संस्कृत-शब्दकोशः

शिष शिष्टाचार

शिष्ट

वाचस्पत्यम्

शिष्ट ||‍ त्रि० शास—क्त शिष—क्त वा । १ शान्ते २ वेदबाक्ये विश्वा- सयुते ३ सुबोधे ४ धीरे च “न पाणिपादचपलो न नेत्रच- पलो मुनिः । न च वागङ्गचपल इति शिष्टलस्य क्षणम्” भा०आश्व० “धर्मो नातिगतोयैस्तु वेदः स परिवृंहितः । ते शिष्टा ब्रह्मणा प्रोक्ता नित्यमात्मगुणान्विताः” कूर्म० उप० २४ अ० । “विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकी- र्त्त्यते । मन्वन्तरेषु ये शिष्टाः इह तिष्ठन्ति धार्मिकाः । मनुः सप्तर्षयश्चैव लोकसन्तानकारणात् । तिष्ठन्तीह च धर्मार्थं तान् शिष्टान् परिचक्षते । तैः शिष्टैः स्थापितो धर्मः स्थाप्यते वै युगे युगे” मत्स्यपु० १२० अ० । ५ कृत- शासने ६ अवशिष्टे च ।


शब्दकल्पद्रुमः

शिष्टः || त्रि (शास + क्तः । “शास इदङ्हलोः ।” ६ । ४ । ३४ । इति उपधाया इकारः । “शासिवसिघसीनाञ्च ।” ८ । ३ । ६० इति सस्य षः ।)
शान्तः । सुबुद्धिः । धीरः । तस्य लक्षणं यथा, —
“न पानिपादचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥” इति महाभारते अश्वमेधपर्व्व ॥ अपिच । “धर्म्मो नाभिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्ठा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणा- न्विताः ॥” इति कौर्म उपविभागे २४ अध्यायः ॥ * ॥
अन्यच्च । “विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रचक्षते । मन्वन्तरेषु ये शिष्टा इहतिष्ठन्ति धार्म्मिकाः ॥ मनुः सप्तर्षयश्चव लोकसन्तानकारणात् । तिष्ठन्तीह च धर्माथं तान् शिष्टान् परिचक्षते । तैः शिष्टैः पालितधर्म्मः स्थाप्यते वै युगे युगे ॥” इति मात्स्ये १२० अध्यायः ॥ (अवशिष्टः । यथा, गीतायाम् । ४ । ३० । “यज्ञशिष्टामृतभुजो यान्ति ब्रह्मसनातनम् ॥”



Correction: