वाचस्पत्यम्
शिखण्डिक || पुंस्त्री० शिखण्डोऽस्त्यस्य ठन् । कुक्कटे हेमच० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शिखण्डिकः || पुं, (शिखण्डीव कायति शब्दायते इति । कै + कः । यद्वा, शिखण्डोऽस्यास्तीति । शिखण्ड + ठन् ।)
कुक्कुटः । इति हेमचन्द्रः ॥ शिखण्डिका, स्त्री, शिखा । यथा, —
“चूडा केशी केशपाशी शिखा शिखण्डिका समाः ॥” इति हेमचन्द्रः ॥