वाचस्पत्यम्
शिलोच्चय || पु० शिलानामुच्चयो यत्र । ववैते अमरः ।
शब्दकल्पद्रुमः
शिलोच्चयः || पुं, (शिलाया उच्चयो यत्र । पर्वतः ॥ इत्यमरः ॥ (यथा, रघुवंशे । २ । २७ । “न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥”)