संस्कृत-शब्दकोशः

शिल्पिनी शिल्पिशाला

शिल्पिन्

वाचस्पत्यम्

शिल्पिन् ||‍ त्रि० शिल्पं वेत्त्यधीते वा इनि । १ चित्रादिकर्म- करे अमरः । २ कोलदलौषधौ स्त्री मेदि० ङीप् ।


शब्दकल्पद्रुमः

शिल्पी || [न्] त्रि, (शिल्पं क्रियाकौशलमस्यास्तीति इनि ।)
शिल्पकर्त्ता । (यथा, मनौ । ७ । ७५ । “ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”)
तत्पपर्य्यायः । कारुः २ । इत्यमरः ॥ अस्य विव- रणं शिल्पकारशब्दे द्रष्टव्यम् । शिल्पसम्बन्धी च ॥



Correction: