वाचस्पत्यम्
शास्त्रदर्शिन् || त्रि० दृश—णिनि ६ त० । शास्त्रज्ञे शब्दर० । शास्त्रविदादयोऽप्यत्र ।
शब्दकल्पद्रुमः
शास्त्रदर्शी || [न्] त्रि, (शास्त्रं द्रष्टुं शीलमस्य । णिनिः ।)
शास्त्रज्ञः । तत्पर्य्यायः । अन्तर्व्वाणिः २ शास्त्रवित् ३ शास्त्रचारणः ४ । इति शब्द- रत्नावली ॥