वाचस्पत्यम्
शास्त्रचारण || पु० शास्त्रं चारयति प्रचारयति चर—णिच्- ल्यु । शास्त्रोक्ताचरणप्रचारकर्त्तरि शब्दर० ।
शब्दकल्पद्रुमः
शास्त्रचारणः || त्रि (शास्त्रं चारयति प्रचारय तीति । चर + णिच् + ल्युः ।) शास्त्रदर्शी । इति शब्दरत्नावली ॥