वाचस्पत्यम्
शास्त्रतत्त्वज्ञ || त्रि० शास्त्रतत्त्वं जानाति ज्ञा—क । १ शास्त्र- तात्पर्य्यवेत्तरि २ ज्योतिषज्ञे शब्दर० ।
शब्दकल्पद्रुमः
शास्त्रतत्त्वज्ञः || पुं, (शास्त्रस्य तत्त्वं जानातीति । ज्ञा + कः ।)
गणकः । यथा, शब्दरत्नावल्याम् । “दैवज्ञो गणको ज्ञानी मौहूर्त्तो दैवलेखकः । वार्त्तान्तिको ज्योतिषिको मौहूर्त्तिकप्रसूचकौ ॥ संवत्सरो वर्षकोषो रेखाजीवी गणाङ्कभुक् । तान्त्रिको ज्ञातसिद्धान्तः शास्त्रतत्त्वज्ञ ईरितः ॥”