वाचस्पत्यम्
शालेय is an alternate of सालेय. सा(शा)लेय || पु० सा(शा)लायां भवःढक् । मधुरिकायाम् अमरः
वाचस्पत्यम्
शालेय || पु० शालायां भवः ढक् । १ मधुरिकायाम् अमरः । २ मिश्रेयायां स्त्री राजनि० टाप् ।
शब्दकल्पद्रुमः
शालेयं || त्रि (शालीनां क्षेत्रम् । शालि + “व्रीहि- शाल्योर्ढक् ।” ५ । २ । २ । इति ढक् ।)
शाल्युद्भव- क्षेत्रम् । इत्यमरः ॥ शालासम्बन्धि शालसम्बन्धि च ॥
शब्दकल्पद्रुमः
शालेयः || पुं, मधुरिका । इत्यमरः ॥