वाचस्पत्यम्
शाला is an alternate of साला. सा(शा)ला || स्त्री सालः प्राकारोऽस्त्यस्याः अच् । गृहे भरतः
वाचस्पत्यम्
शाला || स्त्री शाल—अच् । १ गृहे अमरः । वृक्षस्य २ स्कन्द- स्थशाखायाञ्च । ३ गृहकैदेशे (चाल) मेदि० ।
शब्दकल्पद्रुमः
शाला || स्त्री (शो + “बाहुलकात् श्यतेरपि कालन् ।” इत्युज्ज्वलदत्तोक्त्या कालन् । १ । ११७ ।)
गृहम् । इत्यमरः ॥ (यथा, भागवते । ८ । ९ । १६ । “धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥”)
वृक्षस्य स्कन्धशाखा । गृहैकदेशः । इति मेदिनी ॥