वाचस्पत्यम्
शिशिर || न० शश—किरच् नि० । १ हिमे माघफाल्गुनमास- द्वयात्मके २ ऋतुभेदे अमरः । तत्र ऋतौ वर्ण्यादिवस्तूनि “करीषः धूमः कुन्दः पद्मदाहः शिशिरोत्कर्षः” कविक० ल० ३ शीतले स्पर्शे च न० ३ तद्वति त्रि० अमरः ।
शब्दकल्पद्रुमः
शिशिरः || त्रि (शश प्लुतगतौ + किरच्प्रत्ययेन साधुः ।)
शीतगुणयुक्तः । यथाह अमरः । “शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्य- लिङ्गकाः ॥” (यथा, रघुः । १४ । ३ । “आनन्दजः शोकजमश्रु वाष्प- स्तयोरशीतं शिशिरो बिभेद ॥)
शब्दकल्पद्रुमः
शिशिरः || पुं, (शशति इतस्ततो गच्छतीति । शश + किरच् प्रत्ययेन साधुः ।)
हिमः । इति मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ११० । “शब्दातिगः शब्दसहः शिशिरः शर्व्वरीकरः ॥”)
शब्दकल्पद्रुमः
शिशिरः || पुं, क्ली, (शशति गच्छति वृक्षादिशोभा यस्मात् । शश + “अजिरशिशिरशिथिलेति ।” उणा ०१ । ५४ । इति किरच्प्रत्ययेन साधुः ।)
ऋतुविशेषः । इत्यमरः ॥ स तु माघफाल्गुन- मासद्वयात्मकः । तत्पर्य्यायः । कम्पनः २ शीतः ३ हिमकूटः ४ कोटनः ५ । कचित् पुस्तके कोटनस्थाने कोडव इति पाठः । इति राज- निर्घण्टः ॥ तत्कालीनजलगुणा जलशब्द द्रष्टव्याः ॥ * ॥
तत्र जातफलम् ॥ “मिष्टान्नभोगी मधुरप्रणादी कलत्रपृत्त्रादियुतः क्षुधार्त्तः । क्रोधी सुधीश्चारुकलेवरश्च यस्य प्रसूतिः शिशिराभिधाने ॥” इति कोष्ठीप्रदीपः ॥ * ॥
तत्र वर्णनीयानि । करीयधूपः कुन्दः पद्मनाहः शिशिरोत्कर्षश्च । इति कविकल्पलता ॥ * ॥
अस्य गुणाः ! “शिशिरं शीतलं वृष्यं शीतं वातप्रकोपणम् ।” इति राजवल्लभः ॥ अपि च । “शिशिरः शीतलोऽतीवरूक्षो वाताग्नि- वर्द्धनः ।” इति भावप्रकाशः ॥