संस्कृत-शब्दकोशः

शिवदूतिका शिवद्रुम

शिवदूती

वाचस्पत्यम्

शिवदूती ||‍ स्त्री शिवो दूतो यस्याः । १ दुर्गामूर्त्तिभेदे त्रिका० २ योगिनीभेदे च “यदा जघान जगतां रक्तवीजं हिताय वै । महादेवी महामाया तदास्याः कायतः सृता । दूत प्रस्थापयामास शिवं शुम्भाय साम्बिका । तेन सा शिवदूतीति देवैः सर्वैः प्रगीयते” कालिकापु० ६० अ० । “यः शिवाविरुतं श्रुत्वा शिवदूतीं शिवप्रदाम् । प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः” तत्रैव । “ब्र ह्माणा प्रथमा प्रोक्ता ततो माहेश्वरी पराः । कोमारी वैष्णवी चैव वाराही पञ्चमी तथा । नारसिंही तथैवैन्द्री शिवदूतो तथाष्टभी । एताः पूज्या महाभागाः योगिन्यः कामदायिकाः तत्रैव । कौषिक्याः हृदयाद्देवी निःसृता ध्यानता हरेः । शिवदूतीति विख्याता शिवाशतसुसंवृता” तत्रैव ।


शब्दकल्पद्रुमः

शिवदूती || स्त्री (शिवेन दूतयति सन्देशं प्रापयती- न्यर्थे दूत + णिच् + पचाद्यच् । यद्वा, शिवो दूतो यस्याः । गौरादेराकृतिगणत्वात् ङीष् ।)
दुर्गा । इति त्रिकाण्डशेषः ॥ योगिनीविशेषः । यथा, “ब्रह्माणो प्रथमा प्रोक्ता ततो माहेश्वरी परा । कीमारी वेष्णवी चैव वाराही पञ्चमी तथा ॥ नारमिंहो तथैवैन्द्री शिवदूती तथाष्टमी । एताः पूज्या महाभागा योगिनीः काम- दायिनोः ॥” तस्या उत्पत्तिमन्त्रध्यानादि यथा, —
“कौषिक्या हृदयाद्देवी निःसृता ध्यानतो हरेः । शिवदूतीति विख्याता शिवाशतसुसंवृता ॥ मन्त्रमस्याः प्रवक्ष्यामि धर्म्मकामार्थदायकम् । यत् श्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् ॥ येनाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् । न चिराल्लभते कामान्नरः सर्व्वजयी भवेत् ॥ अन्तःसमाप्तिसहितो बिन्द्विन्दुभ्यां दशावरा । स्वरेण पान्त्यदन्त्येन संसृष्टोऽन्तेन पूर्वशः ॥ स एव बिन्दुयुगलपूर्वस्थोपान्त्यपावकः । षष्ठस्वरकलाशून्यैः संहितः प्रथमस्थितः ॥ मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः । रूपमस्याः प्रवक्ष्यामि शृणु वत्सक संमतम् ॥ चतुर्भुजं महाकायं सिन्दूरसदृशद्युतिम् । रक्तदन्तं मुण्डमालाजटाजूटार्द्धचन्द्रधृक् ॥ नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् । व्याघ्रचर्म्मपरीधानं दक्षिणे शूलचक्रधृक् ॥ वामे पाशं तथा चर्म्म बिभ्रदूर्द्ध्वं परिक्रमात् । स्थूलवक्त्रञ्च पीनोष्ठं तुङ्गमूर्त्तिं भयङ्करम् ॥ निक्षिप्य दक्षिणं पादं सन्तिष्ठेत् कुणपोपरि । वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् ॥ ईदृशं शिवदूत्यास्तु मूर्द्ध्नि ध्यायेद्विभूतये । ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् ॥ पूजनादचिराद्देवो सर्व्वान् कामान् ददाति च ॥ यः शिवाविरुतं श्रुत्वा शिवदूतों शिवप्रदाम् । प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः ॥ यदा जघान जगतां रक्तबीजं हिताय वै । महादेवी महामाया तदास्याः कायतः सृता ॥ दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका । तेन सा शिवदूतीति देवैः सर्व्वैः प्रगीयते ॥ क्षेमङ्करी च शान्ता च वेदमाता महोदरी । कराला कामदा देवी भगास्या भगमालिनी ॥ भगोदरी भगाहारा भगजिह्वा भगा तथा । एता द्वादश योगिन्यः पूजने परिकीर्त्तिताः ॥ एता द्वादश योगिन्यः शिवदूत्याः सदैव हि । विचरन्ति स्वयं देवी यत्र यत्रैव गच्छति ॥” इति कालिकापुराणे उत्तरतन्त्रे ५० अध्यायः ॥ प्रमाणानन्तरं वामने ५३ अध्याये मार्कण्डेय- पुराणे देवीमाहात्म्ये रक्तबीजवधाध्याये च द्रष्टव्यम् ॥



Correction: