संस्कृत-शब्दकोशः

शिशु शिशुगन्धा

शिशुक

वाचस्पत्यम्

शिशुक ||‍ पुंस्त्री० शिशुरिव इवार्थे कन् । १ जलजन्तुभेदे (शुशुक) राजानि० स्त्रियां ङीष् । २ बालके मेदि० । ३ वृक्षभेदे हेमच० “जातमात्रः शिशुस्तावत् यावदष्टौ समा वयः । स हि गर्भसमोज्ञेयो व्यक्तिमात्रप्रदर्शकः । भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथाऽनृते । तस्मिन् काले न दोषः स्यात् स यावन्नोपनीयते” मनुः ।


शब्दकल्पद्रुमः

शिशुकः || पुं, (शिशोरिव प्रतिकृतिः । शिशु + इवार्थे कन् ।)
जलजन्तुविशेषः । शुशुक् इति भाषा । तत्पर्य्यायः । उलूपी २ । इत्यमरः ॥ द्वे उपल इति ख्याते अति चञ्चले मत्स्ये । शिशु माराकृतिर्म्मत्स्यभेदः उलूपी । इति कलिङ्गा- दयः । शोशु इति ख्यातो मत्स्यविशेषः उलूपी- त्यन्ये । भाँगाल इति ख्याते इत्येके । शिशुमार एव उच्यते इति सर्व्वस्वम् । तथा च रत्न- कोषादौ ‘चुलुपी शिशुमारः स्यादुलूपी शिशुक- स्तथा ।’ ऊर्द्ध्वं लुम्पति भ्राम्यति उलूपी लुप ऌ शपञौ छेदे उत्पूर्व्वः ग्रहादित्वाण्णिन् मनी- षादित्वात् तलोपः लोर्दीर्घश्च द्विह्रस्वोकारो- ऽपि । ‘शिशुकस्तूलुपी बालः प्रोष्ठी तु सफरी द्वयोः ।’ इति वाचस्पतिः । चुलुपीति चवर्गादि- पाठ इति केचित् । शिशुरिव शिशुकः । ‘शिशुकः शिशुमारेऽपि बालकोलुपिनोरपि ॥’ इति रुद्रः ॥” इति भरतः ॥ अपि च । “उलुपी स्यादुलुपीव चुलुम्पी चुलुकी तथा । शिशुकश्चेति पर्य्यायः शिशुमाराकृतौ झसे । कैश्चिदुत्पलमत्स्ये तु पर्य्यायोऽयं निगद्यते ॥” इति शब्दरत्नावली ॥ “शिशुकः शिशुमारश्च स च ग्राहो वराहकः ॥” इति राजनिर्घण्टः ॥ * ॥
शिशुमारः । (यथा, महाभारते । १२ । २९ । २७ । “कूर्म्मान् कर्कटकान् नक्रान् मकरान् शिशु- कानपि ॥”)
बालकः । इति मेदिनी ॥ (यथा, कथासरित्- सागरे । २१ । ३९ । “शिशुकद्वयसंयुक्ता ब्राह्मणी कापि दुर्गता । द्वारि स्थिता महाराज देवदर्शनकाङ्क्षिणी ॥”)
वृक्षविशेषः । इति हेमचन्द्रः ॥



Correction: