संस्कृत-शब्दकोशः

शिव शिवकर

शिवक

वाचस्पत्यम्

शिवक ||‍ पु० शिव—इव इवार्थे कन् । १ कीलके अमरः गवां गात्रकण्डूयनार्थे गोष्ठे निखाते २ काष्ठे च भरतः ।


शब्दकल्पद्रुमः

शिवकः || पुं, कीलकः । इत्यमरः ॥ द्वेखॐटा इति ख्याते । गवां गात्रकण्डूयनार्थं गोष्ठे निखात- स्तम्भे इति सुभूतिः । कण्डूयनार्थकाष्ठे इति केचित् । बन्धनखट्टे इति केचित् । यत्र बद्धा गौर्दुह्यते इति केचित् । श्यति गात्रकण्डुं शिवः शो तनुकरणे नाम्नीति डिवः स्वार्थे कन् कः शिवकस्तालव्यादिः । कील्यतेवध्यतेऽस्मिन् कील कील बन्धे घञ् स्वार्थे कः कीलकः । इति भरतः ॥



Correction: