गण्डकी- तीरसन्निधौ । अधिष्ठानं करिष्यामि भारते तव शा- षतः । वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै । त- च्छिकाकुहरे चक्रं करिष्यन्ति मदीयकम् । एकद्वारे चतुरक्रं वनमासाविभूषितम् । नवीननीरदाकारं ल- क्ष्मीनारायणामिधम् १ । एकद्वारे चतुश्चक्रं नवीननीर- दोपमम् । लक्ष्मीजनार्द्दनं २ ज्ञेयं रहितं वनमालया । द्वारद्वये चतुरक्रं शोष्पदेन समन्वितम् । रघुनाथाभिधं ३ ज्ञेयं वेष्टित्तं वनमालया । अतिक्षुद्रं द्विचक्रन्तु नवीन- नीरदोपमम् । दधिवासनं ४ विज्ञेयं गृहिणाञ्च सुख- प्रदम् । अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम् । श्रीधरं देवि! विज्ञेयं श्रीपदं गृहिणां सदा । स्थूलञ्च वर्त्तुलाकारं रहितं वनमालया । द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदरामिधम् ६ । मध्यभं बर्तुलाकारं द्विचक्रं बाणविक्षतम् । बलरामाभिधं ८ ज्ञेयं शरतूणसमन्वि- तम् । स्थूलं चतुर्दशचक्रं नवीनजलदप्रभम् । अनन्ता- ख्यकं ९ विज्ञेयं चतुर्वर्गफलप्रदम् । मध्यमं सप्तचक्रञ्च छत्रतूणसमन्वितम् । राजराजेश्वरं १० ज्ञेयं राजस- म्पत्करं नृणाम् । चक्राकारं द्विचक्रञ्च सश्रीकं जलद- प्रभम् । सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम् ११ । सुदर्शनं १२ चैकचक्रं गुप्तचक्रं गदाधरम् १३ । द्विचक्रं हयवक्त्रभं हयग्रीवं १४ प्रकीर्त्तितम् । अतीव विस्तृता- स्यञ्च द्विचक्रं विकटं सति! । नरसिंहाभिधं १५ ज्ञेयं सद्यो वैराग्यदं नृणाम् । द्विचक्रं विस्तृतास्यञ्च वन- मालासमग्वितन् । लक्ष्मीनृसिंहं १६ विज्ञेयं गृहिणां सुखदं सदा । द्वारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फु- टम् । वासुदेवञ्च १७ विज्ञेयं सर्वकामफलप्रदम् । प्रद्यु- म्नं १८ सूक्ष्मचक्रञ्च नवीननीरदप्रभम् । शुषिरे छिद्र बहुलं गृहिणाञ्च सुखप्रदम् । द्वे चक्रे चैकलग्ने तु पृष्टे यत्र तु पुष्कलम् । सङ्कर्षणन्तु १९ विज्ञेयं सुखदं गृहिणां सदा । अनिरुद्धञ्च २० पीताभं वर्तुलमतिशो- भनम् । सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः” ब्रह्मवै० प्र० १९ अ० । “शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक । शुक्लाभो वासुदेवाख्यः १ सोऽव्यात् यः श्रीगदाधरः । लग्नद्वि- चक्रोरक्ताभः पूर्वभागे तु पुष्कलः । सङ्कर्षणो २ ऽथ प्र- द्युम्नः ३ सूक्ष्मचक्रस्तु पीतकः । सुदीर्घशुषिरच्छिद्रः सोऽनिरुद्धस्तु ४ वर्त्तुलः । नीलोद्वारि त्रिरेखश्च अथ ना- रायणो ५ऽसितः । मध्ये गदाकृती रेखा नाभिचक्रमहो- न्नतः । पृथुचक्रो नृसिंहो (६) ऽथ कपिलोऽव्यात् त्रिवि- न्दुकः । अथ वा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणाम् । वराहः ७ शुभलिङ्गोऽव्यात् विषमस्थद्विचक्रकः । नील- स्त्रिरेखः स्थूलोऽथ कूर्ममूर्त्तिः ८ सबिन्दुमान् । कृष्णः स वत्तुलावर्त्तः पातु चोन्नतपृष्ठकः । श्रीधरः ९ पञ्चरेखोऽ- व्यात् वनमाली गदान्वितः । वामनो १० वर्त्तुलो ह्रखः वामचक्रः सुरेश्वरः । नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्व- नन्तकः ११ । स्थूला दामोदरो १२ नीलो मध्येचक्रः स नीलकः । संकीर्णद्वारकः सोऽव्यादथ ब्रह्मा १३ सुलोहितः । सदीर्घरेखशुषिर एकचक्राम्बुजः पृथुः । पृथुच्छिद्रः स्थूलचक्रः कृष्णो विष्णुस्तु १४ बिन्दुमान् । हयग्रीवो १५ ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः । वै- कुण्ठो १६ मणिरत्नाभः एकचक्राम्बुजोऽसितः । म- त्स्यो १७ दीर्घाम्बुजाकारो द्वाररेखश्च पातु वः । वाम- चक्रो द्वाररेखः श्यामो वोऽव्यात् त्रिविक्रमः १८ । ए- केन लक्षितो योऽव्यात् गदाधरी सुदर्शनः १९ । एकद्वारे चतुश्चक्रं वनमालाविभूषितम् । स्वर्णरेखासमायुक्तं गो- ष्पदेन विराजितम् । कदम्बकुमुमाकारं लक्ष्मीनारायणं विदुः” गरुड पु० ४५ अ० पुराणान्तरेष्वपि लक्षणान्त- राणि उक्तानि दृश्यानि । तत्र लक्षणभेदस्तु विकल्पार्थः । वराहपु० भूमिं प्रति वराहोक्तिः “गृहे लिङ्गद्वयं नार्च्यं शालग्रामद्वयं तथा । द्वेचक्रे द्वारकायास्तु नार्च्यं सूर्य्यद्वयं तथा । शालग्रामशिला भग्ना पूजनीया सचक्रिका । खण्डिता स्फुटिता वाऽपि शालग्रामशिला शुभा । शालपामो न स्प्रष्टघ्यो हीनवर्णैर्वसुन्धरे! । स्त्रीशुद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः । सोहात् यः संस्पृशेत् शूद्रो योषिद्वापि कदाचन । स पतेन्नरके घोरे यावदाहूतसंश्ववम् । यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसु- न्धरे! । दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः” । तत्पूजने तत्स्पर्शे च स्त्राणां नाधिकर “न जातुचित् स्त्रियाः कार्यं शालग्रामस्य पूजनम् । भर्तृदीनाऽथ सुभगा सर्वलाकहितैषया । मेहात् स्पृशेत्तु महिला जन्मशीलगुणान्विता । हित्वा पुण्यलमूहं तु सत्वरं नरकं व्रजेत्” ब्रह्मवै० पा० २० अ० । “अभक्ष्यं शिवनिर्माल्य पत्रं पुष्प फलं जलम् । शाल- ग्रामशिलास्पर्शात् पावनं तत् भवेत् सदा” । ||“दद्यात् भक्ताय यो देवि! शालग्रामशिलां नरः । सुवर्णसहितां, पृथ्वी सपर्वतवनान्विता । ससमुद्रा भवेद्दत्ता सत्पात्रे च वसुन्धरे! । शामग्रामशिलायास्तु मुल्यमुद्घाटयेत् क्वचित् । विक्रेता क्रयकर्त्ता वा नरके वै पतेत् ध्रुवम्” वराहपु० । तस्याकारादिभेदे फलभेदो यथा “छत्राकारे भवेद्राज्यं वर्तुल च लभेत् श्रियम् । दुः- खञ्च शकटाकारे शूलाभे मरणं भवेत् । विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च । लग्नचक्रे भवेद्धानिर्वि- दीर्णे मरणं ध्रुवम्” । तत्स्पर्शेन मिथ्यादिव्यादिकरणादौ दोषो यथा “शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु च । स याति कूर्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः । शाल- ग्रामशिलां धृत्वा स्वीकारं योन पालयेत् । स प्रयात्यसि- पत्रञ्च लक्षमन्वन्तरावधि । तुलसीपत्रविच्छेदं शालग्रामे करोति यः । तस्य जन्मान्तरे कान्ते! स्त्रीविश्लेषो भवि- ष्यति । शालग्रामञ्च तलसीं शङ्खञ्चैकत्र एव च । यो रक्षति स च ज्ञानी स भवेत् श्रीहरिप्रियः” ब्रह्मवै० प्र० १९० अ० । “शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् । कलेर्दशसहस्नान्ते याति त्यक्त्वा हरेः पदम्” ब्रह्मवै० प्र० ६ अ० । “शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि । विषमा नैव पूज्याः स्युरेकैव विषमेष्वपि” पद्मपु० पा० २० अ० । “शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवा- ऽसुरा यक्षा भुवनानि चतुर्दश” पद्मपु० । “अत्र सर्वसान्नि- ध्यादत्र तेषां पूजा प्रतीयते तत्रावाहनविसर्जने न स्तः “शालग्रामे स्थावरे वा नावाहनविसर्जने” इति राघव- भट्टधृतवाक्यात्” दीक्षा० रघु० । ४ क्षेत्रभेदे न० तन्नामकारणं वराहपु० उक्तं यथा “अथ दीर्षेण कालेन स (शालङ्कायनः) मुनिः संशितव्रतः । तप्यमानो यथान्यायं पश्यते शालमुत्तमम् । विश्राम कुरुते तत्र दूष्टुकामोऽथ मां (हरिम्) मुनिः । मायया मम मूढात्मा शक्तो द्रष्टुं न मामभूत् । ततः पूर्वेण पार्श्वन तस्य शालस्य सुन्दरि! । वैशाखमासद्बादश्यां मद्दर्शनमुपागतः । दृष्ट्वा मां तत्र स मुनिस्तपस्वी संशित- व्रतः । तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुतम्पुनः । ततोऽहं स्तूयमानो वै ऋषिमुख्येन सुन्दरि! । प्राप्तो- ऽस्मि परमां प्रीतिं तमवोचं ततो मुनिम् । अत्राश्रमे महाभाग! स्थित्वा त्वं तपसां निधे! । पुत्रेण परम- प्रीतो मत्क्षेत्रे मत्समो भव । अन्यच्च गुह्यं वक्ष्यामि शालङ्कायन! तच्छृणु । तव प्रोत्या प्रवक्ष्यामि येनैतत् क्षेत्र- मुत्तमम् । शालग्राममिति ख्यातं तन्निबोध मुने! शुभम् । योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव म संशयः” वराहपु० ।
शब्दकल्पद्रुमः
शालग्रामः || पुं, विष्णुमूर्त्तिविशेषः । स च गण्ड- क्युद्भववज्रकीटकृतचक्रयुक्तशिला द्वारकोद्भव- तादृशशिला च । तस्य माहात्म्यलक्षणादि यथा, —
“प्रसङ्गात् कथयिष्यामि शालग्रामशिलार्च्चनम् । निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्यायन् स्तुवन् जपन् ॥ शङ्खचक्रगदापद्मं केशवाख्यो गदाधरः । साब्जकौमोदकीचक्रशङ्खी नारायणो विभुः ॥ स च शङ्खाब्जपदो माधवः श्रीगदाधरः । गदाब्जशङ्खचक्री वा गोविन्दाख्यो गदाधरः ॥ पद्मशङ्खादिगदिने विष्णुशङ्खाय वै नमः । सशङ्खाब्जगदाचक्रमधुसूदनमूर्त्तये ॥ नमो गदासिचक्राब्जयुक्तत्रैविक्रमाय च । साविकौमोदकीपद्मशङ्खवामनमूर्त्तये ॥ शङ्खाब्जचक्रगदिने नमः श्रीधरमूर्त्तये । हृषीकेश साविगदाशङ्खपद्मिन्नमोऽस्तु ते ॥ साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे । दामोदर शङ्खगदाचक्रपद्मिन्नमोऽस्तु ते ॥ साविशङ्खगदाब्जाय वासुदेव नमो नमः । शङ्खाब्जचक्रगदिने दमः सङ्कर्षणाय च ॥ शङ्खचक्रगदाब्जाय धृतप्रद्युम्नमूर्त्तये । नमोऽनिरुद्धाय गदाशङ्खाब्जवरधारिणे ॥ साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये । नमोऽधोक्षजरूपाय गदाशङ्खविधारिणे ॥ नृसिंहमूर्त्तये पद्मगदाशङ्खविधारिणे । पद्माविशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये ॥ सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः । उपेन्द्रं गदिनं साविपद्मशङ्ख नमोऽस्तु ते ॥ सचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये । सगदाब्जाविशङ्खाय नमः श्रीकृष्णमूर्त्तये ॥ शालग्रामशिलाद्बारगतलग्नद्विचक्रधृक् । शुक्लाभाख्यश्च सोऽव्याद्बः सदैव श्रीगदाधरः ॥ लग्नद्विचक्रो चक्राभः पूर्व्वभागस्तु पुष्कलः । सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ॥ स दीर्घः स शिरश्छिद्रो योऽनिरुद्धस्तु वर्त्तुलः । नानाहारद्बिरेखश्च अथ नारायणोऽसितः ॥ मध्ये गदाकृता रेखा नाभिपद्ममहोन्नतः । पृथुचक्रो नृसिंहो वः कपिलोऽव्यात्त्रिबिन्दुकः ॥ अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः । वराहशक्तिलिङ्गोऽव्याद्विषमद्बयचक्रकः ॥ नीलस्त्रिरेखः स्थूलोऽथ कूर्म्ममूर्त्तिः स्वबिन्दुमान् । कृष्णः सवर्त्तुलावर्त्तः पाण्डरोन्नतपृष्ठकः ॥ श्रीधरः पञ्चरेखोऽव्याद्वनमालागदाङ्कितः । वामनो वर्त्तुलो नाम वामचक्रः सुरेश्वरः ॥ नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः । स्थूलो दामोदरो नीलो मध्ये चक्रः सुनीलकः ॥ संकीर्णद्वारको वोऽव्यादथ ब्रह्मा सुमोहितः । सदीर्घरेखा शुषिर एकचक्राम्बुजः पृथुः ॥ प्रत्युच्छिद्रः स्थूलचक्रः कृष्णोऽबिन्दुश्च बिन्दुमत् । हयग्रीवोऽङ्कुशाकारः पञ्चरेखः ममन्ततः ॥ वैकुण्ठोऽमलवद्भाति एकचक्रात्मकोऽसितः । मत्स्यो दीर्घाम्बुजाकारो द्बाररेखस्तु पाण्डरः ॥ वामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः । शालग्रामे द्वारकायां स्थिताय गदिने नमः ॥ एकेन लक्षितो वोऽव्याद्गदाधारी सुदर्शनः । लक्ष्मीनारायणो द्वाभ्यां त्रिभिर्मूर्त्तिस्त्रिविक्रमः ॥ चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः । प्रद्युम्नः षड्भिरेवाव्यात् सङ्कर्षण इतः स्तुतः ॥ पुरुषोत्तमोऽष्टभिः स्याच्च नवव्यूहो नवान्नितः । दशावतारो दशभिरनिरुद्धोऽवतादथ । द्वादशात्मा द्वादशभिरत ऊर्द्ध्वो ह्यनन्तकः ॥” इति पाद्मे पातालखण्डे १० अध्यायः ॥ अपि च । ईश्वर उवाच । “शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च । नित्यन्तु श्रीहरेः पूजा केवलेन जलेन तु ॥ गण्डक्यामेकदेशे तु शालग्रामस्थलं महत् । पाषाणान्तर्भवं यत्तत् शालग्राममिति स्थितम् ॥ शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् । किं पुनर्जननं तत्र हरेः सान्निध्यकारणम् ॥ शालग्रामैकयजनात् शतलिङ्गफलं लभेत् । बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ॥ गोष्पदेन च चिह्नेन तेन वै त्रायते नरः । आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठाञ्च मेच- काम् ॥ अकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा । सर्व्वकामप्रदा सौम्या कराला भयदुःखदा ॥ स्निग्धा च श्रीकरी नित्यं रूक्षा दारिद्र्य- दायिका । क्षुद्रा क्षुद्रफला प्रोक्ता स्थूला स्थूलफलप्रदा ॥ सदा काष्ठे स्थितो वह्निर्मन्थने च प्रकाशते । यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥ प्रत्यहं द्बादश शिलाः शालग्रामस्य योऽर्च्चयेत् । द्वारवत्याः शिलायुक्ताः स वैकुण्ठे महीयते ॥ शालग्रामशिलायान्तु गह्वरं लक्ष्यते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पान्तरं दिवि ॥ शालग्रामशिला यत्र यत्र द्वारवतीशिला । मृते विष्णुपुरं याति कृतार्थं योजनत्रयम् ॥ जपपूजा च होमश्च सर्व्वं कोटिगुणं भवेत् । मनस्कामः सदाभीष्टं क्रोशमात्रं समन्ततः ॥ कीकटेऽपि मृतो याति वैकुण्ठभवनं नरः । शालग्रामशिलायां यो मूल्यमुत्पादयेन्नरः ॥ विक्रेता चानुमन्ता च यः परीक्षानुमोदकः । सर्व्व ते नरकं यान्ति यावदाहूतसंप्लवम् । अतस्तं वर्ज्जयेद्देवि ! हरिविक्रयणक्रयम् । शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ द्वारकोद्भवः शुक्लश्च बहुचक्रेण चिह्नितः । चक्रमासीत् शिवाकारचित्स्वरूपनिरञ्जनम् ॥ नमोऽस्त्वोङ्काररूपाय सदानन्दस्वरूपिणे । शालग्रामे महाभाग भक्तस्यानुग्रहं कुरु । त्वया युतस्य धर्म्मस्य ऋणग्रस्तस्य मे प्रभो ॥” इति तत्रैव ११ अध्यायः ॥ अपरञ्च । ब्राह्मण उवाच । “गण्डकीयं नदी राजन् ! सुरासुरनिषेविता । पुण्योदकपरीवाहैर्हतपातकसञ्चया ॥ दर्शनान्मानसं पापं स्पर्शनात् कर्म्मजं दहेत् । वाचिकं स्वीयतोयस्य पानतः पापसञ्चयम् ॥ पुरा दुष्टाः प्रजानाथः प्रजाः सर्व्वा विपाप्मनः । स्वगण्डाद्बिप्रुषोऽनेकपापघ्नीं सृष्टवानिमाम् ॥ एनां नदीं ये पुण्योदां स्पृशन्ति सुतरङ्गिणीम् । ते गर्भभाजो नैव स्युरपि पापकृतो नराः ॥ तस्यां भवा ये चाश्मानश्चक्रचिह्नैरलङ्कृताः । ते साक्षाद्भगवन्तो हि स्वस्वरूपधराः पराः ॥ शिलाः संपूजयेद्यस्तु नित्यं चक्रयुताः सदा । न जातुचिज्जनन्या वै जठरं समुपाविशेत् ॥ पूजयेद् यो नरो धीमान् शालग्रामशिलां वराम् । तेनाचारवता भाव्यं दम्भमोहवियोगिना ॥ परदारपरद्रव्यविमुखेन नरेण च । पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः ॥ द्वारवत्या भवं चक्रं शिला वै गण्डकीभवा । पुंसां क्षणाद्धरन्त्येव पापं जन्मशतार्ज्जितम् ॥ अपि पापसहस्राणां कर्त्ता तावन्नरो भवेत् । शालग्रामशिला आपः पीत्वा पूयेत तत्क्षणात् ॥ ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वेदपथे स्थितः । शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् ॥ न कदाचित् स्त्रिया कार्य्यं शालग्रामस्य पूजनम् । भर्त्तृदीनाथ सुभगा सर्व्वलोकहितैषया ॥ मोहात् स्पृशेत महिला जन्मशीलगुणान्विता । हित्वा पुण्यसमूहन्तु सत्वरं नरकं व्रजेत् ॥ स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि । परैरधिकपापानि वदन्ति ब्राह्मणोत्तमाः ॥ चन्दनं विषपङ्काभं कुङ्कुमं वज्रसन्निभम् । नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् ॥ तस्मात् सर्व्वात्मना त्याज्यः स्त्रियाः स्पर्शः शिलोपरि । कुर्व्वती याति नरकं यावदिन्द्राश्चतुर्दश ॥ * ॥
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा । शालग्रामशिलातोयं पीत्वा याति परां गतिम् ॥ तुलसी चन्दनं चक्रं शङ्खो घण्टाथ चक्रकम् । शिला ताम्रस्य पात्रन्तु विष्णोर्नाम पदामृतम् ॥ पदामृतन्तु नवभिः पापराशिप्रदाहकम् । वदन्ति मुनयः शान्ताः सर्व्वशास्त्रार्थकोविदाः ॥ सर्व्वतीर्थपरिस्नानात् सर्व्वक्रतुसमर्च्चनात् । पुण्यं भवति यद्राजन् बिन्दौ बिन्दौ तदद्भुतम् ॥ शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः । तत्र योजनमात्रन्तु तीर्थकोटिसमन्वितम् ॥ * ॥
शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि । विशमा एव पूज्या वै विषमेषु त्रयं न हि ॥ द्वारवतीभवं चक्रं तथा वै गण्डकीभवम् । उभयोः सङ्गमो यत्र तत्र गङ्गा समुद्रगा ॥ रूक्षाः कुर्व्वन्ति पुरुषान् आयुःश्रीभिर्विवर्ज्जि- तान् । तस्मात् स्निग्धा मनोहारिरूपेण ददति श्रियम् ॥ आयुष्कामो नरो यस्तु धनकामोऽपि यः पुमान् । पूजयन् सर्व्वमाप्नोति पापं लौकिकमैहिकम् ॥ प्राणान्तकाले तु यस्य भवेद्भाग्यबलान्नृप । वाचि नाम हरेः पुण्यं शिलाकृतिस्तदन्तिके ॥ गच्छत्सु प्राणमार्गेषु यस्य विश्रम्भतोऽपि चेत् । शालग्रामशिलामूर्त्तिस्तदा मुक्तिर्न संशयः ॥ पुरा भगवता प्रोक्तमम्बरीषाय धीमते । ब्राह्मणो न्यासिनो भक्ताः शालग्रामशिला मम ॥ स्वरूपत्रितयं मह्यमेतद्धि क्षितिमण्डले । पापिनां पापनिर्व्वारं कर्त्तुं धृतमुदञ्चताम् ॥ निन्दन्ति पापिनो ये वा शालग्रामशिलां सकृत् । कुम्भीपाके पचन्त्याशु यावदाहूतसंप्लवम् ॥ पूजां समुद्यतं कर्त्तुं यो वारयति मूढधीः । तस्य माता पिता बन्धुः सर्व्वे नरकगामिनः ॥ यो वै कथयति श्रेष्ठं शालग्रामार्च्चनं कुरु । स कृतार्थो नयत्याशु वैकुण्ठं स्वन्तु पूर्व्वजैः ॥” इति च तत्रैव २० अध्यायः ॥ * ॥
अन्यच्च । श्रीईश्वर उवाच । “शालग्रामशिलायान्तु त्रैलोक्यं सचराचरम् । सदा वसति तेनात्र विष्णुस्तिष्ठति सर्व्वदा ॥ शालग्रामशिलापूजां प्रकुरुष्व षडानन । गङ्गामिव महापुण्यां चतुर्व्वर्गफलप्रदाम् ॥ हृष्टेन मनसा येन स्थापिता पूजिता तथा । यज्ञकोटिसमं पुण्यं आशु तस्मै प्रयच्छति ॥ छिन्नस्तेन महासेन गर्भवासः सुदारुणः । पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥ कामासक्तोऽपि यो नित्यं भक्तिभावविवर्ज्जितः । शालग्रामशिलां पश्येत् तस्य पापक्षयो भवेत् ॥ शालग्रामशिला विप्र हत्याकोटिविनाशिनी । स्मृता संकीर्त्तिता ध्याता पूजिता च नमस्कृता ॥ शालग्रामशिलां दृष्ट्वा यान्ति पापानि देहि- नाम् । सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥ नमस्कृत्वा तु यः कुर्य्यात् शालग्रामशिलार्च्चनम् । भक्त्या वा यदि वाभक्त्या स मुक्तिं समवाप्नुयात् ॥ यः सेवां कुरुते नित्यं शालग्रामशिलाग्रतः । वैवस्वताद्भयं तस्य न स्यान्मरणजन्मनी ॥ शालग्रामशिलाचक्रं पयोदधिघृतादिकैः । यः स्नापयति नूनं स कल्पकोटिं वसेद्दिवि ॥ शालग्रामे नमस्कारो भावेनापि च यैः कृतः । मानवाः किं करिष्यन्ति मद्भक्त्या ते महीतले ॥ मद्भक्तिरणदर्पिष्ठा मत्प्रभुं न नमन्ति ये । वैष्णवास्ते न विज्ञेया मद्भक्ताः पापमोहिताः । शालग्रामशिला यत्र तत्र पुत्त्र वसाम्यहम् ॥ पूजितोऽहं न तैर्मर्त्यैः स्थापितश्च न तैर्नरैः । न कृतं मर्त्यलोके यैः शालग्रामशिलार्च्चनम् ॥ किमर्च्चितैर्लिङ्गशतैर्विष्णुभक्तिबहिष्कृतैः । शालग्रामशिलाचक्रं नार्चितं यदि पुत्त्रक ॥ जन्मकोटिसहस्रेण पूजिते मयि यत् फलम् । तत् फलं समवाप्नोति शालग्रामशिलार्च्चनात् ॥ अनर्ह्यं मम नैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलादृष्टं सर्व्वं याति पवित्रताम् ॥ नैवेद्यं मे न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् । भुक्त्वा केशवनैवेद्यं कोटिभक्तिफलं लभेत् ॥ सकृदभ्यर्च्चितो विष्णुः शालग्रामशिलास्थितः । ददाति विपुलां मुक्तिं सर्व्वसङ्गविवर्ज्जिताम् ॥ मल्लिङ्गकोटिभिर्दृष्टैर्यत् फलं पूजितैः स्तुतैः । तत्फलं समवाप्नोति शालग्रामैकपूजनात् ॥ शालग्रामशिलाचक्रं यो विद्वान् पश्यति ध्रुवम् । अर्च्चयेद्वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥ कोटिलिङ्गसहस्रैर्यत् पूजितैर्जाह्नवीतटे । काशीवासाद्युगान्यष्टौ दिनेनैकेन तद्भवेत् ॥ तस्माद्भक्त्यैव मद्भक्तैः प्रीत्यर्थं मम पुत्त्रक । कर्त्तव्यं सर्व्वदा मर्त्यैः शालग्रामशिलार्च्चनम् ॥ शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ॥ शालग्रामशिलाग्रे यैः सकृच्छ्राद्धं कृतं भवेत् । वसन्ति पितरस्तेषां विष्णुलोके न संशयः ॥ ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् । पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥ प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः । चान्द्रायणैः किं हि तादृक् पीत्वा पादोदकं शुचिः ॥” इति पाद्मे उत्तरखण्डे १२७ अध्यायः ॥ * ॥
कलेर्दशसहस्रवर्षानन्तरं स च भारतं त्यक्त्रा यास्यति । यथा, —
“शालग्रामो हरेर्मूत्तिर्जगन्नाथश्च भारतम् । कलेर्दशसहस्रान्ते ययौ त्यक्त्रा हरेः पदम् ॥” इति ब्रष्णवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥ * ॥
तस्योत्पत्तिलक्षणादि यथा, —
“शालग्रामसमुत्पत्तिं शृण्वन्तु परमाद्भुताम् । गण्डक्या प्राक् तपस्तप्तं भवन्तु मम देवताः ॥ सर्व्वाः पुत्त्राः सुखं दातुं जनानामिति ते सुराः । तस्यास्तु तपसा हृष्टा ब्रह्मविष्णुमहेश्वराः ॥ वरं दातुं समुद्युक्ता वव्रे सा स्वस्य पुत्त्रताम् । अशक्तास्तं वरं दातुं तदा शप्तास्तया क्रुधा ॥ प्रतारणं मम सुराः कृतं यस्मात् पुनः पुनः । कीटयोनिं प्रपद्येथाः क्रुद्धास्ते ह्यशपंश्च ताम् ॥ अविचार्य्य वयं शप्तास्त्वया यत्तपसोद्धताः । तेन कर्म्मविपाकेन जडा कृष्णा नदी भव ॥ अन्योन्यशापं श्रुत्वेत्थं महान् कोलाहलोऽभवत् । प्रकम्पिताः सुराः सा च ब्रह्माणन्ते व्यजिज्ञपत् ॥ ब्रह्मन् त्राहि महाशापादन्योन्यपतितात् क्रुधा । इति देववचः श्रुत्वा ब्रह्मा शङ्करमब्रवीत् ॥ शिवः प्रोवाच धातारमहं संहारकारकः । त्वं सृष्टिकर्त्ता विष्णुस्तु पालको बुद्धिमत्तरः ॥ स प्रष्टव्यो यथासङ्ख्यमुभयोः सम्भवेदिति । इति माहेश्वरं श्रुत्वा वचनं विष्णुरब्रवीत् ॥ शृणु ब्रह्मन् महादेव शृणु देव गजानन । मद्गणौ ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र तु ॥ भविष्यतस्तयोर्म्मोक्षं भविष्यामि कलेवरम् । शीर्णं भविष्यति यदा तन्मेदोमज्जसम्भवाः ॥ पाषाणान्तर्गता कीटा वज्राख्या प्रभविष्यथ । अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी ॥ गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् । विस्तीर्णं तन्मनुं क्षत्त्रं पुण्यक्षेत्रं महीतले । चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥ शालग्रामगता देवा देवोद्बारावतीगतः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ सर्व्वदेवप्रीतिकरा भुक्तिमुक्तिप्रदायिनी । भवन्त्वस्यान्तु पाषाणा ये तदन्तर्गता सुराः ॥ प्रार्थितं स्वं विना सर्व्वे वज्रकीटा भवन्त्विति । अनेनैव तु गण्डक्याः पुत्त्रत्वं भवतामपि ॥ भविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम् । विज्ञाय येऽर्च्चयिष्यन्ति सा प्रीता तस्य देवता ॥ न यन्त्रस्य न मूर्त्तेश्च न वृक्षस्यापि पूजनात् । सन्तोषो जायते तेषां गण्डक्यां मार्ज्जनाद्यथा ॥ इति विष्णुवचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ * ॥
कीदृक् पूज्या शिला विष्णोः किञ्छिद्रा कस्य वल्लभा । किं फलं चाधिकारी च केन मार्गेण तद्वद ॥ इति ब्रह्मवचः श्रुत्वा विष्णुर्व्वचनमब्रवीत् । स्वीयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तये ॥ स्निग्धा शिला मन्त्रसिद्धं रूक्षा सिद्धिं करोति च । मेचका कीर्त्तिता धौताङ्गारवत् सा यशोहरा ॥ पाण्डू रूपार्थशमनी मलिना पापधीकरा । पीता पुत्त्रफलं दद्यादारवर्णा सुतान् हरेत् ॥ नीला संदिशते लक्ष्मीं धूमाभा हरते मतिम् । रोगप्रदा रक्तवर्णा सिन्दूराभा महाकलिम् ॥ दारिद्रकारिणी वक्रा समा सर्व्वार्थसाधिका । स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत् । पूजाफलं लाञ्छितया निष्फलं लाञ्छनं विना । कपिला चित्तवैकल्यं नेत्ररोगञ्च कर्व्वुरा ॥ भग्ना भङ्गकरी ज्ञेया बहुचक्रापमानताम् । लक्षणान्तरहीना च देवचक्रा वियोगताम् ॥ बृहन्मुखी कलत्रघ्नी बृहच्चक्रा सुतान् हरेत् । संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम् ॥ भग्नचक्रा तु दारिद्रं सर्व्वनाशं त्वधोमुखी । कुष्ठादिकं व्यालमुखी विषमा विविधापदम् ॥ विकृतावर्त्तनाभिश्च विकारान् कुरुते बहून् । वंशच्छेदो गृहस्थानां नारसिंह्यां प्रजायते ॥ रेखार्त्ता दुःखदात्री च यथा सूक्ष्मा तथा सुखम् । यथा स्निग्धास्तथा लक्ष्मीस्तद्विभेदादतः शृणु ॥ लक्ष्मीहरिः स विज्ञेयो यत्र पद्मं सचक्रकम् । केवला वनमाला वा गृहस्थानामभीष्टदः ॥ १ ॥ वासुदेवः स विज्ञेयो यद्द्वारं चक्रयुग्मकम् । निरन्तरं समं चापि स श्वेतः पापनाशनः ॥ २ ॥ सङ्कर्षणः स विज्ञेयः प्राक् पश्चाच्चक्रयुग्मकम् । संलग्नपूर्व्वभागस्थं महद्रत्नः सुशोभनः ॥ ३ ॥ प्रद्युम्नः सूक्ष्मचक्रः स्याच्छिद्रं दीर्घं विचित्रितम् । सुस्थिरान्तर्व्वहिश्छिद्रं पीत इष्टप्रदायकः ॥ ४ ॥ अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः । रेखाद्बयन्तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥ ५ ॥ केशवः स तु विज्ञेयस्त्वेकं वा द्बयमेव वा । प्राग्वा पश्चाच्च चक्रं स्यात् चतुष्कोणः स भाग्य- कृत् ॥ ६ ॥ नारायणः श्यामवर्णः नाभौ चक्रं तथोन्नतम् । दीर्घरेखासमायुक्तं दक्षिणे शुषिरं पृथु ॥ ७ ॥ हरिरूपा शिला सा स्याद्यस्या ऊर्द्ध्वं मुखं भवेत् । हरिवद्दृश्यते द्बारं भुक्तिमुक्तिप्रदा तु सा ॥ ८ ॥ परमेष्ठी स विज्ञेयः पद्मचक्रान्वितस्तु यः । विल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत् ॥ ९ ॥ विष्णुस्तु कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभने । द्बारोपरि तथा रेखा दृश्यते मध्यदेशतः ॥ १० ॥ नारसिंहस्तु कपिलः पृथुचक्रो बृहन्मुखः । त्रयो वा पञ्च वा तत्र बिन्दवो गृहिणां न सत् ॥ ११ ॥ कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् । स्थूलचक्रद्बयं मध्ये द्वारे रेखा सुशोभना ॥ १२ ॥ महानृसिंहो विज्ञेयः पूर्व्वोक्तैर्लक्षणैयुतः । रेखाश्च केशराकारा मुखं दीर्घं भयानकम् ॥ १३ लक्ष्मीनृसिंहो विज्ञेयश्चतुश्चक्रः सबिन्दुकः । पूर्व्वोक्तलक्षणैर्युक्तो वनमालाविराजितः ॥ १४ ॥ वराहोऽसौ शक्तिलिङ्गे चक्रे च विषमे तथा । इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितो भवेत् ॥ १५ पृथ्वीवाराहनात्नी सा या वराहाकृतिः शिला । आभुग्ना चैव रेखैका गतराज्यप्रदायिका ॥ १६ ॥ मत्स्याख्या सा शिला ज्ञेया बिन्दुत्रयविभूषिता । कांस्याद्भारा स्वणनिभा दीर्घा सा भुक्ति- मुक्तिदा ॥ १७ ॥ कूर्म्माख्या तु शिला पृष्ठे वर्त्रुला चोन्नता भवेत् । हरितं वर्णमाषन्तु कौस्तुभेन च चिह्निता ॥ शिलाकूर्म्मः स विज्ञेयः कूर्म्माकारस्तु यो भवेत् । चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा ॥ १८ हयग्रीवोऽङ्कुशाकारा रेखा चक्रा समीपगा । बहुबिन्दुसमायुक्तं पृष्टं नीरदनीलकम् ॥ १९ ॥ ज्ञेयः सौम्यहयग्रीवो हयग्रीवासमा शिला । दीर्घया लेखया युक्ता रेखा वा तादृशी भवेत् ॥ २० ॥ हयशीर्षः स विज्ञेयो मुखं यस्य हयाकृति । पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा ॥ २१ वैकुण्ठस्तिलवर्णाभश्चक्रमेकं तथा ध्वजम् । द्वारोपरि तथा रेखा पूज्याकारा सुशोभना ॥ २२ श्रीधरस्तु तथा देवश्चिह्नितो वनमालया । कदम्बकुसुमाकारारेखापञ्चकभूषितः ॥ २३ ॥ वामनः स तु विज्ञेयो योऽतिह्रस्वश्च वर्त्तुलः । अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः ॥ २४ ॥ दधिवामननामा तु ऊर्द्ध्वाधश्चक्रसंयुतः । महाद्युतिरतिह्रस्वः सुभिक्षः क्षेमदायकः ॥ २५ ॥ सुदर्शनस्तथा देवः श्यामवर्णो महाद्युतिः । वामपार्श्वे तथा चक्रं रेखैकैव तु दक्षिणे ॥ २६ ॥ सहस्रार्ज्जुननामासौ नानारेखामयी भवेत् । चक्राकारा यन्त्रपङ्क्तिः स नष्टद्रव्यदायकः ॥ २७ ॥ स्थूलो दामोदरो यस्य मध्ये चक्रं प्रतिष्ठितम् । दूर्व्वाभं द्वारसङ्कीर्णः पीतरेखा धनप्रदः ॥ २८ ॥ राधादामोदरो ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम् । नातिदीर्घमुखं मध्ये लम्बरेखा स भोगदः ॥ २९ ॥ दामोदरः स विज्ञेयो यश्चक्रद्बयलाञ्छितः । सूक्ष्मं भवेच्च विवरं पूजितः सुखदः सदा ॥ ३० ॥ अनन्तो बहुवर्णः स्यान्नागभोगेन चिह्नितः । अनेकचक्रसंभिन्नः सर्व्वकामफलप्रदः ॥ ३१ ॥ पुरुषोत्तमनामासौ यस्य दिक्षु विदिक्षु च । ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरुषार्थफलप्रदः ॥ ३२ ॥ योगेश्वरः स विज्ञेयो लिङ्गं यस्य शिरोगतम् । ब्रह्महत्यादिपापानां नाशको योगसिद्धिदः ॥ ३३ पद्मनाभस्तथा रक्तः पङ्कजच्छत्रसंयुतः । तुलस्या पूजितो नित्यं दरिद्रस्त्वीश्वरो भवेत् ॥ ३४ रश्मिज्वालो हिरण्याक्षश्चन्द्राभः स्फटिको- पमः । अथवा जायते नानास्वर्णरेखाभिरन्वितः ॥ ३५ ॥ गरुडः स तु विज्ञेयो मध्ये पक्षद्बयान्विते । सुदीर्घा दृश्यते रेखा स सर्पविषनाशकः ॥ ३६ ॥ जनार्द्दनः स विज्ञेयः केवलानि स्फुटानि च । यस्योदरे तु चक्राणि चत्वारि पितृतृप्तिकृत् ॥ ३७ लक्ष्मीनारायणो ज्ञेयो वनमालाङ्कितोदरः । सूक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्तिप्रदायकः ॥ ३८ ॥ हृषीकेशः स विज्ञेयो योऽर्द्धचन्द्राकृतिर्भवत् । तमभ्यर्च्च्य लभेत् स्वर्गं विषयांश्च समीहितान् ॥ २९ ॥ लक्ष्मीनरहरिर्ज्ञेयः कृष्णवर्णः सबिन्दुकः । वामपार्श्वे समे चक्रे गृहस्थाभीष्टदायकः ॥ ४० ॥ त्रिविक्रमस्तु विज्ञेयः श्यामवर्णो महाद्युतिः । वामपार्श्वे चक्रयुग्गमेकरेखा तु दक्षिणे ॥ ४१ ॥ कृष्णो ज्ञेयः शिला कृष्णा सचक्रा वा विच- क्रिका । प्रदक्षिणावर्त्तकृतवनमालाविभूषिता ॥ ४२ ॥ चतुर्म्मुखः स विज्ञेयो द्वे चक्रे मध्यदेशतः । चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः ॥ ४३ ॥ विष्णोर्भेदा इमे प्रोक्ता अत्रैवावाहयेद्धरिम् । विसर्ज्जयेच्च पूजान्ते प्रतिष्ठां नात्र कारयेत् ॥ * ॥
शालग्रामाः समाः पूज्या समेषु द्बितयं न हि । असमा नैव पूज्यन्ते एकः पूज्यतमो मतः ॥ शिला द्वादश यो नित्यं भक्त्या संपूजयेन्नरः । दिने दिने धर्म्मवृद्धिः पापनाशश्च जायते ॥ शालग्रामशिलां यस्तु भक्त्या संपूजयेन्नरः । शतं दिनानि यस्तेन कृतः कामः स सिध्यति ॥ * शालग्रामा मत्स्वरूपाः शृणु तेषान्तु लक्षणम् । यत्सेवनाद्भवेदिष्टमिह लोके परत्र च ॥ शिवनाभः स विज्ञेयः सलिङ्गाकारताङ्गतः । स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः ॥ १ ॥ त्र्यम्बकः स तु विज्ञेयो यो बिन्दुत्रयभूषितः । शूलाकारा तथा रेखा गतपुंस्त्वप्रदायकः ॥ २ ॥ धूर्ज्जटिः स तु विज्ञेयो यत्र रेखा जटासमा । तिस्रो यत्र प्रदृश्यन्ते सोऽर्च्चितो ज्ञानदायकः ॥ ३ शम्भस्तु पाण्डरो ज्ञेयो बिन्दुकृष्णस्तु मस्तके । विल्वप्रमाणस्तेजस्वी पूजितः स्त्रीवशङ्करः ॥ ४ ॥ ईश्वरः स तु विज्ञेयो रक्तो बिन्दुस्तु मस्तके । एकचक्रो द्बिचक्रो वाभ्यन्तरेऽधश्च गोपदम् ॥ ५ ॥ मृत्युञ्जयः स विज्ञेयः स्वल्पमृत्युविनाशकः । अधश्चक्रं तदूर्द्ध्वञ्च श्वेता रेखा त्रिशूलवान् ॥ ६ ॥ चन्द्रशेखरनामासावर्द्धचन्द्राकृतिस्तु के । मध्ये चक्रद्बयं तस्य सेवनाद्रोगनाशनम् ॥ ७ ॥ रुद्रः स एव विज्ञेयः कपिलो मूर्द्ध्नि रक्षितः । चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम् ॥ ८ ॥ * ॥
शालग्रामानथो वक्ष्ये शक्तिकीटसमुद्भवान् । येषां पूजनतो देवी भवानी सुप्रसीदति ॥ श्रीविद्या सा तले चक्रमूर्द्ध्वेछत्रं प्रदृश्यते । वाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिले- ष्टदा ॥ १ ॥ महाकाली तु सा ज्ञेया योनिचिह्नसमन्विता ॥ २ द्बिच्छिद्राद्या सर्व्वशिला त्रिकोणेनाङ्किता च या । यदायुधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्द्दिशेत् ॥ देवीशिला सचक्रा या दक्षमार्गेण तां यजेत् । सार्च्चिता वाममार्गेण लोकद्वयसुखावहा ॥ या चक्ररहिता देवी शिला तां वामतोऽर्च्च- येत् । स्पर्शकार्य्येण विप्राणां नगभां क्षोभकृद्भवेत् ॥ * ॥
सौरीशिला दुर्ल्लभैव प्रायः कलियुगे सुराः । स्फटिकाभा भवेत् सा तु घर्म्ममुक्ता विमुञ्चति ॥ तुलस्योर्द्ध्व स्थिते वह्निं साभिषिक्ता प्रवर्षणम् । कुरुते शपथे मिथ्या कृते स्यात्कुष्ठकारिका ॥ * गणेशः स तु विज्ञेयः स्वल्पशुण्डाङ्कितो भवेत् । शुण्डाकारा शिला वापि गजाननसमापि वा ॥ * यस्या मध्ये महच्चक्रं सूक्ष्मचक्रञ्च यद्दिशि । सा शिला तस्य दिक्यस्य सेव्या तद्दिशि राज्यदा ॥ * ॥
अर्द्धचन्द्राकृतिर्यत्र दृश्यते शकलद्बयम् । सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता ॥ * ॥
बाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः । दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता ॥ * ॥
पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्म्मता । सूर्पाकारा तु राहोः स्यात् केतोस्तु ध्वज- रूपिणी ॥ * ॥
प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते । भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसङ्कुले ॥ कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्ज्जिते । क्व शिष्यः क्व गुरुर्म्मन्त्रः क्व जपः क्व च सिद्धयः ॥ अयुताब्दे कलेर्याते त्यजेद्बिष्णुशिला महीम् । तदर्द्धाज्जाह्नवीतोयं तदर्द्धाद्देवताशिला ॥ जप एव कलौ श्रेयान् शालग्रामार्च्चनं यथा ॥” इति मेरुतन्त्रे ५ पटलः ॥ अपि च । तुलस्युवाच । “हे नाथ ते दया नास्ति पाषाणसदृशस्य च । छलेन धर्म्मभङ्गेन मम स्वामी त्वया हतः ॥ पाषाणहृदयस्त्वञ्च दयाहीनो यतः प्रभो । तस्मात् पाषाणसदृशस्त्वं भवेह हरेऽधुना ॥ श्रीभगवानुवाच । अहञ्च शैलरूपी च गण्डकीतीरसन्निधौ । अधिष्ठानं करिष्यामि भारते तव शापतः ॥ वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै । तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ एकद्वारे चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥ एकद्बारे चतुश्चक्रं नवीननीरदोपमम् । लक्ष्मीजनार्द्दनं ज्ञेयं रहितं वनमालया ॥ द्बारद्बये चतुश्चक्रं गोष्पदेन समन्वितम् । रघुनाथाभिधं ज्ञेयं वेष्टितं वनमालया ॥ अतिक्षुद्रं द्बिचक्रन्तु नवीननीरदप्रभम् । दधिवामनं विज्ञेयं गृहिणाञ्च सुखप्रदम् ॥ अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम् । श्रीधरं देवि विज्ञेयं श्रीपदं गृहिणां सदा ॥ स्थूलञ्च वर्त्तुलाकारं रहितं वनमालया । द्बिचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ मध्यमं वर्त्तुलाकारं द्बिचक्रं बाणविक्षतम् । रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ चतुर्द्दशचक्रं स्थूलञ्च नवीनजलदप्रभम् । अनन्ताख्यञ्च विज्ञेयं चतुर्व्वर्गफलप्रदम् ॥ मध्यमं सप्तचक्रञ्च छत्रतूणसमन्वितम् । राजराजेश्वरं ज्ञेयं राजसम्पत्करं नृणाम् ॥ चक्राकारं द्विचक्रञ्च सश्रीकं जलदप्रभम् । सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम् ॥ सुदर्शनञ्चैकचक्रं गुप्तचक्रं गदाधरम् । द्वि चक्रं हयवक्त्राभं हयग्रीवं प्रकीर्त्तितम् ॥ अतीवविस्तृतास्यञ्च द्बिचक्रं विकटं सति । नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ द्बिचक्रं विस्तृतास्यञ्च वनमालासमन्वितम् । लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा ॥ द्बारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फुटम् । वासुदेवञ्च विज्ञेयं सर्व्वकामफलप्रदम् ॥ प्रद्युम्नं सूक्ष्मचक्रञ्च नवीननीरदप्रभम् । शुषिरे छिद्रबहुलं गृहिणाञ्च सुखप्रदम् ॥ द्वे चक्रे चैकलग्ने तु पृष्ठे यत्र तु पुष्कलम् । सङ्कर्षणन्तु विज्ञेयं सुखदं गृहिणां सदा ॥ अनिरुद्धञ्च पीताभं वर्त्तुलञ्चातिशोभनम् । सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ * ॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्रैव लक्ष्मीर्व्वसति सर्व्वतीर्थसमन्विता ॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । तानि सर्व्वाणि नश्यन्ति शालग्रामशिलार्च्चनात् ॥ छत्राकारे भवेद्राज्यं वर्त्तुले च भवेत् श्रियः । दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ विकृतास्ये च दारिद्रं पिङ्गले हानिरेव च । लग्नचक्रे भवेद्धानिर्विदीर्णे मरणं ध्रुवम् ॥ व्रतं दानं प्रतिष्ठा च श्राद्धञ्च देवपूजनम् । शालग्रामशिलायाश्चैवाधिष्ठानात् प्रशस्तकम् ॥ स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः । सर्व्वदाने च यत् पुण्यं प्रादक्षिण्ये भुवस्तथा ॥ सर्व्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च । पाठे चतुर्णां वेदानां तपसां करणे सति । तत् पुण्यं लभते नूनं शालग्रामशिलार्च्चनात् ॥ शालग्रामशिलातोयं नित्यं भुङ्क्तेच यो नरः । सुरेप्मितं प्रसादञ्च जन्ममृत्युजराहरम् ॥ तस्य स्पर्शञ्च वाञ्छन्ति तीर्थानि निखिलानि च । जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ तत्रैव हरिणा सार्द्धमसंख्यं प्राकृतं लयम् । पश्यन्त्येव हि दास्येव नियुक्तो दास्यकर्म्मणि ॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । तं दृष्ट्वा च भिया यान्ति वैनतेयमिवोरगाः ॥ तत्पादपद्मरजसा सद्यः पूता वसुन्धरा । पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मनि ॥ शालग्रामशिलातोयं मृत्युकाले च यो लभेत् । सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ निर्व्वाणमुक्तिं लभते कर्म्मभोगाद्विमुच्यते । विष्णुपादप्रलीनश्च भविष्यति न संशयः ॥ शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः । स याति कूर्म्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः ॥ शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् । स प्रयात्यसिपत्रञ्च लक्षमन्वन्तरावधि ॥ तुलसीपत्रविच्छेदं शालग्रामं करोति यः । तस्य जन्मान्तरे कान्ते स्त्रीविश्लेषो भविष्यति ॥ तुलसीपत्रविच्छेदं शङ्खं यो हि करोति च । भार्य्याहीनो भवेत् सोऽपि रोगी च सप्तजन्मसु ॥ शालग्रामञ्च तुलसीं शङ्खञ्चैकत्र एव च । यो रक्षति महाज्ञानी स भवेत् श्रीहरिप्रियः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः ॥ * ॥
शूद्राणां तत्पूजनेऽनधिकारो यथा, —
“विप्रक्षत्त्रियवैश्यानां शालग्रामशिलार्च्चने । अधिकारो न शूद्राणां हरेरर्च्चार्च्चने तथा ॥” इति तत्रैव जन्मखण्डे २१ अध्यायः ॥ * ॥
शालग्रामे सदा विष्णोः स्थितिस्तत्पूजने विशेषश्च यथा, — भूमिरुवाच । “उक्ता याः प्रतिमाः सर्व्वाः सुवर्णादिविनि- र्म्मिताः । तासु तिष्ठसि सर्व्वासु शालग्रामे च सर्व्वदा ॥ कति पूज्या गृहादौ च अविशेषस्तु पूजने । विशेषो वा भवेत्तन्मे रहस्यं वद माधव ॥ वराह उवाच । गृहे लिङ्गद्वयं नार्च्च्यं शालग्रामद्बयं तथा । द्वे चक्रे द्वारकायास्तु नार्च्च्यं सूर्य्यद्वयं तथा ॥ शालग्रामशिला भग्ना पूजनीया सचक्रका । खण्डिता स्फुटिता वापि शालग्रामशिला शुभा ॥ शिला द्बादश वै देवि शालग्रामसमुद्भवाः । विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ कोटिद्बादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः । यत् स्यात् द्वादशकल्पैस्तु दिनेनैकेन तद्भवेत् ॥ यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् । तत्फलं नव शक्तोऽहं वक्तुं वर्षशतैरपि ॥ शालग्रामो न स्प्रष्टव्यो हीनवर्णैर्व्वसुन्धरे । स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः ॥ मोहाद्यः संस्पृशेत् शूद्रो योषिद्वापि कदाचन । स पतेन्नरके घोरे यावदाहूतसंप्लवम् ॥ यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे । दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः ॥ चरणामृतपानेन सर्व्वपापक्षयो भवेत् ॥ अभक्ष्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलायोगात् पावनं तद्भवेत् सदा ॥ दद्याद्भक्ताय यो देवि शालग्रामशिलां