संस्कृत-शब्दकोशः

शिफ शिफाक

शिफा

वाचस्पत्यम्

शिफा ||‍ स्त्री शि—फक् । वृक्षाणां १ जटाकारे मूले । (शिफड) अमरः । २ नद्यां ३ मांसिकायां ४ मातरि मेदि० । ५ शत- पुष्पायां ६ हरिद्रायां राजनि० । ७ पद्मकन्दे मुकुटः । जाटाकारे मूले पु० विद्याविनोदः ।


शब्दकल्पद्रुमः

शिफा || स्त्री वृक्षाणां जटाकारमूलम् । शिकड् इति ख्यातम् । तत्पर्य्यायः । जटा । २ । इत्य- मरः ॥ मूलम् ३ । इति जटाधरः ॥ नदी (यथा ऋग्वेदे । १ । १०४ । ३ । “हते ते स्यातां प्रवणे शिफायाः ।” “शिफायाः शिफा नाम नदी तस्याः ।” इति तद्भाष्ये सायणः ॥)
मांसिका । माता । इति मेदिनी ॥ शतपुष्पा । हरिद्रा । इति राज- निर्घण्टः ॥ पद्मकन्दः । इति मुकुटधृतस्वामी ॥ (लता । इति मेधातिथिः ॥ यथा, मनौ । ९ । २३० । “शिफाविदलरज्ज्वाद्यैर्व्विदध्यान्नृपतिर्द्दमम् ॥)



Correction: