संस्कृत-शब्दकोशः

शिवरस शिवलिङ्ग

शिवरात्रि

वाचस्पत्यम्

शिवरात्रि ||‍ स्त्री शिवप्रिया तदुपासनार्था रात्रिः । माघातः परस्यां कृष्णचतुर्दश्याम् । तद्रात्रौ हि शिव पूजनव्रता- दिकं क्रियते इति तस्या रात्रेस्तत्प्रियत्वम् । २ तद्दिव- सकर्त्तव्येव्रते च । तद्विधानकालादि ति० त० उक्तं यथा कालमाधवीये स्कान्दे नागरखण्डम् “माघमासस्य शेषे या प्रथमे फालगुनस्य च । कृष्णा चतुर्दशी सा तु शिवरात्रिः प्रकीर्त्तिता” । अत्रैकस्यास्तिथे- मांघीयत्वफाल्गुनीयत्वे मुख्यगौणवृत्तिभ्याम् अविरुद्धे । ततस्तु माघ्यनन्तरा चतुर्दशी शिवरात्रिः । अस्यामुप- वासः प्रधानम् “न स्नानेन न वस्त्रेण न धूपन न चार्चया । तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः इति शङ्करोक्तेः । स्कान्दे “ततो रात्रौ प्रकत्तंव्यं शिवप्रोणनतत्परैः । प्रहरे प्रहरे स्नानं पूजा चैव विशेषतः” । अत्र वीप्सया प्रहरचतुष्टयसाध्यं प्रती- यते । नरसिंहाचार्य्यधृतेश्वरसहितायाम् “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुखः” । संवत्सरपदीपे “दु- ग्धेन प्रथमे स्नानं दघ्ना चैव द्वितीयके । तृतीये च तथाज्येन चतुर्थे मधुना तथा” । ईशानसंहितायाम् “माघे कृष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमो वापि भवेद् देवि! कर्त्तव्यं व्रतमुत्तमम् । शिवयोगस्य योगेन तद्भवेदुत्तमोत्तमम् । शिवरात्रिव्रतं नाम सर्वषाप- प्रणाशनम् । आ चाण्डालात् मनुष्याणां भुक्तिमुक्तिप्रदाय- कम । नागरखण्डे “उपवासप्रभावेण बलादपि च जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान् लभते लोकान् शिवसायुज्यमाप्नुयात्” । पाद्मे “वर्ष वर्षे महादेवि! नरी नारी पततिव्रता । शिव- रात्रौ महादेवं काम भक्त्या प्रपूजयेत्” । ईशानसंहि- तायाम् “एवमेव व्रतं कुर्य्यात् प्रतिसंवत्सरं व्रती । द्वादशाव्दिकमेतद्धि चतुर्विंशाव्दिकं तथा सर्वान् कामानवाप्नाति प्रेत्य चेह च मानवः” । हेमा- द्रिधृता स्मृतिः “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतु- र्दर्शी । प्रदोषमाह वत्सः “प्रदोषोऽधग्रयादूर्द्ध्वं वदि- काद्वयसिष्यते” । ऊर्द्ध्वमनन्तरम् । वायुपुराणे “त्रयोद- श्यस्तगे सूर्य्ये चतसृष्वपि नाडषु । भूतावद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत्—” । ईशानसंहितायाम् “माघे कृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभ । तत्कालव्यापिनी ग्राह्या शिवरात्रि प्रते तिथिः अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं नरः” । अत्र “महानिशा द्वे घटिके रात्रेर्मध्यमयामयोः” इति देवलोक्ता महानिशा ग्राह्या । घटिका एकदण्डः । एवञ्च यद्दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तद्दिने व्रतम् उभयव्याप्त्यनुराधात् । कालमाधवीयोऽप्येवम् । एतेन परदिने उभयव्यापित्वेऽपि पूर्वदिवसीयरात्रिद्वितीय यामप्रभृतिचतुर्दशीसत्त्व बहुप्रहरव्यापित्वेन पूर्वदिन एव व्रतभिति निरस्तम् यदा तु पूर्वद्युर्निशीथमात्र व्याप्तिः परेद्युः गदाषमात्रव्याप्तिस्तदा पूर्वेद्युर्व्रतं प्रधानः कालव्याप्त्यनुरोधात् । “पूर्वेद्युरपरेद्युर्वा महानिशि च- तुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रत नरः” इतीशानसंहितावचनाच्च । एतद्विषय एव भविष्यपु० “अर्द्धरात्रात् पुरस्तात्तु जयायोगा भवेद् यदि । पूर्वविद्धैव कर्त्तव्या शिरात्रिः शिवप्रियैः” । विष्णु धर्मोत्तरे “जयन्ती शिवरात्रिश्च कार्य्य भद्रजयान्विते ।- कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम्” । तिथ्यन्ते- पारण जयन्तीमात्रपरं तत्र चतुर्दश्यामेव तत् “व्रह्मा ण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । पूजितानि- भवन्तीह भूतायां पारणे कृते” इति स्कान्दात् । “दिन मानप्रमाणेन या तु रात्रौ चतुर्दशी । शिवरात्रिस्तु सा ज्ञेया चतुर्दश्यान्तु पारणम्” इति गौतमीयाच्च । यदा त पूर्वदिने न निशीथव्याप्तिः परदिने प्रदोषमात्र व्यापिनी तदा परा ग्राह्या प्रदोषव्यापिनीति प्रागुक्तत्वात् तिथेस्त्रिसन्ध्यव्यापित्वाच्च । एतद्विषय एव लिङ्गपुरा- णम् “शिवरात्रिव्रते भूतां कामविद्धां विर्जयेत् । एके नैवोपवासेन ब्रह्महत्यां व्यापोहति” । अत्रामावस्याया- मेव पारणम् “शिवाऽघारा तथा पेता सावित्री च च- तुर्दशी । कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम्” । इति वचनात् । तदयं संक्षेपः । यद्दिने प्रदोषनिथीथो- भयव्यापिनी चतुर्दशी तद्दिने व्रतम् । यदा तु पूर्वेद्युर्नि- शीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्वेद्यु- र्वतम् । यदा तु न पूर्वेद्युर्निशोघव्याप्तिः परदिने प्र- दोषव्यापिनी तदा परदिने । पारणन्तु परदिमे चतु- र्दशीलाभे चतुर्दश्यां, तदलाभे अमावास्यायाम्” ति० त० रघु०


शब्दकल्पद्रुमः

शिवरात्रिः || स्त्री (शिवप्रिया रात्रिः ।)
शिव- चतुर्द्दशी । यथा, कालमाधवीये स्कान्दे नागर- खण्डम् । “माघमासस्य शेषे या प्रथमे फाल्गुणस्य च । कृष्णा चतुर्द्दशी सा तु शिवरात्रिः प्रकीर्त्तिता ॥” अत्रैकस्यास्तिथेर्म्माघीयत्वफाल्गुनीयत्वे मुख्य- गौणवृत्तिभ्यां अविरुद्धे । ततस्तु माघ्यनन्तरा चतुर्द्दशी शिवरात्रिः तस्यामुपवासः प्रधानम् । “न स्नानेन न वस्त्रेन न धूपेन न चार्च्चया । तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः ॥” इति शङ्करोक्तेः ॥ * ॥
स्कान्दे । “ततो रात्रौ प्रकर्त्तव्यं शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥” अत्र वीप्सया प्रहरचतुष्टयसाध्यं व्रतं प्रतीयते नरसिंहाचार्य्यधृतेश्वरसंहितायाम् । “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः । सर्व्वं पूजाफलं हन्ति शिवरात्रिबहिर्म्म खः ॥ * ॥
संवत्सरप्रदीपे । “दुग्धेन प्रथमं स्नानं दध्ना चैव द्वितीयके । तृतीये च तथाज्येन चतुर्थे मधुना तथा ॥” ईशानसंहितायाम् । “माघे कृष्णचतुर्द्दश्यां रविवारो यदा भवेत् । भौमो वापि भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥ शिवयोगस्य यौगेन तद्भवेदुत्तमोत्तमम् । शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् । आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥” नागरखण्डे । “उपवासप्रभावेण बलादपि च जागरात् । शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान्लभते लोकान् शिवसायुज्यमाप्नुयात् ॥” पाद्मे । “वर्षे वर्षे महादेवि नरो नारी पतिव्रता । शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥” ईश्वानसंहितायाम् “एवमेव व्रतं कुर्य्यात् प्रति संवत्सरं व्रती । द्वादशाब्दिकमेतद्धि चतुर्व्विंशाब्दिकं तथा । सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥” हेमाद्रिधृता स्मृतिः । “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥” प्रदोषमाह वत्सः । “प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥” ऊर्द्ध्वमनन्तरम् । वायुपुराणे । “त्रयोदश्यस्तगे सूर्य्ये चतसृष्वपि नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत् ॥” ईशानसंहितायाम् । “माघे कृष्णचतुर्द्दश्यामादिदेवो महानिशि । शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ॥ तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः । अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्द्दशी ॥ व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं नरः ॥” अत्र । “महानिशा द्वे घटिके रात्रर्मध्यमयामयोः ॥” इति देवलोक्ता महानिशा ग्राह्या ॥ घटिका एकदण्डः । एवञ्च यद्दिने प्रदोषनिशिथो- भयव्यापिनी चतुर्दशी तद्दिने व्रतं उभय- व्याप्त्यनुरोधात् । कालमाधवीयेऽप्येवम् । एतेन परदिने उभयव्यापित्वेऽपि पूर्व्वदिवसीयरात्रि- द्वितीययामप्रभृतिचतुर्दशीसत्त्वे बहुप्रहरव्या- पित्वेन पूर्व्वदिन एव व्रतमिति निरस्तम् । यदा तु पूर्व्वेद्युर्निशीथमात्रव्याप्तिः परेद्युः प्रदोष- मात्रव्याप्तिस्तदा पूर्व्वेद्युर्व्रतम् । प्रधानकाल- व्याप्त्यनुरोधात् । “पूर्व्वेद्युरपरेद्युर्व्वा महानिशि चतुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्याद्व्रतं नरः ॥” इतीशानसंहितावचनाच्च ॥ एतद्विषय एव भविष्यपुराणम् । “अर्द्धरात्रात् पुरस्तात्तु जयायोगो भवेद्यदि । पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः ॥” विष्णुधर्म्मोत्तरे । “जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते । कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम् ॥” तिथ्यन्ते पारणं जयन्तीमात्रपरं अत्र चतुर्दश्या- मेव तत् । “ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै पूजितानि भवन्तीह भूतायां पारणे कृते ॥” इति स्कान्दात् । “दिनमानप्रमाणेन या तु रात्रौ चतुर्द्दशी । शिवरात्रिस्त सा ज्ञेया चतुर्दश्यान्तु पारणम् ॥” इति गौतमीयाच्च । यदा तु पूर्व्वदिने न निशीथव्याप्तिः परदिने प्रदोषमात्रव्यापिनी तदा परा ग्राह्या । प्रदोष- व्यापिनीति प्रागुक्तत्वात् तिथेस्त्रिसन्ध्यव्यापि- त्वाच्च । एतद्विषय एव लिङ्गपुराणम् “शिवरात्रिन्रते भूतां कामविद्धां विवर्जयेत् । एकेनैवोपवासेन ब्रह्महत्यां व्यपोहति ॥” अत्रामावास्यायामेव पारणम् । “शिवा घोरा तथा प्रेता सावित्री च चतु- र्दशी । कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम् ॥” इति वचनात् ॥ * ॥
तदयं संक्षेपः । यद्दिने प्रदोषनिशीथोभय- व्यापिनी चतुर्दशी तद्दिने व्रतम् । यदा तु पूव्व- द्युर्निशीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्व्वेद्युर्व्रतम् । यदा तु न पूर्व्वेद्युर्निशीथ- व्याप्तिः परेद्युः प्रदोष व्यापिनींतदा परदिने । पारणन्तु परदिने चतुर्दशीलाभे चतुर्दश्यां तद- लाभे अमावस्यायाम् । तत्र प्रयोगः ॥ * ॥
प्रातरुदङ्मुखः तत् सदित्युच्चार्य्य सूर्य्यः सोम इति पठित्वा जलादीन्यादाय सङ्कल्पयेत् । “मन्त्रेणानेन गृह्नीयान्नियमं भक्तिमान्नरः । शिवरात्रिव्रतं ह्येतत् करिष्येऽहं महाफलम् । निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ॥” इति शिवरहस्यात् शिवरात्रि इत्यादिना- नियम्य । “चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनि भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥” इति गरुडपुराणीयं पठेत् । रात्रौ प्रथमप्रहरे प्रतिष्ठिते लिङ्गे अप्रतिष्ठिते वा प्रतिष्ठां विधाय पूजां कुर्य्यात् । हौँ अस्त्राय फडिति पादघातत्रयेण विघ्नान्निःसार्य्य तेनैव तालत्रयेण करच्छोटिकया च दशदिग्बन्धनं कृत्वा भूतशुद्धिं विधाय हां हृदयाय नम इत्या- दिना षडङ्गानि न्यस्य हौँ इति मन्त्रेण प्राणा- यामं विधाय पूजयेत् । पार्थिवलिङ्गे चेत्तदा वक्ष्यमाणपूजाविधिना पूजयेत् । तत्रायं विशेषः हौँ ईशानाय नम इति प्रथमप्रहरे दुग्धेन स्नापयित्वा पुनर्जलेन स्नापयित्वा । “शिवरात्रिव्रतं देव पूजाजपपरायणः । करोमि विधिवद्दत्तं गृहाणार्घ्यं महेश्वर ॥” इत्यनेनार्घ्यं दत्त्वा गन्धादिभिः संपूज्यमूलमन्त्र जपित्वा प्रणम्य गीतनृत्यादिभिस्तं प्रहरं नयेत् ॥ “तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् । उपवासकृतौ ह्येते गुणाः प्रोक्ता मनीषिभिः ॥” इति देवीपुराणे सामान्यतः श्रवणात् अत्रापि तथा ॥ * ॥
द्वितीयप्रहरे तु विशेषः । हौँ अघोराय नम इति दध्ना स्नानम् । अर्घ्यमन्त्रस्तु ॥ “नमः शिवाय शान्ताय सर्व्वपापहराय च । शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमयां सह ॥” * ॥
तृतीयप्रहरे तु । हौँ वामदेवाय नम इति घृतेन स्नानम् । अर्घ्यमन्त्रस्तु । “दुःखदारिद्य्नशोकेन दग्धोऽहं पार्व्वतीश्वर । शिवरात्रौ ददाम्यर्घ्यमुमाकान्त गृहाण मे ॥ * ॥
चतुर्थप्रहरे तु । हौँ सद्योजाताय नम इति मधुना स्नानम् । अर्घ्यमन्त्रस्तु । “मया कृतान्यनेकानि पापानि हर शङ्कर । शिवरात्रौ ददाम्यर्घ्यं उमाकान्त गृहाण मे ॥” ततो नमः शिवाय इति मूलमन्त्रं जपित्वा प्रभातेऽविघ्नेन इत्यादिवक्ष्यमानमन्त्रान् पठेत् ॥ तथा च गरुडपुराणम् । “मूलमन्त्रं ततो जप्त्वा प्रभाते तत् समापयेत् । अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् ॥ क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर । यन्मयाद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् ॥ त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् । प्रसन्नो भव मे श्रीमन् मद्भूतिं प्रतिपद्यताम् । त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥” परदिने ब्राह्मणान् भोजयित्वा चतुर्दशीलाभे तत्र तदलाभे अमावस्यायां पारणं कुर्य्यात् । तत्र मन्त्रः । “संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर । प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥” * ॥
तत्र पार्थिवशिवलिङ्गपूजाविधिः । तत्र शिव- वाक्यं स्कान्दे । “विप्रस्य तु सदैवाहं शुचेरप्यशुचेरपि । गृह्वन् वलिं प्रहृष्यामि विप्राणामिव दर्शनात् ॥ वलिं पूजाम् । तथा, “शूद्रः कर्म्माणि यो नित्यं स्वीयानि कुरुते प्रिये । तस्याहमर्च्चां गृह्वामि चन्द्रखण्डविभूषिते ॥” तथा, “नमोऽन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ॥” एवकारेण प्रणवनिवृत्तिः । एवं शूद्रस्यापि । तथा नृसिंहतापनीये । “सावित्रों प्रणवं यजु- र्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् स मृतोऽधो गच्छति इति ।” नेच्छन्ति पर्य्यन्तं पराशरभाष्येऽपि लिखितम् । गोविन्दभट्ट- धृतम् । “स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः । शूद्रो निरयमाप्नोति ब्राह्मणः शूद्रतामियात् ॥” गौतमः । “रात्रावुदङ्मुखः कुर्य्यात् दैवकार्य्यं सदैव हि । शिवार्च्चनं सदाप्येवं शुचिः कुर्य्यादुदङ्मुखः ॥” सदा दिवारात्रौ । अत्र हेतुमाह रुद्रयामले । “न प्राचीमग्रतः शम्भोर्नोदीचीं शक्ति- संस्थिताम् । न प्रतीचीं यतः पृष्ठमतो दक्षं समाश्रयेत् ॥” यजमानः शम्भोः प्राचीमवस्थितये न समा- श्रयेत् शम्भोर्जगत्संहारकस्याग्रतः सांमुख्यात् पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्यवस्थितम् ॥ एकवक्त्रपक्षे सुतरां तथा । तद्रूपमाह भविष्य- पुराणम् । “सौम्यं मौलीन्दुभृत् त्र्यक्षं एकवक्त्रं चतुर्भुजम् शिवरूपं गृहे कुर्य्यात् प्रासादे वाप्यनिन्दितम् ॥ अत्राग्रे पुजानिषेधात् देवाग्रे स्वस्य चाप्यग्रे प्राची प्रोक्ता गुरुक्रमैः । इत्यस्य न विषयः । किन्त्वभिधानादिप्रसिद्धा प्राची ग्राह्या । एत- दनुसाराद्वक्ष्यमाणपूर्व्वाद्याग्नेय्यन्तपूजा । अत- एव तन्त्रान्तरम् । “यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति । तथा पुरः पूजकपूज्ययोश्च सदागमज्ञाः प्रवदन्ति तान्तु ॥” एवञ्च देवतान्तरपूजा पूर्व्वाह्वे प्राङ्मुखेन सायं पपिमाभिमुखेन रात्राबुदङ्मुखेन कार्य्या । “प्राक्पश्चिमोदगास्यस्तु प्रातः सायं निशासु च ॥” इति वचनात् ॥ इति वाचस्पतिमिश्राः । मैवं पूजा रत्नाकरोक्त- भविष्यपुराणीयसप्ताक्षरसूर्य्यमन्त्रप्रस्ताव एव प्रागादिदिङ्नियमाभिधानात् । व्यवहारोऽपि अत्र न तथेति ॥ * ॥
लिङ्गपुराणे । “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः । तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम् ॥ नन्दिपुराणे । “आयुष्मान् बलवान् श्रीमान् पुत्त्रवान् धन- वान् सुखी । वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समार्च्चयेत् । तस्मात्तु पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥” भविष्ये । “मृद्भस्मगोशकृत्पिण्डं ताम्रकांस्यमयं तथा । कृत्वा लिङ्गं सकृत् पूज्य वसेत् कल्पायुतं दिवि ॥ वार्क्षं वित्तप्रदं लिङ्गं स्फाटिकं सर्वकामदम् । नर्म्मदागिरिजं श्रेष्ठमन्यदपि हि लिङ्गवत् ॥” लिङ्गवत् लिङ्गाकारम् । कालकौमुद्याम् । “अक्षादल्पपरीमाणं न लिङ्गं कुत्रचिन्नरः । कुर्व्वीताङ्गुष्ठतो ह्रस्वं न कदाचित् समाचरेत् ॥ अक्षोऽशीतिरक्तिका । अङ्गुष्ठतः बृहत्पर्व्व- ग्रन्थितः । “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्व्वग्रन्थिभिर्मिनुयात् सदा ॥” इति छन्दोगपरिशिष्टात् ॥ शिवधर्म्मे । “सहस्रमर्च्चयेल्लिङ्गं निरयं स न गच्छति । रुद्र्लोकमवाप्नोति भुक्त्वा भोगाननुत्तमान् ॥” तथा । “वालुकानि च लिङ्गानि सहस्राणि च कारयेत् सहस्रमर्च्चनात् सोऽपि लभते वाञ्छितं फलम् ॥” ततश्चामुकतिथावारभ्यामुकलाभकामः सहस्र- मितपार्थिवशिवलिङ्गपूजनमिति यथास्थाने वाक्ये देयम् ॥ * ॥
ब्रह्मपुराणे । “यावन्न दीयते चार्घ्यं भास्कराय निवेदितम् । तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥” राघवभट्टधृतम् । “सर्व्वत्रैव प्रशस्तोऽब्जः शिवसूर्य्यार्च्चनं विना ॥” अब्जः शङ्खः । अग्निपुराणे । “तल्लिङ्गैः पूजयेन्मन्त्रैः सर्व्वदेवान् पृथक् पृथक् । ध्यात्वा प्रणवपूर्वन्तु तन्नाम्ना सुसमाहितः । नमस्कारेण मन्त्रेण पुष्पाणि विन्यसेत् पृथक् ॥” देवीपुराणे । “मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च । स्नपनं पूजनञ्चैव विसर्ज्जनमतः परम् ॥ हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् । पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥” अत्र पूर्व्वोक्तसप्तकर्म्माणि परवचनोक्तसप्त- नामभिः क्रियानुरूपविभक्तिमद्भिर्यथायथं कार्य्याणि । अदृष्टार्थयोरर्थक्रमासम्भवेन पांठ- क्रमादेव आवाहनात् प्राक् प्रतिष्ठा श्राद्ध कुशासनदानवत् ॥ * ॥
तत्रानुष्ठानम् । हराय नम इति मृदाहरणम् । महेश्वराय नम इति संघट्टनम् । शूलपाणे इह सुप्रतिष्ठितो भव इति प्रतिष्ठा । ध्यायेन्नित्यमित्यादिना ध्यात्वा पिनाक घृक् इहागच्छ इत्याद्यावाहनम् । पशुपतये नम इति स्नपनम् । एतत् पाद्यं नमः शिवाय नम एवमर्घ्यादिना पूजयेत् । विसर्ज्जनात् पूर्व्वं भविष्यपुराणोक्तं स्वभावसिद्धप्राच्यैशान्यादि- दिक्षु वामावर्त्तेन पूजनम् । यथा । सर्वाय क्षितिमूर्त्तये नमः । भवाय जलमूर्त्तये नमः । रुद्राय अग्निमूर्त्तये नमः । उग्राय वायुमूर्त्तये नमः । भीमाय आकाशमूर्त्तये नमः । पशुपतये यजमानमूर्त्तये नमः । महादेवाय सोममूर्त्तये नमः । ईशानाय सूर्य्यमूर्त्तये नमः । “मूर्त्तयोऽष्ठौ शिवस्यैताः पूर्वादिक्रमयोगतः । आग्ने य्यन्ताः प्रपूज्यास्ता वेद्यां लिङ्गे शिवं यजेत् ॥” ततो महादेव क्षमस्व इति संहारमुद्रया विस- र्ज्जयेत् ॥ * ॥
नन्दिपुराणे । “गोभूतिलहिरण्यादिवलिपुष्पनिवेदने । ज्ञेयो नमः शिवायेति मन्त्रः सर्व्वार्थसाघकः ॥ सर्व्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः । तन्मन्त्रजापी तत्कर्म्मरतस्तद्गतमानसः । निष्कामः पुरुषो राजन् स रुद्रपदमश्नुते ॥” भविष्ये पञ्चाक्षरमुपक्रम्य । “अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा । महापातकयुक्तो वा मन्त्रस्यास्य जपे यथा । अधिकारी भवेत् सर्व्व इति देवोऽब्रवीच्छिवः ॥” इति तथेत्यर्थः ॥ पूर्व्वोक्तयथापदानुरोधात् । तेन यथाधिकारी भवेत्तथाब्रवीदित्यर्थः । तथा, “सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः । पतन्तं त्रायते यस्मादतीव नरकार्णवात् ॥ शिवमुद्दिश्य यद्दत्तं सर्व्व कारणकारणम् । तदनन्तफलं दातुर्भवतीह किमद्भुतम् ॥ दत्त्वा नैवेद्यवस्त्रादि नाददीत कदाचन । त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥” आदाने ग्रहणे । शिवधर्मे । “तस्मात् पुष्पैः फलैः पत्रैस्तोयैरपि च यत्फलम् तदनन्तफलं ज्ञेयं भक्तिरेवात्र कारणम् ॥” भविष्ये । “लिङ्गानुलेपनं कार्य्यं दिव्यगन्धैः सुगन्धिभिः । वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥” शिवधर्म्मे । “तस्मात् पुष्पप्रदानेन लिङ्गेषु प्रतिमासु च । अशीतिवर्षकोटीनां दुर्गतिं न नरो व्रजेत् ॥” स्कान्दे । “शुष्काण्यपि च पत्राणि श्रीवृक्षस्य सदैव हि ॥” दातव्यानीति शेषः । भविष्ये । “धुस्तूरकैश्च यो लिङ्गं सकृत् पूजयते नरः । स गोलक्षफलं प्राप्य शिवलोके महीयते ॥ विल्वपत्रैरखण्डैश्च यो लिङ्गं पूजयेत् सकृत् । सर्व्वपापैर्विनिर्मुक्तः शिवलोके महीयते ॥” तंथा । “सर्व्वकामप्रदं विल्वं दारिद्रस्य प्रणाशनम् । विल्वपत्रात् परं नास्ति येन तुष्यति शङ्करः ॥” तथा । “केशकीटापबिद्धानि निशि पर्य्युषितानि च । स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥” तथा । “देवदारुममेतञ्च सर्ज्जश्रीवासकुन्दुरुम् । श्रीफलं चाज्यमिश्रन्तु दत्त्वाप्नोति परां गतिम्” सर्ज्जः शालरसः । श्रीवासः सरलद्रवः । कुन्दुरुः शैलेयम् । “एभ्यः सौगन्धिकं धूपं षट्सहस्रगुणोत्तरम् । अगुरुं शतसाहस्रं द्विगुणञ्चासितागुरुम् । गुग्गुलुं घृतसंयुक्तं साक्षात् गृह्वाति शङ्करः ॥” तथा । “तैलेनापि हि यो दद्यात् घृताभावेन मानवः । तेन दीपप्रदानेन शिववद्राजते भुवि ॥” नन्दिकेश्वरे । “अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् । यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ॥” शालितण्डुलप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम् । शिवाय तं चरुं दद्यात् चतुर्दश्यां विशेषतः ॥” प्रस्थमानं प्रागुक्तम् । शिवसर्व्वस्वे स्कान्दम् । एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् । वर्षाणामयुतं भोगैः क्रीडते स शिवे पुरे ॥ एकं मोचाफलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं तथाभोगैः शिवलोके महीयते ॥” शिवपुराणे । “नैवेद्यं घृतसंयुक्तं मधुपर्कं निवेदयेत् । अग्निष्टोमस्य यज्ञस्य फलमाप्नोति मानवः ॥” शिवसर्व्वस्वे स्कान्दम् । “परिपक्वं सुसंमृष्टमाज्यसिक्तं सुसंस्कृतम् । शिवाय मांसं दत्त्वा तुंशृणु यत् फलमाप्नुयात् ॥ अशेषफलदानेन यत् फलं परिकीर्त्तितम् । तत् फलं प्राप्नु यान्नित्यं सर्व्वं मांसनिवेदनात् ॥” शिवधर्म्मे । “लिङ्गवेदी भवेद्देवी लिङ्गं साक्षात् महेश्वरः । तयोः संपूजनात् स्यातां देवी देवश्च पूजितौ ॥” देवीपुराणे । “सव्यं व्रजेत्ततोऽसव्यं प्रणालं नैव लङ्घयेत् । एकीभूतमना रुद्रे यः कुर्य्यात् त्रिः प्रदक्षिणम् ॥ छिन्नस्तेन भवग्रन्थिर्न तस्य पुनरुद्भवः ॥” भविष्ये । “जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं देवेशे सर्व्वान् कामानवाप्नुयात् ॥” लिङ्गपुराणे । “गन्धपुष्पनमस्कारैर्मुखवाद्यैश्च सर्व्वशः । यो मामर्च्चयते तत्र तदा तुष्याम्यहं सदा ॥” महाभारते । “सर्व्वलक्षणहीनोऽपि युक्तो वा सर्व्वपातकैः । सर्व्वं तरति तत् पापं भावयन् शिवमात्मना । राघवभट्टधृतम् । “अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् । क्षिप्त्वाङ्गुलीरङ्गुलीभिः संगृह्य परिवर्त्तयेत् । प्रोक्ता संहारमुद्रेयमर्पणे तु प्रशस्यते ॥” अर्पणे आत्मनीति शेषः । स्कान्दे । “निर्म्माल्यं यो हि मद्भक्त्या शिरसा धारयि- ष्यति । अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ॥ नरके पच्यते घोरे तिर्य्यग्योनौ च जायते । ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत् तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥” शुचिः स्नानादिनेति शेषः । एवञ्च । “स्पृष्ट्वा रुद्रस्य निर्म्माल्यं सवासा आप्लुतः शुचिः ॥” इति कालिकापुराणीयमशुचिविषयम् ॥ अनुपनीतविषयमिति श्रीदत्तः । बह्वृचगृह्य- परिशिष्टम् । “अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥ कालिकापुराणे । “यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः । केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
अन्यच्च । ब्रह्मोवाच । “शिवरात्रिव्रतं वक्ष्ये कथाञ्च सर्व्वकामदाम् । यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥ श्रीमहादेव उवाच । माघफाल्गुनयोर्म्मध्ये या च कृष्णा चतुर्दशी । तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ कामयुक्तो हरः पूज्यो द्वादश्यामेव केशवः । उपोषितैः पूजितः सन्नरकात्तारयेत्तथा ॥ निषादश्चार्व्वुदे राजा पापी सुन्दरसेनकः । स कुक्कुरैकसंयुक्तो मृगान् हन्तुं वनं गतः ॥ मृगादिकमसंप्राप्य क्षुत्पिपामार्दितो गिरौ । रात्रौ तडागतीरे स निकुञ्जे जाग्रदास्थितः ॥ तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः । पर्णानि चापतन्मूर्द्ध्नि लिङ्गस्यैवं न जानतः ॥ तेन धूलिनिरोधाय क्षिप्तं नीरञ्च लिङ्गके । शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥ जानुभ्यामवनीं गत्वा लिङ्गं स्पृष्ट्वा गृहीतवान् एवं स्नानं स्पर्शनञ्च पूजनं जागरोऽभवत् ॥ प्रातर्गृहागतो भार्य्यादत्तान्नं भुक्तवान् स च । काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च । कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥ एवमज्ञानतः पुण्यं ज्ञानात् पुण्यमथाक्षयम् । त्रयोदश्यां शिवं पूज्य कुर्य्यात्तन्नियमं व्रती ॥ प्रातर्देव चतुर्द्दश्यां जागरिष्याम्यहं निशि । पूजां दानं जपं होमं करिष्याम्यात्मशक्तितः ॥ चतुर्द्दश्यां निराहारो भूत्वा शम्भो परेऽहनि । भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ पञ्चगव्यामृतैः स्नात्वा अन्तकाले गुरुं श्रितः । ॐ नमो नमः शिवाय गन्धाद्यैः पूजयेद्धरम् ॥ तिलतण्डुलव्रीहींश्च जुहुयात् स्वशृतं चरुम् । हुत्वा पूर्णाहुतिं दद्यात् शृणुयाद्गीतसत्कथाम् ॥ अर्द्धरात्रे त्रियामे च चतुर्थे च पुनर्यजेत् । मूलमन्त्रं तथा जप्त्वा प्रभाते च क्षमापयेत् ॥ अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् । क्षमस्व जगतां नाथ त्रैलोक्याधिपते शिव ॥ यन्मयाद्य कृतं पुण्यं तच्छिवस्य निवेदितम् । त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ॥ प्रसन्नो भव मे श्रीमन् मद्गृहं प्रतिगम्यताम् । तदालोकनमात्रेण पवित्रोऽस्मि न संशयः । भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ॥ देवादिदेव भूतेश लोकानुग्रहकारक । यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ॥ इति क्षमाप्य च यतीन् कुर्य्यात् द्वादशवार्षिकम् कीर्त्तिश्रीपुत्त्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ॥ द्वादशस्वपि मासेषु प्रकुर्य्यादिह जागरम् । यतीन् द्वादश संपूज्य दीपदः स्वर्गमाप्नुयात् ॥” इति गारुडे शिवरात्रिव्रतकथा १२४ अध्यायः ॥



Correction: