संस्कृत-शब्दकोशः

शिलीन्ध्री शिलीमुख

शिलीपद

वाचस्पत्यम्

शिलीपद ||‍ पु० शिलो द्वाराधःखकाष्ठमिव पदमणात् । रोग- भेदे (गोद) शब्दर० पृषो० । श्लीपदमप्यत्र न० भावप्र० । तन्निदानादि भावप्र० उक्तं यथा “पुराणोदकभूयिष्ठाः सर्वर्त्तुषु च घीतत्राः । ये देशा- स्तेषु जायन्ते श्लीपदानि विशेषतः” । विशेषत इति वचनेनान्यत्रापि श्लीपदं भवतीति बोध्यते । अथ श्ली- पदस्य सामान्यलक्षणमाह “यः सज्वरोवङ्क्षक्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण । तत् श्लीपदं स्यात्करकर्णनेत्रशिश्नौष्ठनासास्यपि केचिदाहुः” । तत्त्रि- विधम् वातिकं पैत्तिकं श्लैष्मिकञ्चेति । तत्र तेषां कमेण लक्षणान्याह “वातजं कृष्णरूक्षं हि स्फुटितं तीव्र- वेदनम् । अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च । पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम । श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुरमस्थिरम् । त्रीण्यप्येतानि जानोयात् श्लीपदानि कफात् पुनः । गुरुत्वञ्च मह- त्त्वञ्च यस्मातास्ति विना कफात्” । अथासाध्यमाह “बलमीकमिव सञ्जातं कण्टकैरुपचोयते । अव्दात्मकन्म- हत्तत्तु वर्जनीयं विशेषतः । यत् श्लैष्मिकाहारविहार- त्वातैर्जातं तथाभरिकफस्थ पुंसः । वास्तावमत्युन्नतभर्व- लिङ्गं सकण्डुकञ्चापि विवर्जनीयम्” अचिकित्स्यत्वादिति शेषः ।


शब्दकल्पद्रुमः

शिलीपदः || पुं, (शिलीव स्थूलं पदमस्मात् ।)
पादरोगविशेषः । गोद इति भाषा । तत्पर्य्यायः पदगण्डीरः २ श्लीपदः ३ । इति शब्दरत्नावली ॥ पादवल्मोकः ४ । इति हेमचन्द्रः ॥ श्लीपदस्य विप्रकृष्टं निदानमाह । “पुराणोदकभूयिष्ठाः सर्व्वर्त्तुषु च शीतलाः । ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥” विशेषत इति वचनेनान्यत्रापि श्लीपदानि भवन्ति इति बोध्यते ॥ * ॥
सामान्यं लक्षणमाह । “यः सज्वरो वंक्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण । तत् श्लीपदं स्यात् करकर्णनेत्र- शिश्नोष्ठनासास्वपि केचिदाहुः ॥” तत्त्रिविधम् । वातिकं पैत्तिकं श्लैष्मिकञ्चेति । तेषां लक्षणमाह । “वातजं कृणरूक्षं हि स्फुटितं तीव्रवेदनम् । अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ॥ * ॥
पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम् ॥ * ॥
श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुगुरु स्थिरम् ॥ त्रीण्यप्येतानि जानीयात् श्लीपदानि कफो- च्छ्रयात् । गुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफान् ॥” असाध्यमाह । “वल्मीकमिव संजातं कण्टकैरुपचीयते । सर्व्वात्मकं महत्त्वञ्च वर्जनीयं विशेषतः ॥ यत् श्लेष्मलाहारविहारजातै- र्जातं तथा भूरिकफस्य पुंसः । सास्रावमप्युन्नतिसर्वलिङ्गं सकण्टकं वापि विवर्जीनीयम् ॥” अस्य चिकित्सा । “लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः । प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ सिद्धार्थशोभाञ्जनदेवदारु- विश्वौषधैर्मूत्रयुतैः प्रलिम्पेत् । पुनर्नवा नागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ॥” श्लीपदमिति शेषः । “धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रसर्षपैः । प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥ असाध्यमपि यात्यन्तं श्लीपदं चिरकालजम् । मूलेन सहचरायाः तालमिश्रेण लेपनात् ॥” तालस्य फलरसो ग्राह्यः । “सप्तलास्थूलपत्राणां कल्कं तप्तेन वारिणा । संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् ॥ शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत् । श्लीपदानां विनाशाय मेदोदोषनिवृर्त्तये ॥ रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः । वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥ वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् । सक्षौद्रं श्लीपदं लिह्याच्चिरोत्थं श्लीपदं जयेत् ॥ गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबति । श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण ॥” गन्धर्वतैलं एरण्डतैलम् । गोऽम्बुना गोमुत्रेण । इति भावप्रकाशः ॥



Correction: