संस्कृत-शब्दकोशः

शिल्पशाला शिल्पिका

शिल्पशास्त्र

वाचस्पत्यम्

शिल्पशास्त्र ||‍ न० शिल्पज्ञापनं शास्त्रम् । वास्तुविद्यादिज्ञा- पके शास्त्रे ।


शब्दकल्पद्रुमः

शिल्पशास्त्रं || क्ली (शिल्पस्य शास्त्रम् ।)
शिल्प- कर्म्मग्रन्थः । तच्छास्त्राणि बहूनि सन्ति तन्मध्ये वास्तुशास्त्रैकं लिख्यते । यथा, —
“स्त्रीपुत्त्रादिकभोगसौख्यजनकं धर्म्मार्थकाम- प्रदं जन्तूनां लयनं सुखास्पदमिदं शीताम्बु घर्म्मा- पहम् । वापीदेवगृहादिपुण्यमखिलंगेहात् समुत्पद्यते गेहं पूव्वमुशन्ति तेन विबुधाः श्रीविश्वकर्म्मा- दयः ॥ मिद्ध्यै गृहारम्भमुशन्ति वृद्धा यथोदिते मामि वलक्षपक्षे । शशाङ्कवीर्य्ये सुदिने निमित्ते शुभं रवौ सीम्यगते प्रवेशम् ॥ चैत्रे शोककरं गृहादि रचितं स्यान्माधवेऽर्थ- प्रदं ज्यैष्ठे मृत्युकरं शुचौ पशुहरं तद्वृद्धिदं श्रावणे । शून्यं भाद्रपदेऽश्विने कलिकरं भृत्यक्षयं कार्त्तिके धान्यं मार्गसहस्ययोर्दहनभोर्माघे श्रियः फाल्गुने ॥ आदित्ये हरिकर्कनक्रघटगे पूर्व्वापरास्यं गृहं कर्त्तव्यं तुलमेषवृश्चिकवृषे याम्योत्तरास्यं तथा । द्वारं भिन्नतथा करोति कुमती रोगार्थनाश- स्तदा कन्यामीनधनुर्गते मिथुनगे चास्मिन्न कार्य्यं गृहम् ॥ कन्यादित्रिषु पूर्वतो यमदिशि त्याज्यञ्च चापा- दितो द्वारं पश्चिमतस्त्रिके जलचरात् सीम्येरवौ युग्मतः । यस्माद्वत्समुखं दिशासु भवनं द्वारादिकं हानिकृत् सिंहं वापि वृषञ्च वृश्चिकघटं वाते हितं सर्वतः ॥ प्राची मेषतुलारवावुदयति स्याद्वैष्णवे वह्निभे चित्रास्वात्रिभमध्यगा निगदिता प्राची बुधैः पञ्चधा । प्रासादो भवनं करोति नगरं दिङ्मूढमर्थक्षयं हर्म्येदेवगृहे पुरे चनितरामायुर्धनं दिङ्मुखे ॥ तारे मार्कटिके ध्रुवस्य समतां नीते बले वैनते दीपाग्रेण तदैक्यतश्च कथिता सूत्रेण सौम्या दिशा । शङ्कोर्नेत्रगुणेन ३६ मण्डलवरे छाया तयो- र्मत्स्ययो- र्जाता पत्रयुतिस्तु शङ्कुतलतो याम्योत्तरैस्तत्- त्रुटेः ॥ राशोनामलिमीनसिंहभवनं पूर्व्वामुखं शोभनं कन्याकर्कटनक्रराशिगृहिणां याम्याननं मन्दिरम् । राशेर्धन्वितुलायुगस्य सदनं शस्तं प्रतीचीमुखं पुंसां कुम्भवृषाजराशिभजतां सौम्याननं स्याद्गृहम् ॥” * ॥
अथ भूपरिग्रहः । “श्वेता ब्राह्मणभूमिका च घृतवद्गन्धा शुभ- स्वादिनी रक्ता शोणितगन्धिनी नृपतिभूः स्वादे कषाया च सा । स्वादेऽम्ला तिलतैलगन्धिरुदिता पीता च वैश्या मही कृष्णा मत्स्यसगन्विनी च कटुका शूद्रेति भूलक्षणम् ॥ स्वादे भवेद्या मधुरा सिताभा चतुर्षु वर्णेषु मही प्रशस्ता । स्नेहान्विता बभ्रु भुजङ्गयोर्या सौहार्दवत्याखुविडालयोर्व्वा ॥ * ॥
परीक्षितायां भुवि विघ्नराजं समर्च्चयेत् चण्डिकया समेतम् । क्षेत्राधिपं चाष्टदिशाधिनाथान् सुपुष्पधूपैर्बलिभिः सुखाय ॥ खातं भूमिपरीक्षणे करमितं तत् पूरयेत्तन्- मृदा हीने हीनफलं समे समफलं लाभो रजोवर्द्धिते । तत् कृत्वा जलपूर्णमाशतपदं गत्वा परीक्ष्यं पुनः पादोनेऽर्द्धविहीनकेऽथ निभृते मध्याधमेष्टाम्बुनि भूमेः प्राक् प्रवणञ्च शङ्करककुप्सौम्याश्रितं सौख्यदं वह्नौ वह्निभयं यमे च मरणं चौराद्भयं रक्षसि वायव्ये प्रवणञ्च धान्यहरणं स्याच्छोकदं वारुणं विप्रादेरनुवर्णतश्च सुखदं सृष्टिक्रमात् सौम्यतः अग्नौ राक्षसवायुशङ्करदिशि स्थाप्याः क्रमात् कीलकाः अश्वत्थात् खदिरात् शिरीषककुभात् वृक्षात् क्रमेण द्विजाः । वर्णानां कुशमुञ्जकाशशणजं सूत्रं क्रमात् सूत्रणे निम्ना भू स्फुटितोषरा विलवती शल्यैर्युता नाशुभा ॥” ककुभादित्यत्र वकुलादिति च पाठः ॥ * ॥
“प्रश्नत्रयं वापि गृहाधिपेन देवस्य वृक्षस्य फलस्य वापि । वाच्यं हि कोष्ठाक्षरसंयुतेन सत्यं विलोक्यं भवनेषु सृष्ट्या ॥ वा का चा टा ता ए ह सा पापवर्णाः प्राच्यादिस्थे कोष्ठके शल्यमुक्तम् । केशाङ्गाराः काष्ठलोहास्थिकाट्यं तस्मात् कार्य्यं शोधनं भूमिकायाः ॥ शल्यं गवां भूपभयं हयानां रुजं शुनोऽत्वोः कलहप्रणाशौ । स्वरोष्ट्रयोर्हानिमपत्यनाशं स्त्रीणामजस्याग्निभयं तनोति ॥ * ॥
कन्यादौ रवितस्त्रये फणिमुखं पूर्वादिसृष्टिक्रमं ख्यातं वास्तुवपुर्दिशात्रयगतं लाङ्गुलपृष्ठं शिरः द्वारं तस्य मुखे गृहादि भयदं कुक्षिद्वये सौख्यदं दुःखं प्राक्खनने शिरोऽङ्घ्रिवपुषः कुक्षौ सुखं दक्षिणे ॥ प्राच्यां नागमुखं बुधैर्निगदितं भाद्राश्विने कार्त्तिके । मार्गात् फालगुनशुक्रतः क्रमतया याम्ये जले चोत्तरे । क्षेत्रे चाष्टविभाजिते दिनकराद्वाराल्लिखेत् कोष्ठगान् शन्यङ्गारकयोश्च तत्र फणिनः शारीरकं नो खनेत् ॥ * ॥
शीर्षे मातृपितृक्षयः प्रथमतः खाते रुजा पुच्छके पृष्ठे हानिभये च कुक्षिखनने स्यात् पुत्त्रधान्या- दिकम् । पूर्वास्येऽनिलखातनं यममुखे खातं शिवे कारयेत् शीर्षे पञ्चिमगे च वह्निखननं सौम्ये खनेन्नैरृते दक्षिणकोणे पूर्वविभागे पूजनपूर्वं शिला समर्प्या । स्थाप्या शेषशिला दक्षिणतः स्तम्भाः समर्प्या विधानेन ॥” * ॥
ब्रह्मशम्भुर्यथा । “सूत्रं भित्तिशिलान्यासं स्तम्भस्यारोपणं तथा । पूर्वदक्षिणोर्मध्ये कुर्य्यादित्याह काश्यपः ॥” नारदः । “नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् । पूर्वादिदिक्शिरोवामपार्श्वाशायां प्रद- क्षिणम् ॥” वास्तुशास्त्रेऽप्युक्तम् । “वास्तोः शिरसि पुच्छे च वामकुक्षौ च पृष्ठतः । आयुष्कामः खनेन्नैव दक्षकुक्षौ खनिः शुभा ॥ भित्तेर्मूलं स्थापनीयं जलान्ते पाषाणे वा हेमरत्नैः सगर्भम् । शीर्षे गुर्वो लेपहीनाधिका वा सन्धिश्रेणिः पादहीनार्थहान्यैः ॥ भवनपुरसुराणां सूत्रणे पूर्वमुक्तः कथित इह पृथिव्याः शोधनेऽपि द्वितीयः । तदनु मुखनिवेशे स्तम्भसंरोपणे स्या- द्भवनवसनकाले पञ्चधा वास्तुयज्ञः ॥ * ॥
वृक्षा दुग्धसकण्टाश्च फलिनस्त्याज्या गृहाद् दूरतः शस्ते चम्भकपाटले च कदली जाती तथा केतकी । यामादूर्द्ध्वमशेषवृक्षसुरजा च्छाया न शस्ता गृहे पार्श्वे कस्य हरेरवीशपुरतो जैनानुचण्ड्याः क्वचित् ॥ स दुग्धवृक्षा द्रविणस्य नाशं कुवन्ति ते कण्टकिनोऽरिभीतिम् । प्रजाविनाशं फलिनः समीपे गृहस्य वर्ज्याः कलधौतपुष्पाः ॥ दुष्टो भूतसमाश्रितोऽपि विटपी नोच्छिद्यते शक्तितः तद्विल्वीञ्च शमीमशोकवकुलौ पुन्नाग- सच्चम्पकौ । द्राक्षापुष्पकमण्डपञ्च तिलकान् कृष्णां वपे- द्दाडिमीं सौम्यादेः शुभदौ कपीतनवटावौदुम्बराश्व- त्थकौ ॥ उत्सङ्गनामाभिमुखः प्रवेशः स्यात् पृष्ठभङ्गो भवनस्य पृष्ठात् । विनाशहेतुः कथितोऽपसव्यः सृष्ट्या प्रशस्तो भवनेऽखिलेऽसौ ॥ प्रावेशः प्रतिकायको वरुणदिग्वक्त्रो भवेत् सृष्टितो वामावर्त्त उदाहृतो यममुखेऽसौ हीनबाहु- र्बुधैः । उत्सङ्गो नरवाहनाभिवदनः सृष्ट्या यथा निर्म्मितः प्राग्वक्त्रोऽपि च पूर्णबाहुरुदितो गेहे चतुर्द्धा पुरे ॥ * ॥
हस्तः पर्वाष्टयुक्तो मुनिवररचितः पर्व चैकं त्रिमात्रं मात्रा षण्णां यवानामुदरमिलिता निस्त्वचा- मुत्तमानाम् । पुष्पैश्चत्वारि पूर्वं तदनु च विभजेदङ्गुलैः पर्व- पुष्पै- र्निग्रन्थी रक्तकाष्ठो मधुमय उदितः खादिरो वंशधात्वोः ॥ ज्येष्ठोऽष्टाभिर्यवोदरैस्तु मुनिभिर्म्मध्यस्तु षट् कन्यसो माप्यं चोत्तमकेन ग्रामनगरंक्रोशादिकं योज- नम् । प्रासादप्रतिमे नृपस्य भवनं मध्येन हर्म्यादिकं यानं षड्यवसम्भवेन शयनं छत्रासनास्त्रा- दिकम् ॥ * ॥
रुद्रो वायुर्विश्वकर्म्मा हुताशो ब्रह्मा कालस्तोयपः सोमविष्णुः । पुष्पे देवा मूलतोऽस्मिंश्च मध्यात् पञ्चाष्टान्त्यं द्व्यग्निवेदैर्विभज्यम् ॥ ईशो मारुतविश्ववह्निविधयः सूर्य्यश्च रुद्रो यमो वैरूपो वसवोऽष्ट दन्तिवरुणौ षड्वक्त्र इच्छा क्रिया । ज्ञानं वित्तपतिर्निशाकरजयौ श्रीवासुदेवो हली कामो विष्णुरितिक्रमेण मरुतो हस्ते त्रयो- विंशतिः ॥ * ॥
उच्चाटनं रोगभयञ्च दुःखं वह्नेर्भयं पीडनकं प्रजायाः । मृत्युर्विनाशोऽपि धनक्षयः स्यान्- मोहः क्रमाद्दैवतपीडनेन ॥ * ॥
हस्तो यत्नात् पुष्पयोरन्तराले त्वष्ट्रा धार्य्यो मन्दिरादौ निवेशे । हस्ताद्भूमौ यात्यकस्मात्तदासौ कार्य्ये विघ्नं दुःखमाविष्करोति ॥ तालो द्वादशमात्रिकापरिमितस्तालद्वयं स्यात् करः पादोनद्विकरोऽपि किष्कुरुदितश्चापश्चतुर्भिः करैः । क्रोशो दण्डसहस्रयुग्ममुदितो द्वाभ्याश्च गव्यूतिका ताभ्यां योजनमेव भूमिरखिला कोटीशतं योजनैः ॥ सूत्राष्टकं दृष्टिनृहस्तमौञ्जं कार्पासजं स्यादवलम्बसंज्ञम् । काष्ठञ्च सृष्टाख्यमतोऽपि लेख्य- मित्यष्ट सूत्राणि वदन्ति सन्तः ॥ इति वास्तुशास्त्रे राजवल्लभमण्डने मिश्रका लक्षणवर्णनं नाम १ अध्यायः ॥ * ॥
“संग्रामेऽन्धकरुद्रयोस्तु पतितः स्वेदो महेशात् क्षितौ तस्माद्भूतमभूच्च भीतिजननं द्यावापृथिव्यां- महत् । तद्देवै रभसा विगृह्य निहितं भूमावधोवक्त्रकं देवानां रसनाच्च वास्तुपुरुषस्तेनैव पुज्यो बुधैः ॥ प्रासादे भवने तडागखनने कूपे च वापीवने जीर्णोद्धारपुरे च यागभवने प्रारम्भनिर्वर्त्तने । वास्तोः पूजनकं सुखाय कथितं पूजां विना हानये पादौ रक्षसि कं शिवेऽङ्घ्रिकरयोः सन्धी च कोणद्वये ॥ क्षेत्राकृतिर्वास्तुरिहार्च्चनीय- स्त्वेकांशतोभागसहस्रयुक्तः । साधारणोऽष्टाष्टपदोऽपि तेषु चैकाधिकाशीतिपदस्तथैव ॥ * ॥
ग्रामे भूपतिमन्दिरे च नगरे पूज्यश्चतुःषष्टिकै- रेकाशीतिपदैःसमस्तभवने जीर्णे नवाब्ध्यंशकैः । प्रासादेऽथ शतांशकैस्तु सकले पूज्यस्तथा मण्ड्ये कूपे षण्णवचन्द्रभागसहिते १९६ वापीतडागे वने ॥ ईशो मूर्द्ध्नि समाश्रितः श्रवणयोः पर्जन्यनामा दिति- रापस्तस्य गले तदंशयुगले प्रोक्तो जयश्चा- दितिः । उक्तावर्य्यमभूधरौ स्तनयुगे स्यादापवत्सो हृदि पञ्चेन्द्रादिसुराश्च दक्षिणभुजे वामे च नागा- दयः ॥ सावित्रः सविता च दक्षिणकरे वामे द्वयं रुद्रतो मृत्युर्मैत्रगणस्तथोरुविषये स्यान्नाभिपृष्ठे विधिः मेढ्रे शत्रुजयौ च जानुयुगले तौ वह्निरोगौ स्मृतौ पूष्णो नन्दिगणाश्च सप्त विबुधाः कल्प्याः पदोः पैतृकः ॥ * ॥
ईशस्तु पर्ज्जन्यजयेन्द्रसूर्य्याः शत्यो भृशाकाशक एव पूर्व्वै । वह्निश्च पूषा वितथाभिधानो गृहक्षतः प्रेतपतिः क्रमेण ॥ गन्धर्वभृङ्गौ मृगपितृसंङ्गौ द्वारस्थसुग्रीवकपुष्पदन्ताः । जलाधिनाथोऽप्यसुरश्च शेषः स पापयक्ष्मापि च रोगनागौ ॥ मुख्यश्च भल्लाटकुवेरशैला- स्तथैव बाह्ये दितितोऽदितिश्च । द्वात्रिंशदेवं क्रमतोऽर्च्चनीया- स्त्रयोदशैव त्रिदशाश्च मध्ये ॥ प्रागर्य्यमा दक्षिणतो विवस्वान् मैत्रोऽपरे सौम्यदिशाविभागे । पृथ्वीधरोऽसावथ मध्यतोऽपि ब्रह्मार्च्चनीयः सकलेषु मध्ये ॥ आपापवत्सौ शिवकोणमध्ये सावित्रकोऽग्नौ सविता तथैव । कोणे महेन्द्रेन्द्रजयौ तृतीये रुद्रोऽनिलेऽन्योऽपि च रुद्रदासः ॥ ईशानबाह्ये चरकी द्वितीये विदारिका पूतनिका तृतीये । पापाभिधा मारुतकोणके तु पूज्याः सुरा उक्तविधानतस्तु ॥ * ॥
ब्रह्मा वेदपदस्तु तेन समका देवार्य्यमाद्यास्त्वमी कोणेऽष्टौ द्विपदास्तथाष्टमरुतः कोणेऽर्द्धभागाद् बहिः । शेषा एकपदाः सुरास्तु कथिता वेदर्त्तुके-६४ ऽथो नव ब्रह्मा षट्पदिनोऽर्य्यमादिविबुधा ईशादयश्चै- कशः ॥ ब्रह्मा कलांशो वसुतोऽर्य्यमाद्याः कोणेऽष्ट वाह्येऽपि च सार्द्धभागाः । विधातृकोणे द्विपदास्तथाष्टौ शेषाः सुरा एकपदाः शतांशे ॥ * ॥
ब्रह्माजिनांश २४ उदितः शिवतोऽर्य्यमाद्याः कोणेषु सार्द्धपदतोऽपि तथैव चाष्टौ । शेषा द्विभागसमका रविभागकोऽयं पूज्यो रथाश्वगजवाहनकेऽम्बुयन्त्रे ॥ यन्त्रे त्रयोदशपदैरपि पूजनीय- स्तत् पञ्चविंशतिरजो दशतोऽर्य्यमाद्याः । कोणेऽब्धयोऽमरगणा वहिके कलांशा भद्रेऽब्धिकं रविविभागपरे द्धिभागाः ॥ * ॥
द्वात्रिंशत् कमलासनोऽर्य्यममुखाः स्युः सूर्य्य- भागा क्रमात् कोणेऽन्त्येऽष्टसुरा द्विभागसहिता बाह्येषु सार्द्धांशकाः । अष्टौ रामपदाः पुनर्द्विपदकाः षड्भागिनोऽष्टौ सुराः क्षेत्रे षण्णवचन्द्रभागसहिते १९६ स्याद्देवतानां क्रमः ॥ * ॥
वेदांशो विधिरर्य्यमप्रभृतयस्त्रंशा नवस्वष्टके कोणेऽन्त्येऽष्टपदार्द्धगाः परसुराः षड्भागहीने पदे । वास्तोर्नन्दयुगांश ४९ एवमधुनाष्टांशैश्चतुः- षष्टिके सन्धेः सूत्रमितान् सुधीः परिहरेद्भित्तीस्तुलाः स्तम्भकात् ॥ * ॥
रेखाद्वयं कोणगतं विधेय- मंशान्तरेणैव तु कर्णसूत्रात् । यदष्टसूत्रैः कथितं तु पद्मं तत्पीडनात् स्वामिधनप्रणाशः ॥ प्रोक्तं चतुर्विंशतिलाङ्गुलं यत् पादार्द्धेगं हानिकरं प्रजायाः । पड भिस्तु सूत्रैर्मरणाय वज्रं कोण त्रिशूलञ्च रिपोर्भयाय ॥ परीक्ष्य भूमीमवसेचयेत्तां सुपञ्चगव्येन ततो विलेख्या । रेखा सुवर्णन मणिप्रबालैः पिष्टाक्षतैर्वापि पुनस्तदूर्द्धे ॥ द्वात्रि शदंशाः पृथुले च दैर्घ्य कोणेषु वर्ज्या जिनसंख्य २४ भागाः । एतत्पदानां कथितं सहस्रं क्षेत्रञ्च सर्वोत्तममेव वास्तोः ॥ * ॥
मध्ये ब्रह्मा पूजनीयः शतांशै- श्चत्वारिंशद्भिः पदैर्बाह्यवीथी । प्रोक्ता देवा अर्य्यमाद्या अशीत्या मध्ये कोणेऽष्टौ शतं चाष्टषष्ट्या ॥ कोणेऽब्धयो नन्दपदैः सुराश्च शेषाश्च बाह्ये वसुभागिनश्च । वीथी च बाह्ये रविभागयुक्तं शतं पदानां कथितं मुनिन्द्रैः ॥ दुर्गप्रतिष्ठाविषये निवेश तथा महार्च्चासु च कोटिहोमे । मेरौ च राष्ट्रेष्वपि ज्येष्ठलिङ्गे वास्तुः सहस्रेण पदैः प्रपूज्यः ॥ * ॥
त्रिमेखलं शङ्करदिग्विभागे कुण्डं प्रकुर्य्यात् करतो युगास्रम् । होमं सुराणां शतमष्टयुक्तं प्रत्येकमष्टाधिकविंशतिं वा ॥ मध्वाज्यदुग्धैर्दधिशर्कराभ्यां कृष्णैस्तिलैर्व्रीहियवैर्नवान्नैः । पलाशदूर्वाङ्कुरदुग्धवृक्षै- र्होमं तदन्ते सुरपूजनञ्च ॥ ईशे घृतान्नमपरे सघृतोदनञ्च दद्याज्जयाय हरिताम्बरमेव कूर्म्मम् । रत्नानि पिष्टकमयं कुलिशं सुरेन्द्रे धूम्रं वितानमुदितञ्च दिवाकरस्य ॥ गोधूमयुक्तं घृतमेव सत्ये मत्स्यान् भृशे शष्कुलिमन्तरीक्षे । वह्नौ स्रु चं पूष्णि तथैव लाजा दद्यादधर्म्मे चणकौदनञ्च ॥ मध्वन्नञ्च गृहक्षताय यमतो मांसौदनं दापयेत् गन्धर्वे शतपत्रमोदनयुतं भृङ्गेऽजजिह्वां तथा । प्रोक्ता नीलजवा मृगाय पितृतो देयाश्च सन्मो- दकाः पैष्टं कृष्णबलिं तथैव विधिवद्दद्याच्च दौवारिके ॥ सुग्रीवाय च पूपका गणवरे श्वेतप्रसूनं पयः पद्मं वारुणके सुराप्यसुरके तैलं तिलाः शेषके । पापाख्येऽपि च पक्वमांसमुदितं रोगाय सर्वौ- षधीः गोक्षीरं फणिने च मुख्यविबुधे श्रीखण्डभक्षे तथा ॥ भल्लाटाय सुवर्णकं धनपतौ मण्डाज्यदुग्धं तथा शक्तून् पर्वतकेऽदितेस्तु लपिकां दद्याद्दितौ पूरिकाम् । सक्षीरं दधिकं क्रमेणा विहितं त्वापापवत्से तथा- प्यर्य्यम्णेऽरुणचन्दनञ्च पयसा युक्ता तथा शर्करा ॥ सावित्रेऽपि च लड्डुकाश्च सवितुः पूपा गुडा सद्घृता देयं वाथ विवस्वत घृतयुतं दुग्धं तथा मोदकाः इन्द्राख्ये कुसुमस्रगिन्द्रजयके देयं तथा चम्पकं मैत्रे दुग्धघृतञ्च गुग्गुलुयुतो गन्धस्तथा रुद्रके ॥ तत्सिद्धमन्नन्त्वपि रुद्रदासे सद्रत्नमालां पृथिवीधराय । पयस्वलां गाममृतं घटञ्च दद्याद्विधौ स्वर्णमतोऽखिलेभ्यः ॥ सुरास्थिमांसं विहितं चरक्ये तथैव पीतौदनको विदार्य्यै । रक्तौदनैः पूतनिकार्च्चनीया मत्स्यासवेनापि तथैव पापाः ॥ मांसं पक्वं पिलिपिञ्जाय तज्जृम्भायै विहितं सद्यः । स्कन्दाय तन्मदिरायुक्तं चार्य्यम्णे दिशि पूर्व्वादौ ॥ यः पूजयेद्वास्तुमनन्ययुक्ता न तस्य दुःखं भवतीह किञ्चित् । जीवत्यसौ वर्षशतं सुखेन स्वर्गे नरस्तिष्ठति कल्पमेकम् ॥” इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे राजवल्लभे वास्तुलक्षणम् २ अध्यायः ॥ * ॥
“आयर्क्षव्ययतारकांशकविधुं राशिं गृहाद्यं तथा धान्यं सौख्ययशोऽभिवृद्धिरधिका यस्मादतः कथ्यते । आयास्तु ध्वजधूमसिंहशुनका गोरासभेभाः क्रमात् ध्वाङ्क्षस्त्वष्टम आयभेषु विषमाः श्रेष्ठाः सुराणां गृहे ॥ मानं देवगृहादिभूपसदने शास्त्रोक्तहस्तेन तत् गेहे कर्म्मकरस्य नाथकरतः शास्त्रेण देयं गृहे अयो दण्डकराङ्गुलादिमपि ते हस्ताङ्गुलैरंशतः क्षेत्रस्याप्यनुमानतोऽपि नगरे दण्डेन मानं पुरे आयः कल्प्यो हस्तमेयैः करैश्च क्षेत्रे मात्रानिर्म्मिते मातृकाभिः । मध्ये पर्य्यङ्कासने मन्दिरे च देवागारे मण्डपे भित्तिवाह्ये छत्रे देवगृहे द्विजस्य भवने स्याद्वेदिकायां जले विस्तारोच्छ्रयवस्त्रभूषणमठागारेषु शस्तो ध्वजः धूमो वह्न्युपजीविनामपि गृहे कुण्डे च होमो- द्भवे सिंहद्वारनृपालयेऽस्त्रनिचये सिंहश्च सिंहा- सने ॥ चण्डाले शुनको विशान्तु वृषभो हर्म्ये हयानां हितो बानिज्ये धनभोजनस्य भवनेऽथो बाह्यगेहे खरः । वादित्रे स्वरजीविनामपि गृहे शौद्रे गजो योजितो याने स्त्रीगृहवाहने च शयने शस्तो गृहे हस्ति- नाम् ॥ ध्वाङ्क्षः शिल्पितपस्विनां हितकरस्तेषां मुखं नामवत् ध्वाङ्क्षः काकमुखो विडालवदनो धूमो ध्वजो मानुषः । मव पक्षिपदा हरेरिव गलो हस्तौ नरस्येव तु प्राच्याः सृष्टिगताः क्रमेण पतयो ह्यष्टौ च ते सम्मुखाः ॥ * ॥
देयाः सिंहगजध्वजादिवृषभे सिंहध्वजौ कुञ्जरे सिंहो वै ध्वज इष्यते न वृषभोऽन्यत्रापि देयो बुधैः । सिंहो हस्तिवृषालये मृतिकरस्त्वायस्य वक्त्रं गृहं तस्मिन्नेव च वामदक्षिणदिशाद्वारे स आयः शुभः ॥ व्यासे दैर्घ्यगुणेऽष्टभिर्विभजिते शेषो ध्वजाद्या- यको- ऽष्टघ्ने तद्गुणिते च धिष्ट्यभजिते स्यादृक्षमञ्चा- दिकम् । नक्षत्रे वसुभिर्व्ययोऽपि भजिते हीनस्तु लक्ष्मी- प्रद- स्तुल्यायश्च पिशाचको ध्वजमृते संवर्द्धितो राक्षसः ॥ तन्मूले व्ययहर्म्म्यनामसहिते भक्ते त्रिभिस्त्वं शकः स्यादिन्द्रोपमभूपतिक्रमवशाद्देवे सुरेन्द्रो हितः । वेद्यामेव यमस्तु पुण्यभवने नागे तथा भैरवे राजांशो गजवाजियाननगरे राजालये मन्दिरे ॥ * ॥
यावद्गृहर्क्षं गणयेत् स्वधिष्ट्या- त्ताराविभक्ते नवभिश्च शेषाः । बुधैस्तृतीया सकले विवर्ज्ज्या या पञ्चमी सप्तमिका न शस्ता ॥ धिष्ट्यानीह च सप्तशः क्रमतया वह्रेस्तु पूर्व्वा- दितः सृष्ट्या तानि भवन्ति यत्र गृहभं तत्रैव चन्द्रो भवेत् । हानिं पृष्ठगतः करोति पुरतस्त्वायुःक्षयं चन्द्रमाः पार्श्वे दक्षिणवामके शुभकरोऽग्रे देवभूपालये ॥ प्रीतिः स्यात् समसप्तमी च दशमी चैकादशी शोभना दारिद्र्यं युगला करोति मरणं षष्ठी कलिः पञ्चमी । मेषोऽश्वित्रितये हरिस्तु पितृभाच्चापस्त्रये मूलतः शेषैः स्युर्नव राशयः परमते नन्दांशकैस्ते पृथक् ॥ भौमोवृश्चिकमेषयोर्वृषतुले शुक्रस्य राषिद्वयं कन्या युग्मबुधस्य कर्कसदनं चन्द्रस्य सिंहो रवेः । जीवो मीनधनुःपतिर्मृगघटौ मन्दस्य गेहं स्मृतं मित्राण्यर्ककुजेन्दुदेवगुरवोऽन्ये चारयस्ते मिथः दैवर्क्षं श्रुतिपुष्यभेऽश्विभमृग मैत्रानिलं पौष्णभं हस्तादित्यमथोऽनुरन्तकविधी पूर्व्वोत्तरा रुद्रभम् । रक्षोमूलविशाखिकाग्निपितृभं चित्रा धनिष्ठा- द्वयं ज्येष्ठाश्लेषमपीह दैत्यमनुजे मृत्युस्तु दैवे कलिः वैरं चोत्तरफल्गुनीयुगलयोः स्वातीभरण्यो- र्द्वयो- रोहिण्युत्तरषाढयोः श्रुतिपुनर्वस्वोर्विरोधं तथा । चित्राहस्तभयोश्च पुष्यफणिनोर्ज्येष्ठाविशाखा- ख्ययोः प्रासादे भवनासने च शयने नक्षत्रवैरं त्यजेत् ॥ विप्राः कर्कझषालिनो निगदिताः सिंहाजचापा नृपा विट्कन्या मकरो वृषोऽथ वृषला युग्मञ्च कुम्भस्तुला । वर्णेनोत्तमकामिनी च भवनं वर्ज्यं बुधैर्यत्नतः श्रेष्ठा द्वादश नन्दरागगुणतो विप्र क्रमाद्राशयः ॥ अश्वोऽश्विनीशतभयोर्यमपूषि हस्ती छागोऽग्निपुष्य उरगोऽपि विधातृसौम्ये । मूलार्द्रयोः शुनक ओतुरहावदित्ये पूर्व्वा मघासु मत उन्दुरुरेव योनिः ॥ गौर्भद्रोत्तरफल्गुनीत उदिता स्वातौ करे माहिषी व्याघ्रास्त्वाष्ट्रविशाखयोश्च हरिणो ज्येष्ठानु- राधाभयोः । पूषाढश्रवणे कपिर्निगदितो वैश्वाभिजिन्नाकुलं पूभायां वसुभे मृगेन्द्र उदितो वैरं त्यजेल्लोकतः आयर्क्षतारा व्ययमंशकञ्च ह्येकत्र कृत्वा विभजेत् क्रमेण । तिथ्या च वारेण तथैव लग्नैः शेषैस्तु भान्येव भवेयुरङ्कैः ॥ दैर्घ्यं पृथुत्वेन च ताडनीयं तयोर्यदैक्यं पुनरुच्छ्रयेण । शेषेऽधिनाथो वसुभाजितेऽस्मिन् समः प्रशस्तो विषमस्तु नैव ॥ * ॥
वर्गाष्टकस्य पतयो गरुडो विडालः सिंहस्तथैव शुनकोरगमूषकेणाः । मेढाककारच-ट-ताः प-य-शाश्च वर्गा यः पञ्चमः स रिपुरेव बुधैर्विवर्ज्यः ॥ अश्विन्यादिकभत्रयं फणिनिभं चक्रं त्रिनाड्यु- द्भवं ह्येकस्यां वरकन्ययोश्च यदि भं तन्मुत्युदं चांशतः नाडीसेवकमित्रगेहपुरतस्त्वेका शुभा सव्यधा आयादित्रिकपञ्चसप्तनवभिस्त्वङ्गैर्गृहं सौख्यदम् गुणगणं लघुदोषसमन्वितं भवनदेवगृहादिकमिष्यते । जललवेन शिखी बहुतापवा- न्न शममेति गुणैरधिको यतः ॥” इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे राजवल्लभे आयादिलक्षणं ३ अध्यायः ॥ “वापीकूपतडागदेवभवनान्यारामयागादिकं तीर्थानामवगाहनञ्च विधिवत् कन्याप्रदाना- दिकम् । सर्वं पुण्यमिदं नृपः स लभते यः कारयेत् पवते दुर्गं सर्वजनाय शर्म्मजननं विश्राममेकं परम् ॥ सिंहो वैरिपराभवं प्रकुरुते तिष्ठन् गिरौ गह्वरे दुर्गस्थो नृपतिः प्रभूतकटकं शत्रुं जयेत् सङ्गरे । कैलासे नगरं शिवेन रचितं गौर्य्यादिसंरक्षणे दुर्गं पश्चिमसागरे च हरिणाप्येषां किमत्रो- च्यते ॥ भूदुर्गं जलदुर्गमद्रिविषये दुर्गं भवेद्गह्वरे तेषामुत्तममद्रिमूर्द्ध्नि रचितं तद्वैरिणां दुर्गमम् अम्लाद्यैर्घृततोयतैललवणैः काष्ठैस्तृणाद्यैस्तथा यन्त्रोपस्करबाणशस्त्रसुभटैः संपूरयेद्भूमिपः ॥ माहेन्द्रं चतुरस्रमायतपुरं तत् सर्वतोभद्रकं वृत्तं सिंहविलोकनं सुपृतनायत्तं तथा वारुणम् नन्दाख्यञ्च विमुक्तकोणमथ नन्दावर्त्तिस्वस्त्या- कृति प्रोक्त तद्यववज्जयन्तमपि तद्दिव्यं गिरेर्मस्तके पुष्पं चाष्टदलोपमञ्च पुरुषाकारं पुरं पौरुषं स्नेहं कुक्षिषु भूधरस्य कथितं दण्डाभिधं दैर्घ्य- कम् । शात्रं प्राक् सरिता परत्र कमलं याम्ये नदी धार्म्मिकं द्वाभ्यां चैव महाजयञ्च धनदाशायां नदी सौम्यकम् ॥ दुर्गैकेन युतं श्रियाख्यनगरं द्वाभ्यां रिपुघ्नं पुरं त्वष्टास्रं कथयन्ति स्वस्तिकमिति प्रोक्ता गुणा विंशतिः । भूपानां सुखदा यशोऽर्थफलदाः कीर्त्तिप्रतापो- द्भवा लोकानाञ्च निवासतो विरचिताः प्राक्शम्भुनैते गुणाः ॥” इति पुराणां विंशतिगुणाः ॥ * ॥
“वह्नेर्भीतिकरं त्रिकोणनगरं षट्कोणकं क्लेशदं वज्रे वज्रभयञ्च शाकटपुरे रोगस्त्रिशूले कलिः प्रोक्तं तस्करभीतये द्विशकटं कर्णाधिकेऽर्थक्षयो दोषाः सप्त भयावहाः प्रकटिता ये विश्वकर्मो दिताः ॥” इति पुराणां सप्तदोषाः ॥ * ॥
“वक्ष्येऽथो विविधं पुरं मुनिमतं मध्योत्तमं कन्यसं तेषां हस्तसहस्रमन्तिमपुरं मध्यं ततः सार्द्ध- कम् । ज्येष्ठं युग्मसहस्रमेषु चरमं भागाष्टकेनाचितं मध्यं द्वादशभागतः शशिकलं ज्येष्ठं विदध्यात् सुधीः ॥ मार्गाः सप्तदशैव चादिमपुरे हीनं चतुर्भिः पुरं प्रोक्तं कन्यसमेव मार्गनवभिर्दैर्घ्ये तथा विस्तरे ग्रामश्चैव पुरार्द्धतो हि तदनु ग्रामार्द्धतो खेटकं खेटार्द्धेन तु कूटमेव विबुधैः प्रोक्तं ततः खर्व- टम् ॥ हस्तानाञ्च युगाष्टषोडशसहस्रं भूपतीनां पुरं तन्मध्ये दशधा वदन्ति मुनयो वृद्ध्या सहस्रेण तत् । आयामे वसुपादसार्द्धवसुतो भागः प्रशस्तो- ऽधिक- स्त्वेकैकञ्च चतुर्विधं निगदितं कार्य्यं समं कर्णयोः ॥ षट्त्रिंशतः षट् क्रमतो विवृद्ध्या दैवे पुरे चत्वरके क्रमेण । यदृच्छया मानमुशन्ति केचित् प्राकारकोष्ठस्य च भित्तिकायाः ॥ * ॥
पूर्वापरास्याः पुरसम्मुखाश्च देवाः शुभा नोत्तरदक्षिणाश्च । भङ्गं पुरस्यापि पराङ्मुखास्ते कुर्व्वन्ति धात्रर्कजनार्द्दनेशाः ॥ ब्रह्मा विष्णुशिवेन्द्रभास्करगुहाः पूर्वापरास्याः शुभाः प्रोक्तौ सर्वदिशामुखौ शिवजिनौ विष्णुर्विधाता तथा । चामुण्डा ग्रहमातरो धनपतिर्द्वैमातुरो भैरवो देवा दक्षिणदिङ्मुखाः कपिवरो नैरृत्यवक्त्रो भवेत् ॥ मार्गाः सप्तदशाङ्कपञ्चशिखिनो युग्मं पुरात् खर्वटं मार्गाः षोडश सूर्य्यविंशतिकराः कार्य्यास्त्रिधा विस्तरे । प्राकारोदयविंशहस्तमभितो द्वाभ्यां विहीनो- ऽधिको व्यासार्द्धेन तदूर्द्धतश्च कपिशीर्षाण्यष्टमात्रा- न्तरम् ॥ प्राकारेऽपि च कोष्ठका दशकराः सूर्य्येन्द्र- हस्तास्तथा प्रोक्तास्तेन समैव कोणसहिता विद्याधरी मध्यमा । तस्या वाथ सुवृत्तके च विविधं युद्धासनं कार- येत् प्राकारोदयतो विधाय परिखाविस्तार उक्तो बुधैः ॥ विद्याधरीकोष्ठकयोश्च मध्ये बाहुप्रमाणं शररामहस्तम् । पञ्चाधिकं पञ्चकरेण हीन- मिति त्रिधा वास्तुमतो हितञ्च ॥ * ॥
दुर्गोदयं नन्दकरप्रमाणं तिथ्या समं सप्तदशैव केचित् । एकोनविंशं पुथुलं त्रयाणां दिक्कालसूर्य्याष्टकरा वदन्ति ॥ ताम्बूलं फलदन्तगन्धकुसुमं मुक्तादिकं यद्भवेत् राजद्वारसुराग्रतो हि सुधिया कार्य्यं पुरे सर्व्वतः । प्राग्विप्राश्च नृपा हि दक्षिणदिशि स्युः सौम्यतः शूद्रकाः कर्त्तव्याः पुरमध्यतोऽपि बणिजो वैश्वा विचित्रै- र्गृहैः ॥ ईशे रङ्गकराः कुविन्दरजका वह्नौ च तज्जी- विनः प्रोक्ता अन्त्यजचर्म्मकारवरटाः स्युः शौण्डिका राक्षसे । पण्यस्त्रीनिरृतौ च मारुतयुते कोणे न्यसेल्- लुब्धकान् वापीकूपतडागकुण्डमखिलं तोयं तथा वारुणे सिंहद्वारचतुष्टयञ्च खटकीद्वाराणि चाष्टौ तथा कर्त्तव्यानि दृढार्गलानि रुचिरैः कापाटकैः सुदृढैः । कीर्त्तिस्तम्भनृपालयामरगृहैर्हट्टैः सुधानिर्मितै- र्हर्म्म्यैश्चोपवनैर्जलाश्रययुतैः कार्य्यं पुरं शोभ- नम् ॥” इति नगरप्रमाणम् ॥ * ॥
“यन्त्राः पुराणामथ रक्षणाय संग्रामवह्न्यम्बुसमीरणाख्याः । विनिर्म्मितास्ते जयदा नृपाणां भवन्ति पूज्याः सुरया च मांसैः ॥ हस्ता अष्ट च भैरवो नरकरश्चान्द्रो दशाद्यो भवे- द्रुद्रो भीमगजोऽपि भास्करकरैर्युग्मन्तु विश्वैः शिखी । प्रोक्तोऽसौ यमदण्ड एव मुनिभिस्तिथ्या महा- भैरवो ह्यष्टौ शङ्करनिर्म्मिताश्च समरे देवासुरे भैरवे ॥ यन्त्रे चाष्टकरेऽष्टहस्तफणिनीसूर्य्याङ्गुला विस्तरे स्तम्भा मर्कटिका च पञ्जरमतः षट्त्रिंशहस्ता क्रमात् । यष्ट्या पृष्ठविभागतोऽपि रदनैस्तुल्योऽष्टमात्रा- ङ्गुलैः प्रोक्ता कुण्डलवल्लवी च वहितो मध्यादशीत्य- ङ्गुलैः ॥ यष्ट्या दृढां मर्कटिकां विदध्या- ल्लोहस्य कीलेन च चर्म्मणापि । यन्त्रं प्रकुर्य्यादृढकाष्ठकञ्च तन्मानया ज्योतिकया समेतम् ॥ कराङ्गुलैः पञ्जरकस्य दैर्घं केषां मते हस्तमिते च यन्त्रे । याटी कुली वह्निजलानिलाख्या- स्ते लक्षणज्ञैः परिकल्पनीयाः ॥” इति यन्त्राष्टकप्रमाणानि ॥ * ॥
“नीराश्रयं पुण्यवतां विधेयं मध्ये पुरस्यापि तथैव बाह्ये । वाप्यश्चतस्रोऽपि तथैव कूपा- श्चत्वारि कुण्डानि च षट् तडागाः ॥ * ॥
कूपाः श्रीमुखवैजयौ च तदनु प्रान्तस्तथा दुन्दुभि- स्तस्मादेव मनोहरश्च परतः प्रोक्तस्तु चूडा- मणिः । दिग्भद्रोजयनन्दशङ्करमतो वेदादिहस्तैर्मिता विश्वान्तैः क्रमवर्द्धितैश्च कथिता वेदादधः कूपिका ॥ * ॥
वापी च नन्दैकमुखा त्रिकूटा षट्कूटिका युग्ममुखा च भद्रा । जया त्रिवक्त्रा नवकूटयुक्ता- स्त्वर्कैस्तु कूटैर्विजया मता सा ॥ * ॥
सरोऽर्द्धचन्द्रश्च महासरश्च वृत्तं चतुष्कोणकमेव भद्रम् । भद्रैः सुभर्द्रं परिघैकयुग्मं वकस्थलैकद्वयमेव यस्मिन् ॥ ज्येष्ठं मितं दण्डसहस्रकैस्तु मध्यं तदर्द्धेन ततः कनिष्ठम् । ज्येष्ठं करैः पञ्चशतानि दैर्घै- स्तदर्द्धमध्यं तु ततः कनिष्ठम् ॥ * ॥
भद्राख्यकुण्डं चतुरस्रकञ्च सुभद्रकं भद्रयुत द्वितीयम् । नन्दाख्यकं स्यात् प्रतिभद्रयुक्तं मध्ये सुभद्रं परिघं चतुर्थम् ॥ कराष्टतो हस्तशतं प्रमाणं द्वारैश्चतुर्भिः सहितानि कुर्य्यात् । मध्ये गवाक्षश्च दिशो विभागे कोणे चतुष्कास्त्वपि पट्टशालाः ॥ * ॥
गङ्गद्या रवयो हरेश्च दशकं रुद्रा दशैकाकिका दुर्गा भैरवमातृका गणपतिर्वह्नेस्त्रिकं चण्डिका दुर्वासा मुनिनारदस्तु सकला द्वारावती लीलिका लोकाः पञ्च पितामहादिविबुधाः स्युर्मध्यभित्तौ सदा ॥ तस्योर्द्ध्वतः श्रीधरमाडकस्य संदर्शनात् पूर्व्वफलञ्च काश्याः । स्नानाच्च गङ्गाप्लवनस्य पुण्यं कृतं भवेच्चेद्विधिवद्विधिज्ञैः ॥ विधारितं जीवनमेव येन तद्गोपदैकेन समं पृथिव्याम् । स षष्टिसंख्यं च सहस्रवर्षं स्वर्लोकसौख्यान्यखिलानि भुङ्क्ते ॥ ग्रामे वाथ पुरे नरेन्द्रभवने तत्षोडशांशं भवेत् मध्यात् पश्चिमदिक्समाश्रितमिदं दुर्गे भवेद्भूव- शात् । द्वारं दक्षिणवामतश्च पुरतः कार्य्यास्त्रय- श्चत्वराः सर्वं वास्तुगृहादिवासरचना भूपेच्छया कार- येत् ॥” इति सूत्रधारमण्डनविरचिते वास्तशास्त्रे राज वल्लभे प्राकारयन्त्रवापीकूपतडागलक्षणम् ४ अध्यायः ॥ * ॥
“अथो नृपाणां भवनानि वक्ष्ये त्वेकातपत्रावनिपालकस्य । शतञ्च हस्ताष्टसमन्वितञ्च व्यासे गृहं चोत्तममेव तस्य ॥ ये द्वापरे भूमिभुजो बभूवु- स्तेषां गृहं हस्तशतं द्विहीनम् । तत्त्र्यं शभूमीश्वरको नृनाथ- स्त्वष्टाधिकाशीतिकरं गृहं स्यात् ॥ ग्रामैकलक्षद्वयमस्ति यस्य प्रोक्तो महामण्डलिको नरेशः । प्रशीतिहस्तं द्विकरेण हीनं कुर्य्याद्गृहं शोभनमेव तस्य ॥ पञ्चायुतेशो नृपमण्डलीको भवेद्गृहं तस्य कराष्टषष्टिः । सामन्त्यमुख्यो द्व्ययुताधिपोऽसौ तद्गेहमष्टेषु करप्रमाणम् ॥ तद्वेश्म पञ्चाशदपि द्विहीनं सामन्तसंज्ञोऽयुतनाथ एव । तथा तृतीयोऽपि ततो द्विहीनं त्रिंशत्कराष्टाधिकमेव गेहम् ॥ प्रोक्तः प्रवीणैश्चतुराशिकोऽसौ ग्रामा हि यस्यैव सहस्रमेकम् । अष्टाधिकं विंशतिहस्तहर्म्म्यं सिद्ध्यै समस्तानि यथोदितानि ॥ ग्रामाधिपा ये तु शताधिपाश्च ते स्वल्पराष्ट्रा अपि सैनिकाश्च । तेषां गृहा अष्टदशाधिकैश्च करैः समाना मुनिभिर्म्मताश्च ॥ भूपालकार्द्धेन च मन्त्रिगेहं यथाधिकारेण भवन्ति हीनम् । व्यासाद्दशांशाधिकमेव दैर्घं कूर्य्यादथो पञ्चमभागमिष्टम् ॥ गृहं चतुर्हस्तमितं करादि- वृद्ध्या द्विरामान्तमिति प्रमाणम् । ततः परं भूपतिमन्दिराणि यावच्छतं चाष्टकरादियुक्तम् ॥ स्याद्भूमिरेका वसुहस्तगेहे दशाभिवृद्ध्या द्वितया पुनश्च । प्रासाद एवामरभूपयोश्च हर्म्म्याणि लोके मुनिनोदितानि शालाया नवधा च पञ्चकरतो मानञ्च विश्वा- न्तकं भित्तेरेव चतुर्द्दशाङ्गुलमितिर्यावत् सपादं करम् । आगारस्य तु षोडशांशरहितोऽप्यर्द्धेन हीनो- ऽथवा भित्तेर्मानमिदं त्रिधा विरचितं कल्प्यं यथा- योगतः ॥ दैर्घ्ये चन्द्रकलाङ्गुलोत्तमशिला मध्याङ्गुलो नान्तिमा व्यासे दिङ्नवभूभृदु



Correction: