संस्कृत-शब्दकोशः

शिवारुत शिवालु

शिवालय

वाचस्पत्यम्

शिवालय ||‍ न० शिव आलीयतेऽत्र ली—अच् । १ श्मशाने हारा० । ६ त० । २ रक्ततुलस्यां शब्दर० । ३ महादेवगृहे च पु० ।


शब्दकल्पद्रुमः

शिवालयं || क्ली (शिवा आलीयतेऽत्रेति । आ + ली + अच् ।)
श्मशानम् । इति हारावली ॥ (यथा, कथासरित्सागरे । ३ । ३३ । “बख्यर्थं युद्ध्यमानौ च पुण्येशून्ये शिवालये ॥”)


शब्दकल्पद्रुमः

शिवालयः || पुं, (शिवायाः शिवस्य वा आलयः ।)
रक्ततुलसी । इति शब्दचन्द्रिका ॥ शिवस्य गृहम् । यथा, रामार्च्चनचन्द्रिकायाम । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥” इति तिथ्यादितत्त्वम् ॥



Correction: