वाचस्पत्यम्
शिलीमुख || पु० शिलीव मुखमस्य । १ भ्रनरे २ वाणे अमरः । ३ युद्धे ४ जडीभूते च शब्दर० ।
शब्दकल्पद्रुमः
शिलीमुखः || पुं, (शिलीव मुखं यस्य ।)
भ्रमरः । (यथा, रघुः । ४ । ५७ । “कटेषु करिणां पेतुः पुन्नागेभ्यः शिली- मुखाः ॥”)
बाणः । इत्यमरः ॥ (यथा, महाभारते । ४ । ४० । ११ । “कस्यायं शायको दीर्घः शिलीपृष्टः शिली- मुखः ॥”)
युद्धम् । जडीभूतः । इति शब्दरत्नावली ॥