संस्कृत-शब्दकोशः

शालावृक शालिका

शालि

वाचस्पत्यम्

शालि ||‍ पु० शल + इञ् । कलमादिधान्ये, २ षष्ठिकादिधान्ये, अमरः । ३ गन्धमार्ज्जारे च मेदि० । शालिभेदादिकं “कण्डनेन विना शुक्लाः हेमन्ताः शालयः स्मृताः” इत्यादि भावप्र० उक्तम् । धान्यशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

शालिः || पुं, (शृणातीति । शॄ + बालुलकात् इञ् । रस्य लत्वम् ।)
गन्धमार्ज्जारः । इति मेदिनी ॥ कलमादिधान्यम् । षष्टिकादिधान्यम् । इत्य- मरः ॥ तत्पर्य्यायः । मधुरः २ रुच्यः ३ व्रीहि- श्रेष्ठः ४ नृपप्रियः ५ धान्योत्तमः ६ कैदारः ७ सुकुमारकः ८ । पुस्तकान्तरे मधुरस्थाने कलम इति पाठः । स तु दशविधः । यथा, —
“राजान्नषष्टिकसितेतररक्तमण्ड- स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः । व्रीहिस्तथेति दशधा भुवि शालयः स्यु- स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥” इति राजनिर्घण्टः ॥ अस्य गुणाः । “शालयो मधुराः शीता लघुपाका बलावहाः । पित्तघ्नाश्चानिलकफाः स्निग्धा बद्धाल्पवर्च्चसः ॥” इति राजवल्लभः ॥ * ॥
अथ शालिधान्यलक्षणम् । “कण्डनेन विना शुक्ला हैमन्ताः शालयः स्मृताः ॥” शालीनां नामानि यथा, —
“रक्तशालिः सकलमः पाण्डुकः शकुनादृतः । सुगन्धकः कर्द्दमको महाशालिश्च दूषकः ॥ पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः । दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः । इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः ॥” अथ तेषां गुणाः । “शालयो मधुराः स्निग्धा बल्या बद्धाल्पवर्च्चसः । कषाया लघवो रुच्या स्वर्य्या वृष्याश्च वृंहणाः ॥ अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा । शालयो दग्धभूजाताः कषाया लघुपाकिनः ॥ सृष्टमूत्रपूरीषाश्च रूक्षाः श्लेष्मापकर्षणाः । केदाराः वातपित्तघ्ना गुरवः कफशुक्रलाः ॥ कषाया अल्पवर्च्चस्का मधुराश्च बलावहाः ॥” केदाराः कृष्टक्षेत्रजा उप्ताः । “स्थलजाः स्वादवः पित्तकफघ्ना वातवह्निदाः । किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि ॥” स्थलजा अकृष्टभूमिजाः स्वयंजाताः । “वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः ॥ श्लेष्मलाश्चाल्पवर्च्चस्काः कषाया गुरवो हिमाः ॥” वापिताः कृष्णक्षेत्रे अकृष्णक्षेत्रे च । “वापिकेभ्यो गुणैः किञ्चिद्धीनाः प्रोक्ता अवा- पिताः ॥” कृष्णक्षेत्रे अकृष्टक्षेत्रे च । “रोपितास्तु नवाः वृष्याः पुराणा लघवः स्मृताः । रोपितारोपिता भूयः शीघ्रपाका गुणाधिकाः ॥ छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफा- पहाः । बद्धविट्काः कषायाश्च लघवश्चाल्पतिक्तकाः ॥” अथ रक्तशालेर्गुणाः ॥ “रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् । चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृड्ज्वरापहः । विषव्रणश्वासकासदाहनुद्बह्निपुष्टिदः । तस्मादल्पान्तरगुणाः शालयो महदादयः ॥” रक्तशालिः दाउदखानी इति मगधदेशे प्रसिद्धः । इति भावप्रकाशः ॥ (पक्षी । इत्युणादिवृत्तो उज्ज्वलः । ४ । १२७ ॥)



Correction: