संस्कृत-शब्दकोशः

शिञ्जा शिञ्जिनी

शिञ्जित

वाचस्पत्यम्

शिञ्जित ||‍ न० शिजि—भावे क्त । भूषणध्वनौ अमरः ।


शब्दकल्पद्रुमः

शिञ्जितं || क्ली (शिञ्ज + क्तः ।)
भूषणध्वनिः । इत्यमरः ॥ (यथा, —
“नखानि विधुशङ्कया विरहिणी करेणावृणोत् ततः किशलयभ्रमात् स्वयमथाक्षिपद्दूरतः । ततो वलयशिञ्जितं भ्रमरगुञ्जिताशङ्कया उहूरिति कुहूरवध्वनिधिया ततो मूर्च्छिता ॥” इत्युद्भटः ॥)



Correction: