शब्दकल्पद्रुमः
शीघ्रगः || त्रि (शीघ्रं गच्छतीति । गम् + डः ।)
द्रुतगामी । यथा, —
“हरिते रोगोऽनुतापः शस्यानामीतिभिश्च विध्वं सः । कपिले शीघ्रगसत्वम्ले च्छध्वंसोऽथ दुर्भिक्षम् ॥” इति तिथ्यादितत्त्वम् ॥ वायौ, पुं, । इत्यमरे आशुगशब्ददर्शनात् ॥ (यथा, महाभारते । ३ । ३ । २५ । “मनः सुपर्णो भूतासिः शीघ्रगः प्राण- धारणः ॥”)