संस्कृत-शब्दकोशः

शिट शित

शिण्डाकी

वाचस्पत्यम्

शिण्डाकी ||‍ स्त्री खाद्यद्रव्यभेदे यथा “शिण्डाकी राजिला- युक्तैः स्यान्मूलकदलद्रवैः । सर्वपस्वरसैर्वापि शालि- पिष्टकसंयुतैः । शिण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी स्मृता” राजनि० ।


शब्दकल्पद्रुमः

शिण्डाकी || स्त्री खाद्यद्रव्यविशेषः । यथा, —
“शिण्डाकी राजिकायुक्तैः स्यान्मूलकदलद्रवैः । सर्षपस्वरसैर्व्वापि शालिपिष्टकसंयुतैः । शिण्डाकी रोचनी गुर्व्वी पित्तश्लेष्मकरी स्मृता ॥” इति राजनिर्घण्टः ॥



Correction: