वाचस्पत्यम्
शिवाराति || पु० शिवाया शृगालस्यारातिः । १ कुक्कुरे शब्दमा० २ शिवशिवयार्द्वेष्टरि पाषण्डे च ।
शब्दकल्पद्रुमः
शिवारातिः || पुं, (शिवायाः शृगालस्यारातिः ।) कुक्कुरः । इति शब्दमाला ॥ शिवाशिवयोः शत्रुश्च