संस्कृत-शब्दकोशः

शिश्विदान शिष्ट

शिष

वाचस्पत्यम्

शिष ||‍ परिशेषीकरणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । शेषयति ते शेषति अशिशीषत् त अशेषीत् ।


वाचस्पत्यम्

शिष ||‍ बधे भ्वा० पर० सक० सेट् । शेषति अशेषीत् ।


वाचस्पत्यम्

शिष ||‍ विशेषे रुधा० पर० सक० अनिट् । शिनष्टि ऌदितशिषत् शेष्टा ।


शब्दकल्पद्रुमः

शिष || ऌ घ औ विशेषे । इति कविकल्पद्रुमः ॥ (रुधा०-पर०-सक०-अनिट् ।)
विशेष उप- रञ्जनम् । ऌ, अशिषत् । ध, विशिनष्टि स्मरं मूर्त्त्या यः । इति हलायुधः । मूर्त्तिविशिष्टं करोति इत्यर्थः । औ, शेष्टा । इति दुर्गादासः ।


शब्दकल्पद्रुमः

शिष || कि असर्व्वोपयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे-भ्वा०-सक०-सेट् । असर्व्वोप- योगः परिशेषीकरणम् । कि, शेषयति शेषति यशोराशिं लोकः अवशिष्टं करोति इत्यर्थः । वेरतिशायने शिष किरनुवर्त्तते । कि, विशेषयति विशेषति सम्पत्त्या भूपं विधिः । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

शिष || वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
शेषति । इति दुर्गादासः ॥



Correction: