संस्कृत-शब्दकोशः

शिपि शिप्र

शिपिविष्ट

वाचस्पत्यम्

शिपिविष्ट ||‍ पु० ७ त० । १ खलतौ २ दुश्चर्मणि च ३ महेश्वरे अमरः । ४ विष्णौ शिपिशब्दे दृश्यम् । “नेकरूपो वृह- द्रूपः शिपिविष्ट प्रकाशनः” विष्णुस० । पृषो० शिषविष्ट तत्रार्थे रमानाथः ।


शब्दकल्पद्रुमः

शिपिविष्टः || पुं, खलतिः । दुश्चर्म्मा । महेश्वरः । इत्यमरः ॥ कुष्ठी । इत्यमरटीकायां रायमुकुटः ॥ अस्य रूपान्तरम् । शिपविष्टः । शिपिविष्टः । इत्यमरटीका ॥ विष्णुः यथा, —
“नैकरूपी बृहद्रुपः शिपिविष्टः प्रकाशनः ॥” इति तस्य सहस्रनामस्तोत्रं रमानाथश्च ॥ (पशुप्रविष्टे, त्रि । यथा, भागवते । ४ । १३ । ३५ । “पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥” “शिपिषु पशुषु यज्ञरूपेण प्रविष्टाय । तथाच श्रुतिः यज्ञो वै विष्णुः पशवः शिपिः यज्ञ एव पशुषु प्रतितिष्ठतीति ।” इति श्रीधरस्वामी ॥)



Correction: