संस्कृत-शब्दकोशः

शीक शीघ्र

शीकर

वाचस्पत्यम्

शीकर ||‍ न० शीक—अरन् । १ सरलद्रवे २ वायौ पु० मेदि० । ३ जलकणे अमरः ।


शब्दकल्पद्रुमः

शीकरं || क्ली (शीक्यतेऽनेनेति । शीक + बाहु- लकात् अरः ।)
शरलद्रवः । इति मेदिनी ॥


शब्दकल्पद्रुमः

शीकरः || पं, (शीक्यतेऽनेनेति । शीक + बाहुलकात् अरः । इत्युज्ज्वलदत्तः । ३ । १३१ ।)
वातादिप्रेरित- जलकणा । इत्यमरः ॥ (यथा, कुमारे । १ । १५ । “भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः ॥”)
वायुः । इति मेदिनी ॥



Correction: