वाचस्पत्यम्
शिवशेखर || पु० शिवस्य शेखर इव । १ धुस्तूरे राजनि० । २ वकपुष्पे च जटा० ।
शब्दकल्पद्रुमः
शिवशेखरः || पुं, (शिवः सुखकरः शिवप्रियो वा शेखरोऽग्रो यस्य ।) वकवृक्षः । इति जटा- धरः ॥ धुस्तूरः । इति राजनिर्घण्टः ॥ शिवस्य मस्तकञ्च ॥