संस्कृत-शब्दकोशः

शिल्पिशाला शिवक

शिव

वाचस्पत्यम्

शिव ||‍ न० शो—वन् पृषो० । १ मङ्गले अमरः । २ सुखे ३ जले उणादि० । ४ सैन्घवे सामुद्रे च ५ लवणे ६ श्वेतटङ्कणे च राजनि० । ७ मङ्गलवति त्रि० ८ सहादेवे पु० अमरः । एवं ९ मोक्षे १० कीलग्रहे ११ वालुके १२ गुग्गुलौ १३ वेदे १४ पुण्डरीकवृक्षे १५ कृष्णधुस्तूरे १६ पारदे राजनि० । १७ देवे शब्दर० १८ लिङ्गे उणादि० १९ विष्कुम्भादिषु मध्ये विंशतितमे योगे च पु० ज्यो० त० । “शिवमद्वैतं तुरीयं मन्यन्ते” श्रुत्युक्ते २० अद्वैतब्रह्मणि न० ।


शब्दकल्पद्रुमः

शिवं || क्ली (शी + “सर्व्वनिघृष्वरिष्वलष्वशिव- पद्वप्रह्वेष्वा अतन्त्रे ।” उणा० १ । १५३ । वन् प्रत्ययेन साधु ।)
मङ्गलम् । इत्यमरः ॥ (यथा, रघुः । १६० । “उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीनाञ्च प्रतिहर्त्ता त्वमापदाम् ॥” सुस्वम् । जलम् । इत्युणादिकोषः ॥ मैन्धवम् । समुद्रलवणम् । श्वेतटङ्कणम् । इति राज- निर्घण्टः ॥ (मङ्गलवति, त्रि ॥ यथा, महा- भारते । १ । २०८ । ३६ । “तत्र रम्ये शिवे देशे कौरवस्य निवेशनम् ॥”)


शब्दकल्पद्रुमः

शिवः || पुं, (शी + “सर्वनिघृष्वेति ।” उणा० १ । १५३ इति वन्प्रत्ययेन साधुः ।)
ब्रह्मणः संज्ञाविशेषः । तस्य व्युत्पत्तिर्यथा । शिवं कल्याणं विद्यतेऽस्य शिवः । श्यति अशुभमिति वा । शेरतेऽवतिष्ठन्ते अणिमादयोऽष्टौ गुणा अस्मिन् इति वा शिवः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । शम्भुः २ ईशः ३ पशुपतिः ४ शूली ५ महेश्वरः ६ ईश्वरः ७ सर्व्वः ८ ईशानः ९ शङ्करः १० चन्द्रशेखरः ११ भूतेशः १२ खण्डपरशुः १३ गिरीशः १४ गिरिशः १५ मृडः १६ मृत्युञ्जयः १७ कृत्ति- वासाः १८ पिनाकी १९ प्रमथाधिपः २० उग्रः २१ कपर्द्दी २२ श्रीकण्ठः २३ शितिकण्ठः २४ कपालभृत् २५ वामदेवः २६ महादेवः २७ विरूपाक्षः २८ त्रिलोचनः २९ कृशानरेताः ३० सर्व्वज्ञः ३१ धूर्ज्जटिः ३२ नीललोहितः ३३ हरः ३४ स्मरहरः ३५ भर्गः ३६ त्र्यम्बकः ३७ त्रिपुरान्तकः ३८ गङ्गाधरः ३९ अन्धकरिपुः ४० क्रतुध्वंसी ४१ वृषध्वजः ४२ व्योमकेशः ४३ भवः ४४ भीमः ४५ स्थाणुः ४६ रुद्रः ४७ उमापतिः ४८ । इत्यमरः ॥ वृषपर्व्वा ४९ रेरिहाणः ५० भगाली ५१ पांशुचन्दनः ५२ दिगम्बरः ५३ अट्टहासः ५४ कालञ्जरः ५५ पुरद्विट् ५६ वृषाकपिः ५७ महाकालः ५८ वराकः ५९ नन्दिवर्द्धनः ६० हीरः ६१ वीरः ६२ खरुः ६३ भूरिः ६४ कटप्रूः ६५ भैरवः ६६ ध्रुवः ६७ शिविपिष्टः ६८ गुडाकेशः ६९ देव- देवः ७० महानटः ७१ । इति जटाधरः ॥ तीव्रः ७२ खण्डपर्शुः ७३ पञ्चाननः ७४ कण्ठे- कालः ७५ भरुः ७६ भीरुः ७७ भीषणः ७८ कङ्कालमाली ७९ जटाधरः ८० व्योमदेवः ८१ सिद्धदेवः ८२ धरणीश्वरः ८३ विश्वेशः ८४ जयन्तः ८५ हररूपः ८६ सन्ध्यानाटी ८७ सुप्रसादः ८८ चन्द्रापीडः ८९ शूलधरः ९० वृषाङ्कः ९१ वृषभध्वजः ९२ भूतनाथः ९३ शिपिविष्टः ९४ वरेश्वरः ९५ विश्वेश्वरः ९६ बिश्वनाथः ९७ काशीनाथः ९८ कुलेश्वरः ९९ अस्थिमाली १०० विशालाक्षः १०१ हिण्डी १०२ प्रियतमः १०३ विषमाक्षः १०४ भद्रः १०५ ऊर्द्ध्वरेताः १०६ यमान्तकः १०७ नन्दीश्वरः १०८ अष्टमूर्त्तिः १०९ अर्घीशः ११० खेचरः १११ भृङ्गीशः ११२ अर्द्धनारीशः ११३ रसनायकः ११४ । इति शब्दरत्नावली ॥ उः ११५ पिनाक- पाणिः ११६ फणधरधरः ११७ कैलासनिके- तनः ११८ हिमाद्रितनयापतिः ११९ । इति कविकल्पलता ॥ तस्य सहस्रनामानि श्रीमहा- भारते अनुशासनपर्वणि १७ अध्याये द्रष्ट- व्यानि ॥ * ॥
अस्य कपालिनामककारणं यथा, — ईश्वर उवाच । “आसीत्तत्र वरारोहे ब्रह्मणस्तु शिरोऽपरम् । पञ्चमं शृणु सुश्रोणि जातं काञ्चनसुप्रभम् ॥ ज्वलन्तं परमं शीर्षं जातं तस्य महात्मनः । स एवमब्रवीद्देवि ! जन्म जानामि ते ह्यहम् ॥ अतः क्रोधपरीतेन संरक्तनयनेन च । वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ॥ ब्रह्मोवाच । यस्मादनपराधेन शिरश्छिन्नं त्वया मम । तस्माच्छापसमायुक्तः कपालीत्वं भविष्यसि ॥” इति मात्स्ये १८५ अध्यायः ॥ * ॥
अथ शिवमन्त्राः । तत्र एकाक्षरमन्त्रो यथा, —
“सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् । प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो मणिः ॥” हौ ॥ * ॥
अस्य पूजा । प्रातःकत्यादिमातृकान्यासं प्राणा- यामञ्च विधाय श्रीकण्ठादिन्यासं मातृका- स्थानेषु कुर्य्यात् । ततः सामान्यपूजापद्धत्युक्त- पीठन्यासं कृत्वा पीठशक्तीर्न्यसेत । ततः ऋष्यादिन्यामः । ततः कराङ्गन्यासौ । ततः ईशानाद्याः पञ्चमूर्त्तीर्न्यसेत् । शूद्रस्तु एतत्पर्य्यन्तं न्यासं कृत्वा ध्यायेत् । अन्यत्रानधिकारात् । तत ऊर्द्ध्वप्राग् दक्षिणोत्तरपश्चिमेषु मुखेषु ईशा- नस्य पञ्चकलाः पञ्च ब्रह्म ऋचः पदादिकाः प्रणावाद्या नमोऽन्ता न्यसेत् । ततः पूर्वपश्चिम- दक्षिणोत्तरेषु तत्पुरुषस्य चतस्रः कला विन्य- सेत् । ततो हृदये ग्रीवायां अंशद्वये नाभौ कुक्षौ पृष्ठे वक्षसि अघोरस्याष्टौ कलाः न्यसेत् । ततो गुह्ये अण्डकोषे ऊरुद्वये जानुद्वये जङ्घा- द्वये कुक्षिद्वये कट्यां पार्श्वयोः वामदेवस्य त्रयोदशकलाः विन्यसेत् । ततः पार्श्वयोः स्तनयोर्नासिकायां मूर्द्ध्नि बाहुयुग्मे सद्यो जातस्याष्टौ कला न्यसेत् । ततः पञ्चाङ्गुलीषु ईशानाद्याः पञ्च ऋचो न्यसेत् । एवं मूर्द्धास्य हृदयगुह्यपादेष्वेता ऋचो न्यसेत् । ततोऽङ्ग- न्यासान्तरं कुर्य्यात् । एवं विन्यस्य ध्यायेत् । “मुक्तापीतपयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभि- स्त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटि- प्रभम् । शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानममिताकल्पोज्ज्वलाङ्गं भजे ॥” एवं ध्यात्वा मानसैः संपृज्य अर्घ्यस्थापनं कृत्वा शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाह- नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण- पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा- पयेत् । अस्य पुरश्चरणं पञ्चलक्षजपः ॥ १ ॥ * ॥
अस्याष्टाक्षरमन्त्रो यथा, —
“षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ॥” ह्रॐ ॐ नमः शिवाय ह्रीँ । अस्य पूजा । प्रातः- कृत्यादिशैवोक्तं पीठमन्वन्तं न्यासं विधाय ऋष्यादिन्यासकराङ्गन्यासान् प्राणायामञ्च कृत्वा ध्यायेत् । “बन्धुकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं हस्तैः शूलं कपालं वरदमभयदं चारुहासं भजामि । वामोरूस्तम्भगायाः करतलविलसच्चारुरक्तोत्- पलाया हस्तेनाश्लिष्टदेहं मणिमयविलसद्भूषणायाः प्रियायाः ॥” एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वा शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाह्य पञ्च- पुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां कृत्वा धूपदानादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं चतुर्द्दशलक्षजपः ॥ २ ॥ * ॥
तस्या- ष्टाक्षरमन्त्रान्तरं यथा, —
“तारो माया वियद्बिन्दुमनुस्वारविभूषितम् । पञ्चाक्षरममायुक्तो वसुवर्णो मनुर्म्मतः ॥” ॐ ह्रीँ हौँ नमःशिवाय । अस्य पूजा । प्रातः- कृत्यादिशैवोक्तपीठन्यासान्तं विधाय पूर्ववदृष्या- दिन्यासं कराङ्गन्यासौ च कृत्वा ध्यायेत् । “वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसं भालोद्यन्नेतमीशं स्मितमुखकमलं दिव्यभूषाङ्ग- रागम् । वामोरुन्यस्तपाणेररुणकुवलयं संदधत्याः प्रियाया- श्चण्डोत्तुङ्गस्तनाग्रे न्निहितकरतटं वेदटङ्केऽष्ट- हस्तम् ॥” एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वा पीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्चपुष्पा- ञ्जलिदानपर्य्यन्तं विधाय आवरणपूजां कृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणमष्टलक्षजपः ॥ ३ ॥ * ॥
अथास्य मृत्यु- ञ्जयाख्यमन्त्रः । “तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः । त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ॥” ॐ जुँ सः । अस्य पूजा । प्रातःकृत्यादिशैवोक्त- पीठन्यासान्तं विधाय ऋष्यादिन्यासं कराङ्ग- न्यासौ च कृत्वा ध्यायेत् । “चन्द्रार्क्काग्निविलोचनं स्मितमुखं पद्मद्वयन्तः- स्थितं मुद्रापाशमृगाक्षसूत्रविलसत्प्राणिं हिमांशु- प्रभम् । कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥” एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वा पीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वावाह- नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण- पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा- पयेत् । अस्य पुरश्चरणं लक्षत्रयजपः ॥ ४ ॥ * ॥
अथास्यापरद्वादशाक्षरमृत्युञ्जयमन्त्रः । “मृत्युञ्जयं समुच्चार्य्य पालय द्वितयं वदेत् । मृत्युञ्जयं समुच्चार्य्य पुनरेव विलोमतः ॥ द्वादशाक्षरोऽयं मन्त्रः स्यात् मृत्युञ्जयाभिधो- ऽपरः ।” ॐ जुँ सः पालय पालय ॐ जुँ सः । अस्य ध्यानपूजादिकं सर्वं पूर्ववत् ॥ ५ ॥ * ॥
अस्य द्वाविंशत्यक्षरमन्त्रः । “प्रणवो हृदयं पश्चात् ततो भगवते पदम् । ङेऽन्तञ्च दक्षिणामूर्त्तिं मह्यं मेधामुदीरयेत् । प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ॥” ॐ नमो भगवते दक्षिणामूर्त्तये मह्यं मेघां प्रयच्छ स्वाहा । अस्य पूजा । प्रातःकृत्यादि- शैवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कराङ्गन्यासौ च कृत्वा ध्यायेत् । “वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्वलम् । गारुत्मतमयैः पत्रैर्विचित्रैरुपशोभितम् ॥ नवरत्नमहाकल्पैर्लम्बमानैरलङ्कृतम् । विचिन्त्य वटमूलस्थं चिन्तयेल्लोकनायकम् ॥ स्फटिकरजतवर्णन्मौक्तिकीमक्षमाला- ममृतकलसविद्याज्ञानमुद्राः कराब्जैः । दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्त्तिमीडे ॥” एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनादि- शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि- पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां कृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं लक्षजपः ॥ ६ ॥ * ॥
अथास्य मन्त्रान्तरम् । “अग्निसम्बर्त्तकादित्यरानिलौ षष्ठबिन्दुमत् । चिन्तामणिरिति ख्यातं बीजं सर्व्वसमृद्धिदम् ॥” र-क्ष म-र य-औ ऊँ ॥ प्रपञ्चसारे । “अनलक-ष-मरेफ-प्राणसत्यान्तवाम- श्रुतिहिमरुचिखण्डैर्म्मण्डितो मन्त्रराजः ।” अस्य पूजा । प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कराङ्गन्यासौ च कृत्वा ध्यायेत् । “नीलप्रबालरुचिरं विलसत्त्रिनेत्रं पाशारुणोत्पलकपालकशूलहस्तम् । अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रणमामि रूपम् ॥” एवं ध्यात्वा मानसैः संपूज्यार्घ्यं संस्थाप्य शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि- पञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरणपूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं लक्षजपः । अयं अर्द्धनारी- श्वरः ॥ ७ ॥ * ॥
“पार्श्वो वह्निसमारूढस्तारवानाद्यमीरितम् । धान्तो वह्निसमारूढस्तूर्य्यस्वरसमन्वितः ॥ बिन्दुमांस्तु द्वितीयः स्यात् टान्तः सर्गी तृती- यकः । नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः ॥” प्रमाणान्तरम् । “लोहितोऽग्न्यासनः सत्यो बिन्दुमान् प्रय पुनः । द्वितीया वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ॥ तृतीया लाङ्गली सर्गी मन्त्रो बीजत्रयात्मकः । नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः ॥” प्रॐ न्रीँ ठः इति मन्त्रः । अस्य पूजा । प्रातः कृत्यादिशैवोक्तपीठन्यासान्तं कृत्वा ऋष्यादि- न्यासं कराङ्गन्यासौ च विधाय ध्यानं कुर्य्यात् । “बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्रैः कृतशेखरं जपवटीं शूलं कपालं करैः । खट्टाङ्गं विधृतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥” एवं ध्यात्वा मानसैः संपूज्य अर्घ्यस्थापनादि- शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाह- नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण- पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा- पयेत् । अस्य पुरश्चरणं त्रिलक्षजपः । अयं नीलकण्ठः ॥ ८ ॥ * ॥
अस्याष्टाक्षरमन्त्रो यथा—
“तारो हृन्नीलकण्ठाय मन्त्रश्चाष्टाक्षरः परम् । ॐ नमो नीलकण्ठाय । अस्य पूजादिकं सर्व्वं पूर्व्ववत् ॥ ९ ॥ * ॥
अस्य पञ्चाक्षरमन्त्रः षड- क्षरमन्त्रश्च यथा, —
“हृदयं वपरं साक्षिन् लान्तोऽनन्तान्वितो मरुत् । पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥” नमः शिवाय । ॐ नमः शिवाय । अस्य पूजा । प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं न्यासं विधाय ऋष्यादिन्यासं कुर्य्यात् । ततो मूर्त्तिन्यासः । ततः कराङ्गन्यासौ । ततो गोलकन्यासः । ततो व्यापकन्यासं प्राणायामञ्च कृत्वा ध्यायेत् । “ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रा- वतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्त प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणेर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनैत्रम् ॥” एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वा शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि- पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां कृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं षट्त्रिंशल्लक्षजपः ॥ १० ॥ * ॥
अथास्य त्र्यक्षरमन्त्रः । “अर्घोशो वह्निशिखरो लान्तस्थो दान्त ईरीतः फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ॥” ऊर्द्ध्व फट् इति मन्त्रः । अस्य पूजा । प्रातः- कृत्यादिशैवोक्तपीठन्यासान्तं विधाय ऋष्यादि- न्यासं कराङ्गन्यासौ च कृत्वा ध्यायेत् । “चण्डेश्वरं रक्ततनुं त्रिनेत्रं रक्तांशुकाढ्यं हृदि भावयामि । टङ्कं त्रिशूलं स्फटिकाक्षमालां कमण्डलुं विभ्रतमिन्दुचूडम् ॥” एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनादिशैवो क्तपीठपूजान्तं विधाय ठमिति बीजेन मूर्त्तिं संकल्प्य पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदान- पर्य्यन्तं विधायावरणपूजां कृत्वा धूपादिविसर्ज्ज- नान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं त्रिलक्षजपः । अयं चण्डेश्वरः ॥ ११ ॥ इति तन्त्रसारे शिवमन्त्राः ॥ * ॥
* ॥
विष्णुशिवयोर- भेदो यथा, — वराह उवाच । “शिवो मे दक्षिणं स्थानं तिष्ठते विगतज्वरः । लोकानां प्रवरः श्रेष्ठः सर्व्वलोकवरो हरः ॥ तं ये विन्दन्ति ते देवि ! नूनं मामेव विन्दति । ये मां विन्दति देवेशि ! ते विन्दन्ति शिवं परम् ॥ अहं यत्र शिवस्तत्र शिवो यत्र वसुन्धरे । अहं तत्रापि तिष्ठामि आवयोर्नान्तरं क्वचित् ॥ शिवं यो वन्दते भूमे ! स हि मामेव वन्दते । लभते पुष्कलां सिद्धिमेवं यो वेत्ति तत्त्वतः ॥” इति वाराहे शालग्रामक्षेत्रमाहात्म्यवर्णननामा- ध्यायः ॥ * ॥
देवीविष्णुशिवानामभेदो यथा, —
“अयं नारायणो गौरी जगन्माता सनातनः । विभज्य संस्थितो देवः स्वात्मनं बहुधेश्वरः ॥ न मे विदुः परं मत्त्वं देवाद्या न महर्षयः । एकोऽयं देवदेवात्मा भवानी विष्णुरेव च ॥ अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥” इति कौर्म्मे १४ अध्यायः ॥ * ॥
शिवनिन्दानिषेधो यथा, —
“परात् परतरं यान्ति नारायणपरा जनाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ ध्यानं होमस्तपस्तप्तं ज्ञानं यज्ञादिको विधिः तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्दन्देवमीशानं स याति नरकायुतम् ॥ तस्मात् सा परिहर्त्तव्या निन्दा पशुपतेर्द्विज । कर्म्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः ॥” इति कौर्म्मे २५ अध्यायः ॥ * ॥
तस्य प्रलयकारकत्वं यथा, —
“गते परार्द्धद्वितये काले लोकप्रकालकः । कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलं मतिम ॥ आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः । दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ तमावेश्य महादेवो भगवान्नीललोहितः । करोति लोकसंहारं भीषणं लोकमाश्रितः ॥ प्रविश्य मण्डलं घोरं कृत्वासौ बहुधा पुनः । निर्द्दहत्यखिलं लोकं सप्तमूर्त्तिस्वरूपधृक् ॥ स दग्ध्वा सकलं सत्त्वमस्त्रं ब्रह्मशिरो महत् । देवतानां शरीरेषु क्षिपत्यखिलदाहकः ॥ दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा । एषा सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः शिवः कपालैर्द्देवानां कृतस्रग्वरभूषणः । आदित्यचन्द्रादिगणैः पूरयन्रोममण्डलम् ॥ सहस्रनयनो देवः सहस्राकृतिरीश्वरः । सहस्रहस्तचरणः सहस्रार्च्चिर्म्महाभुजः ॥ दंष्ट्राकरालवदनः प्रदीप्तानललोचनः । त्रिशूलं कृत्तिवसनो योगमैश्वरमास्थितः ॥ पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् । करोति ताण्डवं देवमालोक्य परमेश्वरः ॥ पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गला । योगमास्थाय देवस्य देहमायाति शूलिनः ॥ स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् । याति स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु । गुणैरनेकैः पृथिवी विलयं याति वारिषु ॥ सवारितत्त्वं सगुणं ग्रसते हव्यवाहनः । तेजःस्वगुणसंयुक्तं वायौ संयाति संक्षयम् ॥ आकाशे सगुणो वायुः प्रलयं याति संक्षयम् । भूतादौ च तथाकाशं लीयते गुणसंयुतम् ॥ इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम् । वैकारिके देवगणा प्रलयं यान्ति सत्तमाः ॥ वैकारिकास्तेजसश्च भूतादिश्चेति सत्तमाः । त्रिविधोऽयमहङ्कारो महते प्रलयं व्रजेत् ॥ महान्तमेभिः सहितं ब्राह्मणममितौजसम् । अव्यक्तं जगतो योनिः संहरेदेकमव्ययः ॥ एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः । वियोजयत्यथान्योन्यं प्रधानं पुरुषं परम् ॥ प्रधानपुंसोरजयोरेष संहार ईरितः । महेश्वरेच्छाजनितो न स्वयं विद्यते लयः । गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते । प्रधानं जगतो योनिराद्यतत्त्वमचेतनम् ॥ कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः । गीयते मुनिभिः साक्षी महानेकः पितामहः ॥ एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा । प्रधानञ्च विशेषान्तं दहेद्रुद्र इति श्रुतिः ॥ योगिनामथ सर्वेषां ज्ञानविन्यस्तचतसाम् । आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः ॥” इति कौर्म्मे उपविभागे ४३ अध्यायः ॥ * ॥
ब्रह्मविष्णुशिवानामभेदो यथा, — श्रीभगवानुवाच । “न ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा । न चाहं युवयोर्भिन्नो ह्यभिन्नत्वम् सनातनम् ॥ प्रधानस्याप्रधानस्य भागाभागस्य रूपिणः । ज्योतिर्म्मयस्य भागो मेऽनेकोऽनेकोऽहमंशकः ॥ कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः । अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ चिन्तयन् स्वात्मनात्मानं सम्भवं कुरु चात्मनि । एकत्वं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु ॥ शिरोग्रीवादिभेदेन यथैवैकस्य धर्म्मिणः । अङ्गानि मे तथैकस्य भागत्रयमिदं हर ॥ यज्ज्योतिरग्र्यं स्वपरप्रकाशं कूटस्थमव्यक्तमनन्तरूपम् । नित्यञ्च दीर्घादिविशेषणाद्यै- र्हीनं परं तच्च वयं न भिन्नाः ॥” इति कालिकापुराणे ११ अध्यायः ॥ अपि च । “ततो ब्रह्मा च शारीरं त्रिधा चक्रे महेश्वर । प्रधानेच्छाबलाच्छम्भो त्रिगुणं त्रिगुणीकृतम् ॥ तदूर्द्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः । पद्मकेशरगौराङ्गकायो ब्रह्मा महेश्वर ॥ तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भजः । शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः ॥ अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः । स्फटिकाभ्रसमः कायः शुक्लः स चन्द्रशेखरः ॥ ईशस्ततो ब्रह्मकाये सृष्टिशक्तिं न्ययोजयत् । स्वयमेवाभवत् सृष्टा ब्रह्मरूपेण लोकभृत् ॥ स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययो- जयत् । महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥ स्थितिकर्त्ता भवेद्विष्णुरहमेव महेश्वरः । सर्व्वशक्तिनियोगेन सदा तदूपता मम ॥ अन्तशक्तिं तथा काये शाम्भवे संन्ययोजयत् । अन्तकर्त्ता भवेच्छम्भुः स एव परमेश्वरः ॥ ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते । ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः ॥ सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः । ब्रह्मा विष्णुः शिवश्चेति संज्ञामपि पृथक् पृथक् ॥ अतस्त्वञ्च विधाता च तथाहमपि न पृथक् । एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् ॥” इति तत्रैव १२ अध्यायः ॥ * ॥
मार्कण्डेय उवाच । “ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे । ववृधे तोयराशिस्थ ब्रह्माण्डञ्च यथा पुरा ॥ तन्मध्ये पद्मगर्भाभं ब्रह्माणं जगतः पतिम् । ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थञ्च पृथग्गतम् शरीरिणं स ददृशे ब्रह्माण्डान्तर्गतं मुहुः । चतुर्भुजं प्रकाशन्तं ज्योतिर्भिः कमलासनम् ॥ तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श स । ऊर्द्ध्वमध्यान्तभागैस्तु ब्रह्मविष्णुशिवात्मकम् ॥ अथोर्द्धभागो वपुषो ब्रह्मत्वमगमत्तथा । मध्यस्तदा विष्णुभूतो ददर्शान्तस्य शम्भुताम् ॥ एकमेव शरीरन्तु त्रिधाभूतं मुहुर्म्मुहुः । हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत् ॥ कदाचित् वैष्णवं कायं ब्राह्म्ये काये लयं ब्रजेत् । ब्राह्म्यं तथा वैष्णवे च शाम्भवं वैष्णवे तथा ॥ शाम्भवं वैष्णवे काये ब्राह्म्ये चाप्यथ शाम्भवम् । गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्म्मुहुः ॥ ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् । परमात्मनि गच्छन्तं लीनतां तद्वपुश्च यत् ॥” इति कालिकापुराणे १३ अध्यायः ॥ * ॥
अस्य शरभरूपधारणकारणं यथा, —
“इति तेषां निगदतां श्रुत्वा वाक्यं जनार्द्दनः । उवाच शङ्करं देवं ब्रह्माणञ्च विशेषतः ॥ यत्कृते देवताः सर्व्वाः प्रजाश्च सकला इमाः । प्राप्नुवन्ति महद्दुःखं शीर्य्यते सकलं जगत् ॥ वाराहं सकलं कायं त्यक्तुमिच्छामि शङ्करः । त्वं त्याजयस्व तत् कायं यत्नात्मा शङ्कराधुना ॥ त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्वरहरं मुहुः । आप्यायन्तु तदा देवाः शङ्करो हन्तु पोत्रिणम् ॥ वासुदेवोऽपि तान् सर्व्वान् विसृज्य त्रिदशां- स्तदा । वाराहं तेजसा हर्त्तुं स्वयं ध्यानपरोऽभवत् ॥ शनैः शनैर्यदा तेज आहरत्येष माधवः । तदा देहन्तु वाराहं सत्त्वहीनं व्यजायत ॥ तेजोहीनं यदा देहं ज्ञातं सर्व्वैरथामरैः । आससाद महादेवो यज्ञवाराहमद्भुतम् ॥ ब्रह्माद्यास्त्रिदशाः सर्व्वे महादेवमुपापतिम् । अनुजग्मुस्तदा तेज आधातुं स्मरनाशने ॥ ततः सर्व्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे । आदधे तेन बलवान् सोऽतीव समजायत ॥ ततः शरभरूपी स तत्क्षणाद्गिरिशोऽभवत् । ऊर्द्धाधोभागतश्चाष्टपादयुक्तः सुभैरवः । द्विलक्षयोजनोच्छ्रायः सार्द्धलक्षकविस्मृतः ॥” इति कालिकापुराणे २९ अध्यायः ॥ अस्य विवाहो यथा, — ईश्वर डवाच । “हिताय सर्व्वजगतां सम्भोगायात्मनस्तथा । दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये ॥ साहाय्यं तत्र कुर्वन्तु भवन्तो मम सांप्रतम् । मदर्थे तनयां कालीं याचन्तान्तु हिमाचलम् ॥ मार्कण्डेय उवाच । हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् । तेन संपूजितास्ते तु प्रोचुस्ते मुनयो गिरिम् ॥ यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः । शापानुग्रहणे शक्तो य एको जगतां पतिः ॥ यः संहरति सर्व्वाणि जगन्ति प्रलयोद्भवे । यो विभूतिप्रदो भक्ते नानारूपो मनोहरः ॥ स ते दुहितरं कालीं भार्य्यामादातुमिच्छति । यदि पश्यति त्वद्योग्यं वरं त्वं दुहितुः समम् । तदा प्रयच्छ तनयां कालीं शशिभृते गिरे ॥ मार्कण्डेय उवाच । इत्युक्तस्तैर्गिरिपतिर्वरं यद्धृदयस्थितम् । दुहितुश्च प्रियं ज्ञात्वा प्राप्यं मुदमगात्तदा ॥ दास्यामि सम्भवे पुत्त्रीं युष्माभिः प्रार्थित- स्त्वहम् । पूर्व्वमेव तपस्तप्त्वा तयेशः पतिरीहितः ॥ धातुर्नियोजनमिदं कोऽन्याथा कर्त्तुमुत्सहेत् । कोऽन्यः प्रार्थयितुं शक्तः सुतां मम विना हरात् ॥ हरेणानुगृहीता या तामन्यः कः समुत्सहेत् । हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति ॥ इत्युक्त्वा मेनया सार्द्धं सुतां दातुञ्च शम्भवे । अङ्गीकृत्य विसृष्टास्ते मुनयोऽगुर्महेश्वरम् ॥ ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः । शैलराजो यदाचष्ट तदूचुर्मदनारये ॥ हिमवांस्तनयां दातुं तुभ्यमुत्सहते हर । यदिदानीं त्वया कर्त्तुं युज्यते क्रियतान्तु तत् ॥ अस्मांश्चाप्पनुजानीहि हर गन्तुं निजास्पदम् । सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्ट- वान् ॥ यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन् ॥ कालीविवाहदिवसे यूयमायात मां प्रति । इति चापि हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः ॥ अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् । समयं कारयामास विवाहाय हरो गिरिम् ॥ माधवे मासि पञ्चम्यां सितपक्षे गुरोर्द्दिने । चन्द्रे चोत्तरफल्गुन्यां भरण्यादौ स्थिते रवौ ॥ आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः । हरेण चिन्तिताः सर्व्वे तथा ब्रह्मादयः सुराः ॥ तथा च सर्व्वे दिक्पाला मुनयो ये तपोधनाः । शच्या सह तदा शक्रो ब्रह्मान्याद्यास्तु मातरः ॥ नारदश्च गतस्तत्र देवषिर्ब्रह्मणः सुतः । एतैः परिकरैः सार्द्धं गणैराप्यायितः स्वकैः । कन्याविवाहविधिना गिरिपुत्त्रीं हरोऽग्रहीत् ॥ विवाहे गिरिणा शम्भोः सर्पा येऽष्टौ तनौ स्थिताः । ते जाम्बूनदसन्नद्धा अलङ्कारास्तदाभवन् ॥ द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः । शिरःस्थितश्चन्द्रखण्डः शोचिषा ज्वलितोऽभवत् ललाटनेत्रमभवत्तढा रत्नं महार्घ्यकम् । विचित्रवसनं व्याघ्रकृत्तिरासौत्तदा द्विजाः ॥ विभूतिलेपोऽभूत्तस्य सुगन्धिमलयोद्भवः । चारुरूपो हरस्तत्र बभूवाद्भुतदर्शनः ॥ ततो देवाः सगन्धर्व्वाः सिद्ध्वा विद्याधरोरगाः । विस्मयं परमं प्रापुर्हरं दृष्ट्वा तथाविधम् । हिमवान् मुदितश्चाभूत् सहपुत्त्रैश्च मेनया । ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम् ॥ इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम् ॥ सर्व्वं शिवकरं यस्माद्भस्माद्यस्याभवत् सुराः । तस्मात् शिवोऽयं लोकेषु नास्मादन्योऽधिकः शिवः ॥ महेश्वरसमायुक्तमीदृशं यः स्मरेद्धृदा । सततं तस्य कल्याणं वाञ्छितञ्च भविष्यति ॥ एवं काली महामाया योगनिद्रा जगत्प्रसूः । पूर्व्वं दाक्षायणी भूत्वा पश्चात् गिरिसुताभवत् स्वयं समर्थापि सती काली सम्मोहितुं हरम् । तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा । एवं सम्मोहयामास कालिका चन्द्रशेखरम् ॥ इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा । हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम् ॥” इति कालिकापुराणे ४३ ध्यायः ॥ * ॥
अस्य गणा यथा, — पुलस्त्य उवाच । “हरोऽपि शम्बरे याते समाहूयाशु नन्दिनम् । प्राहामन्त्रय शैलादौ ये स्थितास्तव शासने ॥ ततो महेशवचनान्नन्दी सर्व्वगणाधिपः । उपस्पृश्य जलं धीमान् सस्मार गणनायकान् ॥ नन्दिना संस्मृताः सर्व्वे गणनाथाः सहस्रशः । समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदशेश्वरम् ॥ आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः । सर्व्वान्निवेदयामास शङ्कराय महात्मने ॥ नन्द्युवाच । यानेतान् पश्यसि शम्भो त्रिनेत्रान् जटिलान् शुचीन् । एते रुद्रा इति ख्याताः कोट्य एकादशैव च ॥ वानरास्यान् पश्यसि यान् शार्द्दूलसमविक्र- मान् । एते वै द्वारपालास्ते मन्नामानो यशोधनाः ॥ षण्मुखान् पश्यसि यांश्च शक्तिपाणीन् शिखि- ध्वजान् । षट् च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमार- कान् ॥ एतावत्यस्तथा कोट्यः शाखा नाम षडाननाः । विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर ! ॥ सप्तकोटिशताः शम्भो अमी वै प्रथमोत्तमाः । एकैकं प्रति देवेश तावत्यो ह्यपि मातरः ॥ भग्नारुणितदेहाश्च त्रिनेत्राः शूलपाणयः । एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः ॥ तया पाशुपताश्चान्ये भस्मप्रहरणा विभो । एते गणास्त्वसंख्याताः साहाय्यार्थं समागताः ॥ पिनाकधारिणो रौद्रा गणाः कालमुखाः परे । तव भक्ताः समायाता जटामण्डलिनोऽद्भुताः ॥ खट्टाङ्गयोधिनो वीरा रक्तचर्म्मसमावृताः । इमे प्राप्ता गणा योद्ध्वुं महाव्रतिन उत्तमाः ॥ दिग्वाससो यौनिनश्च घण्टाप्रहरणास्तथा । निरामया नाम गणाः समायाता जगद्गुरो ॥ सार्द्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः । समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः ॥ महापाशुपता नाम चक्रशूलधरास्तथा । भैरवो विष्णुना सार्द्धमभेदेनार्च्चितो हि यैः ॥ इमे मृगेन्द्रवदनाः शूलबाणधनुर्धराः । गणास्त्वद्रोमसम्भूता वीरभद्रपुरोगमाः ॥ एते चान्ये च बहवः शतशोऽथ सहस्रशः । साहाय्यार्थं तवायाता यथापीत्यादिशस्व तान् ततोऽभ्येत्य गणाः सर्व्वे प्रणेमुर्वृषकेतनम् ॥” इति वामनपुराणे ६४ अध्यायः ॥ अस्य लिङ्गपूजादि शिवलिङ्गशब्दे द्रष्टव्यम् ॥ अस्मात् कोचविहारदेशीयराजवंशोत्पत्तिर्यथा, श्रीदेव्यु वाच । “देवेश परमेशान सर्व्वज्ञ सर्बपूजित । क्व गच्छसि मुहुर्नाथ कृपया वद शङ्खर ॥ ईश्वर उवाच । कोचाख्याने च देशे च योनिगर्त्तसमीपतः । साध्वी सती वाम्बिका हि रेवती जनविश्रुता ॥ म्लेच्छदेशोद्भवा या तु योगिनी सुन्दरी मता । तत्कुचौ कठिनौ द्वन्द्वौ योनेस्तस्याश्च पीनता ॥ भिक्षाचारप्रसङ्गेन गच्छामि च दिवानिशम् । तत्सन्निधौ महेशानि तया मे रमणं महत् ॥ देव्युवाच । कुत्रासीत् किं तपस्तप्तं कथं प्राप्तं महीतलम् । त्वया सार्द्धं रतिर्यत् स्यात् नाल्पस्य तपसः फलम् ॥ तवापि च कृपा तस्यां लक्ष्यते महती मया । इदानीं किमभूत् सा हि कृपया परया वद ॥ ईश्वर उवाच । नगेन्द्रतनये बाले शृणु मत्प्राणवल्लभे । शावरोचरितं किञ्चित् कथयामि शुचिस्मिते ॥ रसक्रीडाञ्चकाराहमेकाम्रकानेन मुदा । वेदाङ्गसम्भवा साध्वी योगिनी सा सुरी मता । नाभूत्तस्याः सुतृप्तिर्म्मे मत्क्रियायां नगात्मजे मामाप्तुमुत्कटं तप्तं द्वये मे क्षेत्रकामदे ॥ एकाम्रगहने देवि पर्व्वते तीर्थसङ्कुले । तत्रैको ब्राह्मणो जातो भिक्षार्थं तामुवाच ह ॥ न दत्तमुत्तरं तस्मै भिक्षा तिष्ठतु दूरतः । ततः शशाप विप्रस्तां म्लेच्छतां याहि दुर्म्मदे । इत्युक्त्वा स ययौ विप्रो म्लेच्छत्वमाप योगिनी । अतोऽर्थिनः समर्थश्चेत् याचितं न ददाति च ॥ स दुर्गतिमवाप्नोत्यसमर्थो विनयञ्चरेत् । तस्यास्तु तपसा देवि क्रीतोऽहमभवं सदा ॥ * ॥
अतस्तया रतिर्जाता मम कामिनि सर्व्वदा । तस्याः पुत्त्रो विनुसिंहो मदौरससमुद्भवः ॥ एकेन जितवान् कामान् सौमारान् गौडपञ्च- मान् । विनिर्ज्जित्य नृपान् सर्व्वान् एकः श्रीमान् महामतिः ॥ तस्यापि बहवः पुत्त्राः पृथिवीपरिपालकाः । कुवाचा धार्म्मिकाः सर्व्वे राजानो युद्धदुर्म्मदाः ॥ ततोऽपि स विनुसिंहो योगमाश्रित्य विह्वले । त्रिष्ठत्यव्यक्तरूपेण पट्टे आकल्पमम्बिके ॥ कामात् सा माधवी देवि मद्देहे लीनतां गता यथा जाया नन्दिमाता तथेयं योगिनी मता ॥ यथा पुत्त्रो भृङ्गरीटिस्तथा विनुर्म्ममात्मजः । विनुसिहोऽपि कल्पान्ते परां सिद्धिमवाप्स्यति ॥ तद्वशजास्तु राजानः सर्व्वे कैलासवासिनः । भविष्यन्ति महात्मानो गणेशाः सर्ब्बशालिनः ॥ रूपयौवनसम्पन्नैर्देवकन्यागणैः सह । विहरन्ति सदा देवि क्रीडन्ति भैरवा यथा ॥ * ॥
यदा यदा ब्रह्मशापः कामाख्यायां भवेत् पुनः तदा तदावतीर्य्याहं विश्वकामस्य पालकः ॥ तथा तद्वंशजाः सर्व्वे भवेयुः कामपालकाः । कल्पान्तमेवं देवेशि यावत् शापो विमुच्यते ॥ तावदेव महामाये मद्वोर्य्यात् क्रीडते ध्रुवम् । कल्पमेवं महेशानि कलौ वर्षशतत्रयम् ॥ यावत्तु परमेशानि भुङक्ते शापं परात्मिके । कामाख्या हि महामाये तदन्ते सफला भवेत् ॥ एव ते कथितं देवि ब्रह्मशापविमोचनम् । कामाख्याया महेशानि साकल्येन मया ध्रुवम् ॥” इति श्रीयोगिनीतन्त्रेदेवीश्वरसंवादे चतुर्विंशति साहस्रे १३ पटलः ॥ मोक्षः । कीलग्रहः । वालुकम् । गुग्गुलुः । वेदः । पुण्डरीकद्रुमः । इति मेदिनी ॥ कृष्णधुस्तूरः । पारदः । इति राजनिर्घण्टः ॥ देवः । इति शब्दरत्नावली ॥ लिङ्गः । इत्युणादिकोषः ॥ विष्कुम्भादिसप्त- विंशतियोगान्तर्गतविंशतितमयोगः । तत्र ज



Correction: