वाचस्पत्यम्
शिवलिङ्ग || न० ६ त० । शिवस्य लिङ्गाकारे प्रस्तरादिमये पदार्थे तदाविर्भावपूज्यतादिक यथा “प्तत्राषि गत्वा मदनो ददर्श वृषकेतनम् । दृष्ट्वा प्रहर्त्तु कामोऽथ ततः स प्राद्रवद्धर । ततो दारुवनं घोरं मदनाभिसृतो हरः । विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः । ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नता- भवन् । ततस्तान् प्राह भगवान् भिक्षां मे प्रति दीय- नाम् । ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः । तदाश्रमाणि पुण्यानि परिचक्राम नारद! । तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः । प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः । ऋते त्वरुन्धतीमेकामनसूयाञ्च भाविनीम् । एताभ्यां भर्तृपूजासु कृतं वे सुस्थिरं मनः । ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः । तत्र प्र- यान्ति कामार्त्ता मदविह्वलितेन्द्रियाः । त्यक्त्वाश्रमाणि शून्यानि स्वानि ता मुनियोषितः । अनुजग्मुर्यथा मर्त्तं करिण्य इव कुञ्जरम् । ततस्तु ऋषयो दृष्ट्वा भार्गवा- ङ्गिरसो मुने! । क्रोधान्विताब्रुवन् सर्वे लिङ्गोऽस्य पततां भुवि । ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् । अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः । ततः स पतितो लिङ्गो विभिद्य वसुधातलम् । रसातलं विवे- शाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् । ततश्चचाल पृथिवी गिरयः सरितो नगाः । पातलभुवनाः मर्वे जङ्गमाऽज- ङ्गमाः स्थिताः । संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः । जगाम माधवं द्रष्टुं क्षीराटं नाम साग- रम् । तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः । उवाच देव! भुवनाः किमर्थं क्षुभिता विभो! । अथोवाच हरि- र्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः । पतितस्तस्य भारार्त्ता सञ्चचाल वसुन्धरा । ततस्तदद्भुतमयं श्रुत्वा देवः पि- तामहः । तत्र गच्छा देयेश एवमाह पुनः पुनः । ततः पितामहो देवः केशवश्च जगत्पतिः । आजगाम तमुद्देशं यत्र लिङ्गं भवस्य तत् । ततोऽनन्तं हरि- र्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् । पातालं प्रविवेशाथ विस्म- यात् त्वरितो विभुः । ब्रह्मा पद्मविमानेन उर्द्ध्वमाक्रम्य सर्वनः । नैवान्तमलभद् ब्रह्मा विस्मितः पुनरागमः । वि- ष्णुर्गत्वाथ पातालं सप्तलोकपरायणः । चक्रपाणिविंनिष्- क्तान्तो सेभेऽन्तं न महामुने!” इत्युपक्रमे “हरा उवाच यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ! । तदेतत्- प्रतिगृह्णीयां नान्यथति कथञ्चन । ततः प्रोवाच भगवाने- वमस्त्विति केशवः । ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनक- पिङ्गलम् । ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने । शास्त्राणि चैषां सुख्यानि नानोक्तिविदितानि च । आद्यं शैवं १ परिख्यातमन्यत् पाशुपतं २ मुने! । तृतीयं कालवदनं ३ चतुर्थञ्च कपालिकम् ४ । शैव आसीत् स्वयं शक्तिर्वशिष्ठस्य प्रियः सुतः । तस्य शिष्यो बभूवाथ गो- पायन इति श्रुतः । महापाशुपतस्त्वासीद्भारद्वाजस्तपो- धनः । तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः । कालास्यो भगवानासीदापस्तम्बस्तपोधनः । तस्य शिष्यो वको वैश्यो नाम्ना क्राथेश्वरो मुने । महाव्रती च धनद- स्तस्य शिष्यश्च वीर्य्यवान् । कुन्दोदर इति ख्यातो जात्या शुद्रो महातपाः । एवं स भगवान् व्रह्मा पूजनाय शिवस्य च । कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः । गते ब्रह्मणि सर्वोऽपि ततः संहृत्य तं तदा । लिङ्गं चित्रवनं, सूक्ष्मं प्रतिष्ठाप्य चचार ह” । वामनपु० ६ अ० । एकगृहे लिङ्गद्वयार्चननिषेधो यथा “गेहे लिङ्गद्वयं नार्च्यं शालग्रामद्वयं तथा । द्वे चक्रे द्वारकायास्तु नार्च्यं सूर्य्यद्वयं तथा” । तन्निर्माल्यभक्षणविधिनिषेधौ यथा “अभक्ष्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् । शाल- ग्रामशिलायोगात् पावनं तद्भवेत् सदा” । “लिङ्गपूजां विना देवि! अन्यपूजां करोति यः । विफला तस्य पूजा स्यादन्ते नरकमाप्नुयात् । तस्माल्लिङ्गं प्रयत्नेन प्रथमं प- रिपूजयेत्” । तत्पूजनप्रशंसा यथा “यद्राष्ट्रं लिङ्गपू- जायां रहितं संततं प्रिये! । तद्राष्ट्र पतितं मन्ये विष्ठाभूमिसमं स्मृतम्” । “ब्रह्मा विट् क्षत्रियो देवि! यदि लिङ्गं न पूजयेत् । तत्क्षणात् परमेशानि! त्रयं चाण्डालतां व्रजेत् । शूद्रश्च परमेशानि! सदा शूकरवत् प्रिये! । पूजयेत् परमेशानि! चत्वारो ब्रह्मणादयः । शिवार्च्चनन्तु पूजासु यद्गृहे वर्जितं सदा । विष्ठागर्त्त समं देवि! तद्गृहं विद्धि पार्वति! । शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि! । आदौ लिङ्गं समभ्यर्च्य बिल्वपत्रैर्वरानने! । पश्चादन्यं महेशानि! शिवं प्रार्थ्य- प्रपूजयेत् । शिवपूजां विना देवि! अन्यपूजां करोति यः । स एव रसनाहीनः कुम्भीरो जायते प्रिये! । निर्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् । आशुतोषं महादेवं शङ्करं वृषभध्वजम् । निर्माय पाषितं लिङ्गं विधिवत् पूजयेत् शिवम् । शिवपूजा महेशानि! यदु- गृहे सततं प्रिये! । काशीपुरं महेशानि! तद् गृह वर- वर्णिनि! । शिवलिङ्गं प्रपूज्याथ सर्वपूजाफल लभेत्” । चतुर्विधलिङ्गं यथा “चतुर्द्धा पार्थिवं लिङ्ग मृतस्ना- भेदेन पार्वति! । शुक्लं रक्तं तथा पीतं कृष्णञ्च परमे- श्वरि! । शुक्लन्तु ब्राह्मणे शस्तं, क्षत्रिये रक्तमिष्यते । पीतं च वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम् । चान्द- नञ्च महेशानि! सर्वजातिषु शस्यते” । लिङ्गार्चनतन्त्रे १ । २ । ३ प० । अस्य पञ्च वक्त्राणि यथा “तत् सर्वं शृणु चार्कङ्गि पार्थिवस्य मुखं प्रिये! । विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि! । सद्योजातं वामदेवमघोरञ्च ततः परम् । तत्पुरुषं तथेशानं पञ्चवक्त्वं प्रकीर्त्ति- तम् । सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् । कृष्णवर्ण- मघोरञ्च समं भीमविवर्द्धनम् । रक्तं तत्पुरुषं देवं दिव्यमूर्त्ति मनोहरम् । श्यामलञ्च तथेशानं सर्वदेव शिवात्मकम् । चिन्वयेत् पश्चिमे चाद्यं द्वितीयन्तु तथो- त्तरे । अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा । ईशानो मध्यतोध्येयं चिन्तयेत् भक्तितत्परः” । तत्रैव ६ प्रटलः । अथ रौद्रलिङ्गलक्षणम्, वीरमित्रोदयधृते “नदीसमुद्भवं रौद्रमन्योन्यस्य विथर्षणात् । नदी- वेगात् समं स्निग्धं संजातं रौद्रमुच्यते” । समुच्चयेऽपि “सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति । तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् । नदीसारनर्मदायां वण लिङ्गसमाकृति । तदन्यदपि वोद्धव्यं लिङ्गं रौदूं भवि- ष्यति । रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति । श्वेतं रक्तं तथा षीतं कृष्णं विप्रादिपूजितम् । स्वभावात् कृष्ण- वर्णं वा सर्वजातिषु सिद्धिदम् । नर्मदासम्भवं रौद्रं वाणलिङ्गवदीरितम्” । दैवलिङ्गमधिकृत्य सिद्धान्तशेखरे “करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् । रेखाकोटरसं- युक्तं निम्नोन्नतसमन्वितम् । दीर्वाकारञ्च यल्लिङ्गं ब्रह्म- भानादिवर्जितम्” । अथ गोललिङ्गलक्षणम् “लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना । कुष्माण्डस्य कलाकारं नागरङ्गफलोपमम् । काकडिम्बफलाकारं गोललिङ्गमितीरितम्” । अथार्षलिङ्गलक्षणम् । तत्रैव “मालाकोलफलाकारं ब्रह्मसूत्रविवर्जितम् । मूले स्थू- मञ्च गलिङ्गं कपित्थफलसन्निभम् । तालस्य वा फला- कारं मध्ये स्थूलञ्च यद्भवेत् । मध्ये स्थूस्तं वरं लिङ्ग मृषिलिङ्गमुदीरितम्” । लिङ्गं च द्विविधमकृत्रिमं कृत्रिमञ्च अकृत्रिमं स्वयम्भुवाणलिङ्गादि स्वयम्भूतम् । कृत्रिमं धातुलिङ्गादिनिर्मितम् । सिद्धान्तशेखरे “तल्लिङ्गं द्विविधं ज्ञेयमचलञ्च चलं तथा । प्रत्येकं त्रिविधं ज्ञेय लिङ्गं तदुभयात्मकम् । प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् । स्थापितमचलं गेहे स्थिरं लिङ्ग- मयोजिते । पञ्चधा तत स्थितं लिङ्गं स्वयम्भु दैवपालि- तम् । आर्षञ्च मामसं लिङ्गं तेषां लक्षणमुच्यते । नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम् । अदृष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते । तल्लिङ्गन्तु खयम्भू- तमषरं लक्षणच्युतम् । स्वयम्भुलिङ्गमित्युक्तं तच्च नानाविधं मतम् । शङ्खाभमस्तकं लिङ्गं वैष्णवं तदु- दाहृतम् । पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमुच्यते । शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमोरितम् । खड्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति । वायव्यं ध्वजब- ल्लिङ्गं कौवेरन्तु गदान्वितम् । ईशानस्य त्रिशूलाभं लो- कपालादि निःसृतम् । सयम्भुलिङ्गमाख्यातं सर्वशास्त्र विशारदैः” । मत्स्यसूक्ते “दृष्ट्वा लिङ्गं महेशस्य स्वय- म्भूतस्य पार्वति! । सर्वपाधविनिर्मुक्तः परे ब्रह्मणि ली- यते” । एतेषां पूजाफलन्तु तत्रैव “विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः । पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः । एवं वै दारुजं ज्ञेयं धातुलिङ्गं तथा पुनः । स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यपदञ्च तत् । पुत्रवृद्धिकरं ताम्रं राङ्गभायुःप्रवर्द्धनम्” पद्मपु० “पारदञ्च महाभूत्यै सौभाम्याय च मौक्तिकम् । चान्द्र कान्तं मृत्युजित् स्याद्धाटकं सर्वकामदम्” । वी० मि० धृत कल्पोत्तरेऽपि “सर्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि । अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः । रात्रौ प्रकाशकाः सर्वे विषाद्याधातकारिणः । नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः । वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनिर्मितम् । सर्वकामप्रदं पुंषां लिङ्गं तात्- कालिकं मतभ्” । लक्षणसमुच्चये “गान्धं सौभाग्यदं लिङ्गं पौष्पं मुक्तिप्रदायकम्” । तथा “नानागुणोद्भवं लिङ्गं नानाकामप्रदायकम् । सैकतं गुणदं लिङ्गं सौ- भाग्याय च कावणम् । उच्चाटनै तु पालाशं भास्मं शत्रुक्षयावहम् । तात्कालिकं दरिद्रश्च कृत्वा भक्त्या सम- र्चयेत्” । तथा “कुस्तूरिकाया द्वौ भागौ चत्वारश्चन्द- मस्य च । कुङ्कुमस्य त्रवश्चैव शशिना च चतुःसमम् । एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः । शिवसा- युज्यमाप्तोति बन्धुभिः सहितो नरः । कार्य्यं पुष्पभयं लिङ्गं हयगन्धसमन्वितम् । नवखण्डां धरां भुक्त्वा गणेशोऽधिपतिर्भवेत् । रजोभिर्निर्मितं लिङ्गं यः पूज- यति भक्तितः । विद्याधरपदं प्राप्य पश्चात् शिवसमी भ- वेत् । श्रीकामो गोशकृल्लिङ्गं कृत्वा मक्त्या प्रपूजयेत् । स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् । कार्य्यं च षष्टिजं लिङ्गं यवगोधूमशालिजस् । श्रीकामः पुष्टिकामश्च पुत्रकामस्तदर्चयेत् । सिताखण्डमयं लिङ्गं कार्य्यमा- रोम्यवर्द्धनम् । वश्ये लवणजं लिङ्गं तले त्रिकटुका- न्वितम् । गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् । लव- णेन च सौभाग्यं पार्थिवं सर्वकामदम् । कामदं तिल- पिष्टोत्थं तुषोत्थं मारणे स्मृतम् । भस्मोत्थं सर्वफलदं गुडोत्थं प्रीतिवर्द्धनम् । गन्धोत्यं गुणदं भूरिशर्करोत्थं सुखप्रदम् । वांशाङ्कुरं वंशकरं गोमयं सर्वरोगदम् । केशास्थिसम्भवं लिङ्गं सर्वशत्रुविनाशनम् । क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् । दारिद्र्यदं द्रुमोद्भूतं पैष्टं स्परस्वतप्रदम् । दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मी सुखप्रदम् । धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत् । पुष्पोत्थं दिव्यभोनायुर्मुक्त्यै धात्रीफलोद्भवम् । नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् । दूर्वा- काण्डसमुद्भूतमपमृत्युविनाशनम् । कर्पूरसम्भवं लिङ्गं कलायैर्भुक्तिमुक्तिदम् । आयख्यान्तं चतुर्द्ध्यं तु ज्ञेयं सामान्यसिद्धिषु” गरुडपु० । “सर्व मणिभवं श्रेष्ठं तत्र वाज्रमरिच्छिदे । यमलिङ्गं भहाभूत्यै सौभाग्याय च मौक्तिकम् । पुष्टिभूलं महानीलं ज्योतिस्तीरसमुद्भ वम् । स्पर्शकं कुलसम्बत्त्यै तैजसं सूर्यकान्तजम् । चन्द्रा- पीडं मृत्युजिते स्फाटिकं सर्वकामदम् । शूलाख्य- मणिजं शत्रुक्षयार्थं मौक्तिकं तथा । आवत्थं हीरकं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् । शुभकृत् पुष्कलं तीर्थे वैदूर्य्यं शत्रुदर्पहृत् । नीलं सक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्वकाम- दम्” । सारसंग्रहे “महाभुक्तिप्रदं हैमं राजतं भूति- वर्द्धनम् । आरकूटं तथा कांस्यं शृणु सामान्यमुक्ति- दम् । त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् । कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्रवर्द्धनम् । पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्वसिद्धिदम्” कालोत्तर- तन्त्रम् । तत्रैव शिवनारदसंवादे “पितॄणां मुक्तयें लिङ्गं पूज्यं रजतसम्भवम् । हैमजं सत्यलोकस्य प्रा- प्तये पूजयेत् पुमान् । पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः” । मत्स्यसूक्ते “ताम्रलङ्गं कलो नार्च्यं रैत्यस्य सीसकस्य च । रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा” । मातृकाभेदतन्त्रे १२ पटले “पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् । पाषाणे शिवपूजायां द्विगुणं फलमीरितम् । स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् । सर्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् । ताम्रेपुष्टिं विजानीयात् कांस्ये च धनसंक्षयः । गङ्गा- याञ्च लक्षगुणं लाक्षायां रोगवान् भवेत्! । स्फाटिके सर्वसिद्धिः स्यात् तथा मारकते प्रिये! । लौहलिङ्गे रि- पोर्नाशं कामदं भस्मलिङ्गकम् । बालुकायां काम्यसिद्धि- र्गोमये रिपुहंसनम् । सर्वलिङ्गस्य माहात्म्यं धर्मकामा- र्थमोक्षदम् । संस्कारेण विना देवि! पाषाणादौ न पूजयेत्” । “मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम् । एतदन्यन्न कुर्वीत कदाचिदपि पार्वति!” मातृकाभेदतन्त्रे ७ प० । “मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम् । त्रिसू- त्रस्य प्रमाणेन घटनं कारयेद् बुधः । अङ्गुष्ठपर्वमानन्तु कृत्वा लिङ्गं प्रपूजयेत्” विश्वसारतन्त्रम् । त्रिसूत्रीक- रणमुक्तं कालात्तरे “लिङ्गे वेद्यां तथा पीठे समसूत्र- निपातनात् । समञ्चैव विजानीयात् त्रिसूत्रीकरण- न्त्विदम्” । ब्राह्मणादीनां भृत्तिकाभेदेन पूजाफल प्रशंसा तत्रोक्ता यथा “शुक्लं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् । स एव विप्रो देवेशि! त्रिवर्गफलभाग्- भवेत् । क्षत्रियस्तु वरारोहे! रक्तं निर्माय पार्थि- वम् । पूजयेत् सततं यस्तु त्रिवर्गफलभाग्भवेत् । पीतं तु पार्थिवं देवि! निर्माय यस्तु पूजयेत् । स च वैश्यो महेशानि । त्रिवर्गफलभाग्भवेत् । कृष्णं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् । स शूद्रः परमेशानि! त्रिवर्गफलभाग्भवेत् । शिलादौ च महेशानि! स्थूलञ्च फलदायकम् । अङ्गुष्ठमानं देवेशि! यद्वा हेमाद्रिमान- कम् । क्रमेण देवदेवेशि! फलं बहुबिधं स्मृतम् । स्थूलात् स्थूलतरं लिङ्गं रुद्राक्ष परमेश्वरि! । पूजना द्धारणाद्वापि फलं बहुविधं स्मृतम्” । स्थूलतरमिति पार्थिवलिङ्गेतरपरम् मृत्तिकातोलकं ग्राह्यमित्या दिवचनात् । शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकर- णमुक्तम् लैङ्गे “शिवलिङ्गस्य यन्मानं तन्मानं दक्ष सव्ययोः । योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत्” । “लिङ्गस्य यादृग्विस्तारः परिणामोऽपि तादृशः । लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसंमिता । कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित् । रत्नादि- शिवनिर्माणे मानमिच्छावशाद्भवेत्” । तन्त्रान्तरम् । लिङ्गशब्दव्युत्पत्तिर्यथा “आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका । आलयः सर्वदेवानां लयना- ल्लिङ्गमुच्यते” स्कन्दपु० । “एकहस्तेन निर्माय प्रार्थिवं लिङ्गमर्चयेत् । लक्षलिङ्ग- पूजनस्य फलमाप्नोत्यसंशयम् । तदेव स्याच्छतगुणं वाम- हस्तेन निर्मितम् । मृदाहरणकेशादि शोधनञ्चैव पा- णिना । “एवं कृते तु गृहिणां संसारात् स विमु- ञ्चतिः । द्व्याधिकैर्विं शतिपलैर्मृद्भिः शैवं प्रयत्नतः । लिङ्गं निर्माय देवेशि! पूजयेद्भक्तिसंयुतः” तन्त्रसारः ।
शब्दकल्पद्रुमः
शिवलिङ्गं || क्ली (शिवस्य लिङ्गम् ।)
महादेवस्य शेफः । तस्योत्पत्तिर्यथा, —
“तत्रापि गत्वा मदनो ददर्श वृषकेतनम् । दृष्ट्वा प्रहर्त्तुकामोऽस्य ततः स प्राद्रवद्धरः ॥ ततो दारुवनं घोरं मदनाभिसृतो हरः । विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥ ते चापि ऋषयः सर्व्वे दृष्ट्वा मूर्ध्ना नताभवन् । ततस्तान् प्राह भगवान् भिक्षां मे प्रतिदीयताम् ततस्ते मौनिनस्तस्थुः सर्व्व एव महर्षयः । तदाश्रमाणि पुण्यानि परिचक्राम नारद ! ॥ तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः । प्रक्षोभमगमन् सर्व्वा हीनसत्त्वाः समन्ततः ॥ ऋते त्वरुन्धतीमेनामनसूयाञ्च भाविनीम् । एताभ्यां भर्त्तृपूजासु कृतं वै सुस्थिरं मनः ॥ ततः संक्षुभिताः सर्व्वा यत्र याति महेश्वरः । तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥ त्यक्त्वाश्रमाणि शून्यानि खानि ता मुनियोषितः । अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥ ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने । क्रोधान्विताब्रुवन् सर्व्वे लिङ्गोऽस्य पततां भुवि ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् । अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥ ततस्तत्पतितं लिङ्गं विभिद्य वसुधातलम् । रसातलं विवेशाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् ॥ ततश्चचाल पृथिवी गिरयः सरितो नगाः । पातालभुवनाः सर्व्वे जङ्गमाजङ्गमाः स्थिताः ॥ संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पिता- महः । जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥ तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः । उवाच देव भुवनाः किमर्थं क्षुभिता विभो ॥ अथोवाच हरिर्ब्रह्मन् शार्व्वं लिङ्ग महर्षिभिः । पातितन्तस्य भारार्त्ता सञ्चचाल वसुन्धरा ॥ ततस्तदद्भुतमयं श्रुत्वा देवः पितामहः । तत्र गच्छामि देवेश एवमाह पुनः पुनः ॥ ततः पितामहो देवः केशवश्च जगत्पतिः । आजगाम तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥ ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् । पातालं प्रविवेशाथ विस्मयात्त्वरितो विभुः ॥ ब्रह्मा पद्मविमानेन ऊर्द्ध्वमाक्रम्य सर्व्वगः । नैवान्तमलभद्ब्रह्मा विस्मितः पुनरागतः ॥ विष्णुर्गत्वाथ पातालं सप्तलोकपरायणः । चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥ विष्णुं पितामहश्चाह हरिर्ब्रह्माणमाह च । नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज । जीमूतवाहन कवे सर्व्वत्र्यम्बक शङ्कर ॥ महेश्वर हरेशान सुवर्णाक्ष वृषाकपे । दक्षयज्ञक्षयकर काल रुद्र नमोऽस्तु ते ॥ त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वरः । भवानन्तश्च भगवान् सर्व्वगस्त्वं नमोऽस्तु ते ॥ पुलस्त्य उवाच । एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः । सुरूपी ताविदं वाक्यमुवाच वदतां वरः ॥ हर उवाच । किमर्थं देवतानाथौ परिभूतक्रमन्त्विह । मां स्तुवाते भृशासुस्थं कामतापितविग्रहम् ॥ देवावूचतुः । तवाङ्गपातितं लिङ्गं यदेतद्भुवि शङ्कर । एतत् प्रगृह्यतां भूयस्ततो देव वदावहे ॥ हर उवाच । यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ । तदेतत् प्रतिगृह्णीयात् नान्यथेति कथञ्चन ॥ ततः प्रोवाच भगवानेवमस्त्विति केशवः ॥ ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनकपिङ्गलम् । ततश्चकार भगवांञ्चातुर्वर्ण्यं हरार्च्चने ॥ शास्त्राणि चैषां मुख्यानि नानोक्तिविदि- तानि च । आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ॥ तृतीयं कालवदनं चतुर्थञ्च कपालिनम् । शैव आसीत् स्वयं शक्त्रिर्वशिष्ठस्य प्रियः सुतः ॥ तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः । महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः ॥ तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः । कालास्यो भगवानासीदापस्तम्बस्तपोधनः ॥ तस्य शिष्यो वको वैश्यो नाम्ना क्राथेश्वरो मुने । महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् ॥ कुन्दोदर इति ख्यातो जात्या शूद्रो महातपाः एवं स भगवान् ब्रह्मा पूजनाय शिवस्य च ॥ कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः । गते ब्रह्मणि सर्व्वोऽपि तपः संहृत्य तं तदा ॥ लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥” इति वामनपुराणे ६ अध्यायः ॥ * ॥
अपिच । “ततः सृष्टिं चिन्तयतो ब्रह्मणो मोहितस्य च । बालिखिल्याः समुत्पन्नास्तपस्तप्तं समारभन् ॥ दिव्यं वर्षसहस्रं वै तेपुस्ते दुश्चरं तपः । ततः कालेन महता पार्व्वती च पतिव्रता ॥ तेषां तपः समालोक्य चाति देवी सुदुःखिता । प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता ॥ क्लिश्यन्ति बालिखिल्याश्च प्रसादार्थं तव प्रभो । एतेभ्योऽपि प्रियं देव विधिवत् कुरु सेवया ॥ तच्छ्रुत्वा वचनं देव्याः पिनाकी परचिन्तकः । प्रोवाच कान्ते कालञ्च वचनं प्रियया सह ॥ न वेत्सि देवि तत्त्वेन धर्म्मस्य गहना गतिः । नैते धर्म्मं विजानन्ति यथार्थं धर्म्मचारिणः ॥ न दास्यामि वरं तेभ्यो यस्मात्ते मूढबुद्धयः । एतत् श्रुत्वाब्रवीत् देवी मा मैवं शंसितव्रताः ॥ ततो रुद्र उवाचेदं देवी देवः स्मिताननः । तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिसत्तमाः ॥ इत्युक्ता तु ततो देवी शङ्करेण महात्मना । गच्छस्वे त्याह मुदिता भर्त्तारं भुवनेश्वरी ॥ यत्र ते मुनयः सर्व्वे काष्ठलोष्टसमाश्रिताः । तान् विलोक्य ततो देवो नग्नः सर्व्वाङ्गसुन्दरः ॥ वनमालाकृतापीडो युवा भिक्षाकपालभृत् । आश्रमे पर्य्यटन् भिक्षां मुनीनां नियतात्मनाम् ॥ देहि भिक्षां ततश्चोक्त्वा स भ्रमन्नाश्रमं ययौ । तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् ॥ सकौतुकस्वभावेन तस्य रूपेण मोहिताः । प्रोचुः परस्परं कार्य्यमस्ति पश्याम भिक्षुकम् ॥ परस्परमितीवोक्त्वा गृह्य मूलफलं बहु । गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ॥ तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्ताः स्मरातुराः नार्य्य ऊचुः । कौऽसौ नाम व्रतविधिस्तया तापस सेव्यते । यत्र नग्नेन लिङ्गेन वनमालाविभूषितः ॥ भवान् वै तापसो हृद्यो हृद्याः स्मो यदि मन्यसे । इत्युक्तस्तापसस्ताभिः प्रोवाच हसिताननः ॥ इदं मम व्रतं किञ्चिन्न रहस्यं प्रकाशते । शृण्वन्ति बहवो यत्र तत्र तत्र न विद्यते ॥ तस्य व्रतस्य सुभगा इति मत्वा भविष्यथ । एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् ॥ ततोऽभ्येत्य गमिष्यामो मुने नः कौतुकं महत् इत्युक्त्वा तास्तदातीव जगृहुः पाणिपल्लवैः ॥ काचिच्चकर्ष बाहुभ्यां काचित् कामपरा तथा जानुभ्यामपरा नाभ्यां कचेषु ललनापरा ॥ अपरा तु कटीबन्धे चापरा पादयोरपि ! क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् ॥ हन्यतामिति संभाष्य काष्ठपाषाणपाणयः । पातयन्ति च देवस्य लिङ्गमुद्बुध्य भीषणम् ॥ पातिते तु ततो लिङ्गे गतोऽन्तर्द्धानमीश्वरः । देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः ॥ पतिते देवदेवस्य लिङ्गे नष्टे चराचरे । क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् ॥ उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः । विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टि- तम् ॥ एवमुक्त्वा सर्व्व एव ऋषयो लज्जिता भृशम् । ब्रह्मणः सदनं जग्मुर्देवैः सह निषेवितम् ॥ ऋषय ऊचुः । अज्ञानाच्च कृतं ब्रह्मन्नस्माभिर्ज्ञानदुर्ब्बलैः । तस्योपशमने यत्नं कुरु सर्व्वोपकारक ॥ ब्रह्मोवाच । गच्छामः शरणं देवं शूलपाणिं त्रिलोचनम् । प्रसादाद्देवदेवस्य भविष्यथ यथा पुरा ॥ इत्युक्त्वा ब्रह्मणा सार्द्धं कैलासं गिरिमुत्तमम् । ददृशुस्ते समासीनमुमया सहितं हरम् ॥ ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः । अनन्ताय नमस्तुभ्यं वरदाय पिनाकिने ॥ एवं स्तुतो महादेवो ब्रह्मणा ऋषिभिस्तथा । उवाच मां मा व्रजतु लिङ्गं भोः पुरतः पुनः ॥ क्रियतां मद्वचः शीघ्रं येन मे प्रीतिरुत्तमा । भविष्यति प्रकृष्टा या लिङ्गस्यात्र न संशयः ॥ ये लिङ्गं पूजयिष्वन्ति मम भक्तिसमाश्रिताः । न तेषां दुर्लभं किञ्चित् भविष्यति हितं फलम् ॥” इति वामने ४२ अध्यायः ॥ * ॥
कुरुक्षेत्रस्थितानि लिङ्गानि यथा, — सनत्कुमार उवाच । “वटस्य दक्षिणे भागे चक्रतीर्थं प्रकीर्त्तितम् । स्थाणोर्वटस्य पूर्व्वेण मम तीर्थं प्रकीर्त्तितम् ॥ स्थाणोर्वटस्योत्तरतस्तीर्थं गाणेश्वरं मतम् । स्थाणोटर्वस्य पश्चिमतः स्कन्दतीर्थं प्रकीर्त्तितम् ॥ इमानि पुण्यतीर्थानि मध्ये रुद्रवटः स्थितः । महादेवं समभ्यर्च्च्य प्राप्नोति परमं पदम् ॥ वटस्य चोत्तरे पार्श्वे तक्षकेण महात्मना । प्रतिष्ठितं महालिङ्गं सर्व्वकामप्रदायकम् ॥ वटस्य पूर्व्वदिग्भागे विश्वकर्म्मकृतं महत् । लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः ॥ तत्रैव लिङ्गरूपेण संस्थिता या सरस्वती । तां प्रणम्य प्रयत्नेन बुद्धिं मेधाञ्च विन्दति ॥ वटपार्श्वस्थितं लिङ्गं ब्रह्मणा तत् प्रतिष्ठितम् । दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम् ॥ ततः स्थाणुवटं दृष्ट्वा कृत्वा चापि प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्त द्वीपा वसुन्धरा ॥ स्थाणोः पश्चिमदिग्भागे नकुलीशो गणः स्मृतः । तमभ्यर्च्च्य प्रयत्नेन सर्व्वपापैः प्रमुच्यते ॥ तस्य दक्षिणदिग्भागे तीर्थं रुद्राकरं स्मृतम् । तस्मिन् स्नातः सर्व्वतीर्थस्नातो भवति मानवः ॥ तस्य चोत्तरदिग्भागे रावणेन महात्मना । प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः ॥ आषाढमासे या कृष्णा भविष्यति चतुर्दशी । तस्यां पश्यति गोकर्णं तस्य पुण्यफलं शृणु ॥ कामतोऽकामतो वापि यत् पापं तेन सञ्चि- तम् । तस्माद्विमुच्यते पापात् पूजयित्वा हरं शुचिः ॥ कौमारब्रह्मचर्य्येण यत् पुण्यं प्राप्यते नरैः । तत् पुण्यं सकलं तेषामष्टम्यां योऽर्च्चयेच्छिवम् यदिच्छेत् परमं रूपं सौभाग्यं धनसम्पदम् । कुमारेश्वरमाहात्म्यात् सिध्यते नात्र संशयः ॥ तस्य चोत्तरदिग्भागे लिङ्गपूजां विभीषणः । अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥ आषाढस्य तु मासस्य शुक्ला या चाष्टमी भवेत् । तस्याम्पूज्य सोपवासश्चामृतत्वमवाप्नुयात् ॥ पूर्व्वैश्च पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम । पूजयित्वा प्रयत्नेन सर्वकाममवाप्नुयात् ॥ दूषणस्त्रिशिराश्चैव तत्र पूज्य महेश्वरम् । यथाभिलषितान् कामानवापतुर्मुदान्वितौ ॥ चैत्रे मासि सिते पक्षे यो नरस्तत्र पूजयेत् । तस्य तौ वरदौ देवौ प्रयच्छेतां हि वाञ्छितम् ॥ स्थानोर्वटस्य पूर्व्वेण हस्तिपादेश्वरः स्थितः । तं दृष्ट्वा मुच्यते पापैरन्यजन्मसमुद्भवैः ॥ तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेः स्थितम् । यं प्रणम्य प्रयत्नेन सिद्धिमाप्तोति मानवः ॥ तस्य दक्षिणपार्श्वे तु हारितस्य महात्मनः । लिङ्गं त्रैलोक्यविख्यातं सर्व्वपापहरं शिवम् ॥ कङ्कालरूपिणा चापि रुद्रेणाशु महात्मना । प्रतिष्ठितं महालिङ्गं सर्व्वपापविनाशनम् ॥ भुक्तिमुक्तिप्रदं प्रोक्तं सर्वकिल्विषनाशनम् । तल्लिङ्गस्पर्शनादेव अग्निष्टोमफलं लभेत् ॥ तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम् । सिद्धेश्वरं भुवि ख्यातं सर्व्वसिद्धिप्रदायकम् ॥ तद्दर्शनात् पूजनाच्च सर्व्वसिद्धिं हि बिन्दति । तस्य दक्षिणदिग्भागे मृकण्डेन महात्मना ॥ प्रतिष्ठितं यत्तु लिङ्गं दर्शनात् सिद्धिदायकम् । तस्य पूर्व्वे च दिग्भागे आदित्येन महात्मना ॥ प्रतिष्ठितं लिङ्गवरं सर्व्वकिल्विषनाशनम् । चित्राङ्गदस्तु गन्धर्व्वो रम्भा चाप्सरसां वरा ॥ परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ । दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम् ॥ आगम्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् । चित्राङ्गदेश्वरं दृष्ट्वा तथा रम्भेश्वरं हिज ॥ सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् । तस्य दक्षिणतो लिङ्गं शक्त्रिणा स्थापितं पुरा ॥ तस्य प्रसादात् सम्प्राप्तं मनसाचिन्तितं फलम् । पराशरेण मुनिना तथैवाराध्य शङ्करम् ॥ प्राप्तं कवित्वं परमं दर्शनाच्छङ्करस्य च । वेदव्यासेन मुनिना चाराध्य परमेश्वरम् ॥ सर्व्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः । स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना ॥ प्रतिष्ठितं महालिङ्गं दर्शनात् पापनाशनम् । तस्यापि दक्षिणे भागे लिङ्गं हैमवतेश्वरम् ॥ प्रतिष्ठितं पुण्यकृता दर्शनात् सिद्धिदायकम् । तस्यापि पश्चिमे भागे कार्त्तवीर्य्येण स्थापितम् ॥ लिङ्गं पापहरं सद्यो दर्शनात् पुण्यमाप्नुयात् । तस्याप्युत्तरदिग्भागे तत्पार्श्वे स्थापितं पुनः ॥ आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः । तस्यैव पूर्व्वदिग्भागे विष्णुना प्रभविष्णुना ॥ आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् । तस्यापि पूर्व्वदिग्भागे इन्द्रेण वरुणेन च ॥ प्रतिष्ठितौ लिङ्गवरौ सर्व्वकामप्रदायकौ । एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा ॥ सेवितानि प्रयत्नेन सर्व्वपापहराणि वै । स्थाणुलिङ्गस्य परितः ऋषिभिस्तत्त्वदर्शिभिः ॥ प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते । तथाह्युत्तरतश्चैव यावदोघवती नदी ॥ सहस्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् । तस्यापि पूर्वदिग्भागे बालिखिल्यैर्म्महर्षिभिः ॥ प्रतिष्ठिता रुद्रकोटिर्यावत् सन्निहितं सरः । दक्षिणेन तु देवस्य गन्धर्व्वैर्यक्षकिन्नरैः ॥ प्रतिष्ठितानि लिङ्गानि तेषां संख्या न विद्यते । तिस्रः कोट्यर्द्धकोटी च लिङ्गानां वायुरब्रवीत् ॥ असंख्याताः सहस्राणि ये रुद्रा स्थाणु- माश्रिताः । एतज्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत् ॥ यस्य प्रमादात् प्राप्नोति मनसा चिन्तितं फलम् अकामो वा सकामो वा प्रतिष्ठ्य स्थाणु- मन्दिरम् ॥ विभुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् । चैत्रमासे त्रयोदश्यां दिने पुण्यतमे शुभे ॥ प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा । ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥ तस्मिन् काले निराहारा मानवाः श्रद्धया- न्विताः । पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥ स्थाणुतीर्थमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम् । प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वमुन्धरा ॥” इति वामणपुराणे ४३ अध्यायः ॥ * ॥
एकगृहे लिङ्गद्वयार्च्चननिषेधो यथा, —
“गेहे लिङ्गद्वयं नार्च्च्यं शालग्रामद्वयं तथा । द्वे चक्रे द्वारकायास्तु नार्च्च्यं सूर्य्यद्वयं तथा ॥” तन्निर्म्माल्यभक्षणविधिनिषेधो यथा, —
“अभक्ष्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलायोगात् पावनं तद्भवेत् सदा ॥” इति वाराहे रौप्यसौवर्णार्च्चास्थापननामा- ध्यायः ॥ * ॥
लिङ्गपूजां विनान्यपूजाकरणनिषेधो यथा, —
“लिङ्गपूजां विना देवि ! अन्यपूजां करोति यः विफला तस्य पूजा स्यादन्ते नरकमाप्लुयात् । तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत ॥” * ॥
तत्पूजनप्रशंसा यथा, —
“यद्राष्ट्रं लिङ्गपूजायां रहितं सततं प्रिये । तद्राष्ट्रं पतितं मन्ये विष्ठाभूमिसमं स्मृतम् ॥ ब्रह्मक्षत्त्रियविट् देवि यदि लिङ्गं न पूजयेत् । तत्क्षणात् परमेशानि त्रयश्चाण्डालतां व्रजेत् ॥ शूद्रश्च परमेशानि सदा शूकरवत् प्रिये । पूजयेत् परमेशानि चत्वारो ब्राह्मणादयः ॥ शिवार्च्चनन्तु पूजासु यद्गृहे वर्ज्जितं सदा । विष्ठागर्त्तसमं देवि तद्गृहं विद्धि पार्व्वति ॥ शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि । आदौ लिङ्गं समभ्यर्च्च्य विल्वपत्रैर्वरानने ॥ पश्चादन्यं महेशानि शिवं प्रार्थ्य प्रपूजयेत् । शिवपूजां विना देवि ! अन्यपूजां करोति यः ॥ स एव रसनाहीनः कुम्भीरो जायते प्रिये । निर्म्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् ॥ आशुतोषं महादेवं शङ्करं वृषमध्वजम् । निर्म्माय पार्थिवं लिङ्गं विधिवत् पूजयेत् शिवम् ॥ शिवपूजा महेशानि यद्गृहे सततं प्रिये । काशीपुरं महेशानि तद्गृहं वरवर्णिनि । शिवलिङ्गं प्रपूज्याथ सर्व्वपूजाफलं लभेद् ॥” * ॥
चतुर्विधलिङ्गं यथा, —
“चतुर्द्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्व्वति । शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि ॥ शुक्लन्तु ब्राह्मणे शस्तं क्षत्त्रिये रक्तमिष्यते । हरितं वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम् । चन्दनञ्च महेशानि सर्व्वजातिषु शस्यते ॥” इति लिङ्गार्च्चनतन्त्रे १ । २ । ३ पटलाः ॥ * ॥
अस्य पञ्चवक्त्राणि यथा, —
“तत् सर्व्वं शृणु चार्व्वङ्गि पार्थिवस्य मुखं प्रिये । विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि ॥ सद्योजातं वामदेवमघोरञ्च ततः परम् । तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥ सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ कृष्णवर्णमघोरञ्च समं भीमविवर्द्धनम् । रक्तं तत्पुरुषं देवं दिव्यमूर्त्तिमनोहरम् ॥ श्यामलञ्च तथेशानं सर्व्वदेवशिवात्मकम् । चिन्तयेत् पश्चिमे चाद्यं द्वितीयन्तु तथोत्तरे ॥ अघोरं दक्षिणे देवं पूर्व्वे तत्पुरुषं तथा । ईशानं मध्यतो ध्येयं चिन्तयेत् भक्तितत्परः ॥” इति तत्रैव ६ पटलः ॥ * ॥
अस्य पूजायां मुखवाद्यकरणावश्यकत्वं यथा, “संपूज्य पार्थिवं लिङ्गं परं ब्रह्म स्वयं प्रिये । ततस्तु लिङ्गकवचं पठित्वा कमलानने ॥ मुखवाद्यं सनृत्यं हि कृत्वा तु परमेश्वरि । मातृकामन्त्रसहितं मुखवाद्यं सुदुर्ल्लभम् ॥ अकारादिक्षकारान्तं अनुलोमविलोभतः । उच्चार्य्य परमेशानि मुखवाद्यं श्रुचिस्मिते ॥ सबिन्दुवर्णमुच्चार्य्य पञ्चाशन्मातृकां प्रिये । अनुलोमविलोमेन सर्व्वेण च वरानने ॥ अनेनैव विधानेन मुखवाद्यं करोति यः । स सिद्धः सगणः सोऽपि स शिवो नात्र संशयः ॥ मृत्युञ्जयोऽहं देवेशि मुखवाद्यप्रसादतः । यस्मिन् काले महेशानि असुरो बलवद्भवेत ॥ तस्मिन् काले महेशानि मुखवाद्यं करोम्यहम् तत् श्रुत्वा परमेशानि असुरा राक्षशाश्च ये ॥ पलायन्ते महेशानि तत् श्रुत्वा परमेश्वरी । ये नरा भवि तिष्ठन्ति मखवाद्यं विना प्रिये ॥ स सर्व्वयातना भोगी अन्ते कुम्भिरतां व्रजेत् ॥” इति च तत्रैव ८ पटलः ॥ * ॥
अस्य निर्म्माल्यभोजनदोषकारणम् यथा, — देव्युवाच । “दुर्लभं तव निर्माल्यं ब्रह्मादीनां कृपानिधे । तत्कथं परमेशान निर्माल्यं तव दूषितम् ॥ ईश्वर उवाच । मध्यस्थानस्थितं यत्तु तन्मुखं परमेश्वरि । श्यामलं तत्तु ईशानं सदा उर्द्ध्वं शुचिस्मिते ॥ कालाग्निरूपिणं तत्तु सर्व्वशक्तिमयं सदा । तेजोमयं महेशानि मुखमूर्द्ध्वं वरानने ॥ क्षीरोदमथने देवि उत्थितं गरलं महत् । ततः करतलीकृत्य तद्विषं परमेश्वरि ॥ निपीतं तद्विषं सूक्ष्मं तीक्ष्णं ब्रह्माण्डनाशनम् । तद्विषं कण्ठदेशे तु स्थितं हि सर्वदा मम ॥ ततःप्रभृति देविशि मुखं ज्वालायते सदा । पत्रं वा यदि वापुष्पं फलं वा वरवणिनि ॥ अन्यं हि परमेशानि उपचारं मनोहरम् । यो दद्यात् परमेशानि मन्मुखोपरि पार्व्वति ॥ अग्राह्यं तत्तु निर्म्माल्यं साक्षाद्ब्रह्ममयं यतः एतत्तु परमेशानि निर्म्माल्यं यस्तु धारयेत् ॥ म भ्रष्टोजायते देवि निष्कृ तिर्नास्ति तत्र वै । अग्राह्यं मम निर्म्माल्यं अतएब वरानने ॥ यद्दत्तं सम्मुखे देवि षुष्पं वा पत्रमुत्तमम् । तन्निर्म्माल्यं महेशान्ति गृह्नीयात् शिरसा सदा प्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण पार्व्वति । निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥ देवासुरमनुष्याश्च गन्धर्व्वा किन्नरादयः । ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः । निर्म्माल्येषु च देवेशि अधिकारी कथं भवेत् ॥” इति च तत्रैव १३ । १४ पटलौ ॥ * ॥
“चतुर्द्दश्यां महेशानि शुक्लायां वरवर्णिनि । कृष्णायां वा महेशानि अमावास्यां विशेषतः । निर्माय च चतुर्द्दश्यां लिङ्गं भक्त्या च पूजयेत् । एकहस्ते महेशानि निर्माय पार्थिवं शिवम् ॥ दक्षिणे वामहस्ते वा निर्माय ये च पार्थिवम् । तत्फल परमेशानि लक्षलिङ्गसमं भवेत् ॥” इति लिङ्गार्च्चनतन्त्रम् ॥ * ॥
बाणलिङ्गलक्षणादिकं बाणलिङ्गशब्देद्रष्टव्यम् ॥ अथ रौद्रलिङ्गलक्षणम् । वीरमित्रोदयधृतम् । “नदी समुद्भवं रौद्रमन्योन्यस्य विघषणात् । नदीवेगात् समं स्निग्धं सजातं रौद्रमुच्यते ॥” ममुच्चयेऽपि । “सरित्प्रवाहसंस्थानं बाणलिङ्गसमाकृति । तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ॥ नदीसारनर्म्मदायां बाणलिङ्गसमाकृति । तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति ॥ रौद्रलिङ्गं तथाख्यातं बाणलिङ्गसमाकृति । श्वेतरक्तं तथा पित्तं कृष्णं विप्रादिपूजितम् ॥ स्वभावात् कृष्णवर्णं वा सर्व्वजातिषु सिद्धिदम् । नर्म्मदासम्भवं रौद्रं बाणलिङ्गवदीरितम् ॥” इति रौद्रलिङ्गलक्षणम् ॥ शिवनाभिलक्षणणं तच्छब्दे द्रष्टव्यम् ॥ * ॥
अथ दैवलिङ्गलक्षणम् । दैवलिङ्गमधिकृत्य सिद्धान्त- शेखरे । “करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् । रेखाकोटरसंयुक्तं निम्नोन्नतसमन्नितम् । दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्ज्जितम् ॥” अथ गोललिङ्गलक्षणम् । “लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना । कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् । काकडिम्बफलाकारं गोललिङ्गमितीरितम् ॥” इति गोललिङ्गलक्षणम् ॥ * ॥
अथार्षलिङ्गलक्षणम् । तत्रैव । “नानाकोलफलाकारं ब्रह्मसूत्रविवर्त्तनम् । मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम् ॥ नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् । मध्ये स्थूलं वरं लिङ्गमृषिवाणमुदीरितम् ॥” इत्यर्घलिङ्गलक्षणम् ॥ * ॥
लिङ्गं हि द्विविधमकृत्रिमं कृत्रिमञ्च । अकृ- त्रिमं स्वयम्भूतं स्वयम्भु बाणलिङ्गादि । कृत्रिमं निर्म्मितं धातुलिङ्गादि । सिद्धान्तशेखरे । “तल्लिङ्गं द्विविघं ज्ञेयमचलञ्च चलं तथा । प्रत्थेकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम् ॥ प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् । स्थापितं अचलं गेहे स्थिरं लिङ्गमयोजिते ॥ पञ्चधा तत् स्थितं लिङ्गं स्वयम्भु दैवपालकम् । आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते ॥ सिद्धान्तशेखरे । “नानाच्छ्रिद्रसुसंयुक्तं नानावर्णसमन्वितम् । अदृष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते ॥ तत् लिङ्गन्तु स्वयम्भतमपरं लक्षणाच्युतम् । स्वयम्भु लिङ्गमित्युक्तं तच्च नानाविधं मतम् ॥ शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् । पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमच्यते ॥ शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमीरितम् । खङ्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति ॥ वायव्यं ध्वजवाँल्लिङ्गं कौबेरन्तु गदान्वितम् । ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् । स्वयम्भु लिङ्गमाख्यातं सर्व्वशास्त्रविशारदेः ॥” इति स्वयम्भुलिङ्गलक्षणम् ॥ * ॥
मत्स्यसूक्ते । “दृष्ट्वा लिङ्गं महेशस्य स्वयम्भूतस्य पार्व्वति । सर्व्वपापविनिर्मुक्तः परे ब्रह्मणि लीयते ॥” * ॥
एतेषां पूजाफलन्तु तत्रैव । “विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः । पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः ॥ एवं वै दारुजं ज्ञेयं चिह्नलिङ्गं तथा पुनः । स्थिरलक्ष्मीप्रद ज्ञेयं हैमं राज्यप्रदञ्च तत् । पुत्त्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् ॥” पद्मपुराणम् । “पारदञ्च महाभूत्यै सौभाग्याय च मौक्ति- कम् । चन्द्रकान्तं मृत्युजित् स्याद्घाटकं सर्व्वकामदम् ॥” वीरमित्रोदयधृतकल्पोत्तरेऽपि । “सर्व्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि । अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः ॥ रात्रौ प्रकाशकाः सर्व्वे विषाद्याघातकारिणः । नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः ॥ वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनि- र्म्मितम् । सर्व्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम् ॥” लक्षणसमुच्चये । “गान्धं सौभ्याग्यदं लिङ्गं पौष्पं मुक्तिप्रदाय- कम् ।” तथा । “नानागुणोद्भवं लिङ्गं नानाकामप्रदायकम् । सैकतं गुणदं लिङ्गं सौभ्याग्याय च लावणम् ॥ उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् । तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत् ॥ तथा । “कस्तुरिकया द्वौ भागौ चत्वारश्चन्दनस्य च । कुङ्कुमस्य त्रयश्चैव शशिना च चतुःसमम् ॥ एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः । शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः ॥ कार्य्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् । नवखण्डां धरां भुक्तां गणेशोऽधिपतिर्भवेत् ॥ रजोभिर्निर्म्मितं लिङ्गं यः पूजयति भक्तितः । विद्याधरपदं प्राप्य पश्चात् शिवसमो भवेत् ॥ श्रीकामो गोशकृल्लिङ्गं कृत्वा भक्त्या प्रपूजयेत् स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् ॥ कार्य्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् । श्रीकामः पुष्टिकामश्च पुत्त्रकामस्तदर्च्चयेत् ॥ सिताखण्डमयं लिङ्गं कार्य्यमारोग्यवर्द्धनम् । वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम् ॥ गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् । लवणेन च सौभाग्यं पार्थिवं सर्व्वकामदम् ॥ कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् । भस्मोत्थं सर्व्वफलदं गुडोत्थं प्रीतिवर्द्धनम् ॥ गन्धोत्थं गुणदं भूरि शर्करोत्थं सुखप्रदम् । वंशाङ्कुरोत्थं वशकरं गोमयं सर्व्वरोगदम् ॥ केशास्थिसम्भव लिङ्गं सर्व्वशत्रुविनाशनम् । क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् ॥ दारिद्य्रदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम् । दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम् । धान्यदं धान्यज लिङ्गं फलोत्थं फलदं भवेत् ॥ पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धावीफलोद्भवम् । नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् ॥ दूर्वाकाण्डसमुद्भूतमपमृत्युविनाशनम् । कर्पूरसम्भवं लिङ्गं चला वै भुक्तिमुक्तिदा । अयस्कान्तं चतुर्द्धा तु ज्ञेयं सामान्यसिद्धिषु ॥” इति गरुडपुराणम् ॥ “सर्व्वं मणिभवं श्रेष्ठं तत्र वज्रमरिच्छिदि । यमलिङ्गं महाभूत्यै सौभाग्याय च मौक्तिकम् ॥ पुष्टिमूलं महानोलं ज्योतिस्तीरसमुद्भवम् । स्पशक कुलसन्नसत्यै तैजसं सूर्य्यकान्तजम् ॥ चन्द्रापीडं मृत्युजितं स्फाटिकं सर्व्वकामटम् । शूलाख्यमणिजं शत्रुक्षयाथं मौक्तिकं तथा ॥ आपत्यं हीरकं ज्ञेय रोगहृन्मौक्तिकोद्भवम् । शुभकृत् पुष्कलं तीर्थे वैदुर्य्यं शत्रुदर्पहृत् । नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्व्वकामदम् ॥” इति सारसंग्रहः ॥ “महामुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम् । आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् ॥ त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् । कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्त्रवर्द्वनम् ॥ पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्व्वसिद्धिदम् ॥” इति कालोत्तरतन्त्रम् ॥ तत्रैव शिवनारदसंवादे । “पितॄणां मुक्तये लिङ्गं पुज्यं रजतसम्भवम् । हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् । पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः ॥” मत्स्यसूक्ते । “ताम्रलिङ्गं कलौ नार्च्चेत् रैत्यस्य सीसकस्य च रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा ॥” * ॥
मातृकाभेदतन्त्रे १२ पटले । “पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् । पाषाणे शिवपूजायां द्विगुणं फलमीरितम् ॥ स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् । सर्व्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ॥ ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंक्षयः गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ स्फाटिके सर्व्वसिद्धिः स्यात्तथा मरकते प्रिये । लौद्वलिङ्गे रिपोर्नाशं कामदं भस्मलिङ्गकम् ॥ वालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् । सव्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम् संस्कारेण विना देवि पाषाणादौ न पूजयेत् ॥” तत्संस्कारस्तत्रै यथा, —
“रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च । तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् ॥ त्र्यम्बकेण स्नापयित्वा कालरुद्रं प्रपूजयेत् । वोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् ॥ तस्मादुत्तोल्य तल्लिङ्ग गङ्गातोये दिनत्रयम् । ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः ॥” लक्षणहीनलिङ्गपूजने दोषो यथा, —
“लिङ्ग सुलक्षण कुर्य्यात् त्यजेल्लिङ्गमलक्षणम् । दैर्घ्यहोने भवेद्व्याधिरधिके शत्रुवर्द्धनम् ॥ मानहीने विनाशः स्यादधिके च शिशुक्षयः । विस्तारे चाधिके हीने राष्ट्रनाशो भवेत् ध्रुवम् ॥ पीठहीने तु दारिद्र्यं शिरोहोने कुलक्षयः । ब्रह्मसूत्रविहीने च राज्ञां राष्ट्वञ्च नश्यति । तस्मात् सर्व्वप्रयत्नेन लिङ्गं कुर्य्यात् सुलक्षणम् ॥” अथ लिङ्गप्रमाणम् । देव्युवाच । “लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो । पार्थिवे च शिलादौ च विशेषो यत्र यद्भवेत् ॥ श्रीशिव उवा च ! मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् । एतदन्यन्न कुर्व्वोत कदाचिदपि पार्व्वति ! ॥” इति मातृकाभेदतन्त्रे ७ पटलः ॥ अपि च । “मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् । त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः । अङ्गु ष्ठपर्व्व मानन्तु कृत्वा लिङ्गं प्रपूजयेत् ॥” इति षट्कर्म्मदीपिकाधृतविश्वसारतन्त्रम् ॥ * ॥
त्रिसूत्रीकरणमुक्तं कालोत्तरे । “लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् । समञ्चैव विजानीयात् त्रिसूत्रीकरणन्त्विदम् ॥” मृत्तिकाभदेन ब्राह्मणादीनां पूजाफलस्य प्रश- स्तत्वमुक्तं तत्रैव । “शुक्लं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् । स एव परमेशानि त्रिवर्गफलभाग्भवेत् ॥ क्षत्त्रियस्तु वरारोहे रक्तं निर्म्माय पार्थिवम् । पूजयेत् सततं यस्तु त्रिवगफलभाग्भवेत् ॥ हरितं पार्थिवं देवि निर्म्माय यस्तु पूजयेत् । स च वैश्यो महेशानि त्रिवर्गफलभाग्भवेत् ॥ कृष्णं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् स शूद्रः परमेशानि त्रिवर्गफलभाग्भवेत् ॥ शिलादौ च महेशानि स्थूलञ्च फलदायकम् । अङ्गुष्ठमानं देवेशि यद्वा हेमाद्रिमानकम् ॥ क्रमेण देवदेवेशि फलं बहुविधं लभेत् । स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि । पूजनाङ्गारणाद्देवि फलं बहुविधं स्मृतम् ॥” स्थूलात् स्थूलतरमिति पार्थिवलिङ्गे तरपरम् । मृत्तिकातोलकं ग्राह्यमित्यादिवचनात् ॥ * ॥
शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकरण- मुक्तम् । यथा, —
“शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः । योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत् ॥” इति लैङ्गम् ॥ “लिङ्गस्य यादृग्विस्तारः परिणाहोऽपि तादृशः लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसम्मिता ॥ कुर्व्वोताङ्गष्ठतो ह्रस्वं न कदाचिदपि क्वचित् । रत्नादिशिवनिर्म्माणे मानमिच्छावशाद्भवेत् ॥” इति तन्त्रान्तरम् ॥ लिङ्गशब्दव्युत्प्रत्तिर्यथा, —
“आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका । आलयः सर्व्वदेवानां लयनाल्लिङ्गमुच्यते ॥” इति स्कन्दपुराणम् ॥ * ॥
लिङ्गमहिमा यथा, — शिव उचाच । “न तुष्याम्यर्च्चितोऽर्च्चायां पुष्पधूपनिवेदनैः । लिङ्गेऽर्च्चिते तथात्यर्थं परं तुष्यामि पार्व्वति ॥ एष देवि पुरा कृत्य