संस्कृत-शब्दकोशः

शिष्टि शिह्ल

शिष्य

वाचस्पत्यम्

शिष्य ||‍ त्रि० शास—क्यप् । १ शिक्षणोये २ छात्रे अमरः ३ उप- देश्ये च । शिष्यलक्षणादि तन्त्रसा० उक्तं यथा ||‍“शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणे क्षमः । समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो धनी । एव- मादिगुणैर्युक्तः शिष्यो भवति नान्यथा । गुरुता शिष्यता वापि तयोर्वत्सरवासतः” तथा चोक्तं सारसंग्रहे “सद्० गुरुः स्वाश्रितं शिष्यं वर्षमात्रं प्रतीक्षयेत् । वर्षैकेन भवेद्योग्यो विप्रोगुणसमन्वितः । वर्षद्वयेन राजन्यो वै- श्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता” तत्रैव “राज्ञि चामात्यजो दोषः पत्नी पापं स्वभर्त्तरि । तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम्” देव्यागमे शिववाक्यं “गुरुशय्यासनं यानं पादुकोपानहं पीठम् । स्नानोदकं तथा छायां लङ्घयेन्न कदाचन । गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत् । दीक्षां व्याख्यां प्रभुत्वञ्च गुरोरग्रे परित्यजेत्” । अथ निषिद्धशिष्याः अगस्त्यसंहितायामुक्ता यथा ||‍“अलस्रा मलिनाः क्लिन्नाः दाम्भिकाः कृपणास्तथा । दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः । अ- सूयामत्सरग्रस्तास्तथा परुषवादिनः । अन्यायोपा- र्जितधनाः परदाररताश्च ये । भ्रष्टव्रताश्च ये कष्टवृत्तयः पिशुनाः खलाः । बह्वाशिनः क्रूरचेष्टा दुरात्मानश्च निन्दिताः । इत्येवमादयोऽप्यन्ये पापिष्ठाः पुरुषाधमाः । एवंभूताः परित्यज्या शिष्यत्वेनोपकल्पिताः । पापिने क्रूरचेष्टाय कृपणाय तथैव च । दीनायाचारशून्याय मन्त्रद्वेषकराय च । मिन्दकाय च मूर्खाय तीर्थद्वेष- पराय च । भक्तिहीनाय देवेशि! न देया मलिनस्य च” “आचारे शासयेद्यस्तु स आचार्य्य उदाहृतः । य आचार्व्यपराधीनस्तद्वाक्यं धार्य्यते हृदि । शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः । एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम् । अध्यापयेद्विधानेन मन्त्ररत्न- मनुत्तमम्” पद्मपु० उ० २५ अ० ।


शब्दकल्पद्रुमः

शिष्यः || त्रि (शिष्यतेऽसाविति । शास + “एतिस्तु- शास्वृदृजुषः क्यप् ।” ३ । १ । १०९ । इति क्यप् । “शाम इदङ्हलोः ।” ६ । ४ । ३४ । इति इः । “शास- वमीति” । ८ । ३ । ६० । इति षः ।)
उपदेश्यः । तत्- पर्य्यायः । छात्रः २ अन्तेवासी ३ । इत्यमरः ॥ अन्तेसत् ४ । अन्तेषदः ५ । यथा, —
“छात्रान्तेवासिशिष्यान्तेषद एकार्थता इमे ॥” इति जटाधरः ॥ तस्य लक्षणं यथा, —
“वाङ्मनः कायवसुभिर्गुरुशुश्रूषणे रतः । एतादृशगुणोपेतः शिष्यो भवति नारद ॥ देवताचार्य्यशुश्रूषां मनोवाक्कायकर्म्मभिः । शुद्धभावो महोत्साहो बोद्धा शिष्य इति स्मृतः ॥” इति दीक्षातत्त्वम् ॥ अपिच । “शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारण- क्षमः । समर्थश्च कुलीनश्च प्राज्ञः मच्चरितो व्रती । एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा ॥” * ॥
निषिद्धशिष्यलक्षणमाह । “पापिने क्रूरचेष्टाय शठाय कृपणाय च । दीनायाचारशून्याय मन्त्रद्वेषपराय च ॥ निन्दकाय च मूर्खाय तीर्थद्वेषपराय च । भक्तिहीनाय देवेशि न देया मलिनाय च ॥ मुरुता शिष्यता वापि तयोर्वत्सरवासतः ॥” तथा चोक्तं सारसंग्रहे । “मद्गुरुः स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् । वर्षेकेन भवेद्योग्यो विप्रो गुणसमन्वितः ॥ वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥” इति तन्त्रसारः ॥ * ॥
अन्यच्च । “आचारे शासयेद्यस्तु स आचार्य्य उदाहृत । यस्त्वाचार्य्यपराधीनस्तद्वाक्यं शास्यते हृदि । शामने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः ॥ एवं लक्षणसंयुक्तं शिष्यं सर्व्वगुणान्वितम् । अध्यापयेद्विधानेन मन्त्ररत्नमनुत्तमम् ॥” इति पाद्मोत्तरखण्डे २५ अध्यायः ॥ * ॥
पुत्त्रशिष्ययोस्तुल्यत्वं यथा, —
“यथा पुत्त्रस्तथा शिष्यो न भेदः पत्त्रशिष्ययोः । तर्पणे पिण्डदाने च पालने परिपोषणे ॥ यथाग्निदाता पुत्त्रश्च तथा शिष्यश्च निश्चितम् । इतीदं काण्वशाखायामुवाच कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६१ अध्यायः ॥ पुत्त्रशिष्याभ्यां विशेषो यथा, — सनत्कुमार उवाच । “पुत्त्र एवास्मि देवेश यतः शिष्योऽस्म्यहं विभो । न विशेषोऽस्ति पुत्त्रस्य शिष्यस्य च पितामह ॥ ब्रह्मोवाच । विशेषः शिष्यपुत्त्राभ्यां विद्यते धर्म्मनन्दन । धर्म्मकर्म्मसमायोगे तथापि गदतः शृणु ॥ पुन्नाम्नो नरकात्त्राति पुत्त्रस्तेनेह गीयते । शेषपापहरः शिष्यैतीयं वैदिकी श्रुतिः ॥ सनत् कुमार उवाच । कोऽयं पुन्नामको देव नरकात्त्राति पुत्त्रकः । कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥” इति वामने ५७ अध्यायः ॥ ब्रह्मोवाच । “अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् । ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ॥ पितॄणाञ्च द्विजश्रेष्ठ सर्व्ववर्णेषु चैकतः । ॐ कारादिनिवृत्तिश्च पापकार्य्यकृतिश्च या ॥ हत्यादिकं महापापं त्वगम्यागमनं तथा । घृतादिविक्रयं घोरं चण्डालादिप्रतिग्रहम् ॥ स्वदोषगोपनं पापं परदोषप्रकाशनम् । ईर्ष्याविद्धं वाक्यदुष्टं निष्ठुरत्वं षडम्बरम् ॥ ढाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्म्मजम् । मारणत्वमधार्म्मिक्यं नरकावहमुच्यते ॥ एतैः पापैश्च संयुक्तः पात्यते यदि शङ्करम् । ज्ञानाधिकमशेषेण शेषात् पापात् जयेत्ततः ॥ शारीरं वाचिकं यत्तु मानसं त्रिविधं तथा । पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ॥ ज्ञातिभिर्ब्बान्धवैश्चापि तस्मिन् जन्मनि धर्म्मज तत्सर्व्वं विलयं याति कर्म्मणा सुतशिष्ययोः ॥ तस्मात् पुत्त्रश्च शिष्यश्च विधातव्यो विपश्चिता । श्रुतमर्थमभिध्याय शिष्यात् श्रेष्ठतरः सुतः । शेषात्तारयते शिष्यः सर्व्वत्रैव हि पुत्त्रकः ॥” इति वामने ५८ अध्यायः ॥



Correction: