वाचस्पत्यम्
शिशु || पु० शो—कु सन्वद्भावः द्वित्वम् । १ बालके अमरः २ स्वल्पे च ।
शब्दकल्पद्रुमः
शिशुः || पुं, (श्यतीति । शो + “शः कित् सन्वच्च ।” उणा ० १ । २१ । इति उः ।)
बालकः । तत्- पर्य्यायः । पोतः २ पाकः ३ अर्भकः ४ डिम्भः ५ पृथुकः ६ शावकः ७ । इत्यमरः ॥ शावः ८ । अर्भः ९ शिशुकः १० पोतकः ११ भिष्टकः १२ इति शब्दरत्नावली ॥ गर्भः १३ । इति जटा- धरः ॥ तस्य लक्षणादि यथा । वृद्धशातातपः । “शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादि संस्पृश्य स्नातव्यन्तु कुमारकैः ॥ प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तु स विज्ञेयो यावन्मौञ्जी न बन्धनम् ॥” इति गोपालन्यायपञ्चाननकृतस्मृतिनिर्णयः ॥ अपि च । “चतुर्थाद्वत्सरादूर्द्ध्वं यावदष्टौ समा वयः । शिशोर्व्रतं प्रकुर्व्वन्ति गुरुसम्बन्धिबान्धवाः ॥” इति ब्रह्मपुराणवचनम् ॥ “जातमात्रः शिशुस्तावत् यावदष्टौ समा वयः । स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शकः ॥ भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते । तस्मिन् काले न दोषः स्यात् स यावन्नोपनी- यते ॥” इति मनुवचनम् ॥ * ॥
तस्याध्यापनक्रमो यथा, —
“प्राङ्मुखो गुरुरासीनो वरुणाभिमुखं शिशुम् अध्यापयेच्च प्रथमं द्विजाशीर्भिः प्रपूजितम् ॥” इति मलमासतत्त्वे बृहस्पतिवनम् ॥ * ॥
शिशुपुत्त्रं त्यक्त्वा प्रव्रज्याश्रमनिषेधो यथा, —
“मातरं पितरं वृद्धं भार्य्याञ्चैव पतिव्रताम् । शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् ॥” इति महानिर्व्वाणतन्त्रम् ॥ अन्यद्बालशब्दे द्रष्टव्यम् ॥ * ॥
(कुमारः । कार्त्ति- केयः यथा, महाभारते । ३ । २३१ । ४ । “शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभा- ननः ॥”)