संस्कृत-शब्दकोशः

शिखण्डिक शिखण्डिन्

शिखण्डिनी

शब्दकल्पद्रुमः

शिखण्डिनी || स्त्री (शिखण्डश्चूडा अस्त्यस्या इति । इनि । ङीप् ।)
यूथिका । गुञ्जा । इति मेदिनी ॥ द्रुपदराजकन्या । (यथा, महाभारते । ५ । १९२ । २ । “कन्या शिखण्डिनी जाता पुरुषो वै निवे- दितः ॥”)
सा यक्षस्य पुंस्त्वग्रहणेन पुरुषो भूत्वा शिख- ण्डीति नाम्ना ख्यातः । एतद्बिवरणं महा- भारते । ५ । १९० अध्यायमारभ्य विशेषतो द्रष्टव्यम् ॥ मयूरी । शिखण्डिन्-शब्दात् स्त्रियां ईप्प्रत्ययेन निष्पन्ना ॥ (विजिताश्वराजस्त्री । यथा, भागवते । ४ । २४ । ३ । “अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥” शिखण्डविशिष्टा । यथा, महाभारते । ४ । ३५ । १ । “सा प्राद्रवत् काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी । सुदक्षिणा वेदिविलग्नमध्या सा पद्मपत्राभनिभा शिखण्डिनी ॥”)



Correction: