वाचस्पत्यम्
शिशुचान्द्रायण || न० “चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम्” मनूक्ते व्रते ।
शब्दकल्पद्रुमः
शिशुचान्द्रायणं || क्ली (शिशुरिव चान्द्रायणम् । स्वल्पचान्द्रायणमित्यर्थः ।)
व्रतविशेषः । यथा, “चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समा- हितः । चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम् ॥” इति मनुः ॥