शिलगर्भज
शिलाकर्णी
शिला
शब्दकल्पद्रुमः
शिला || स्त्री पाषाणः । (यथा, मनौ । २ । २०४ । “गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥”)
द्वाराधःस्थितदारु । इत्यमरः ॥ स्तम्भशीर्षम् । मनःशिला । इति मेदिनी ॥ कर्पूरः । इति राजनिर्घण्टः ॥