वाचस्पत्यम्
शीत || न० श्यै—क्त स्पर्शे सम्प्र० । १ शीतले स्पर्शे २ जले शब्दमा० ३ हिमे च अमरः ४ त्वचे राजनि० ५ बहुवारवृक्षे ६ वेत- सवृक्षे च पु० अमरः । ७ असनपर्ण्यां शब्दर० । ८ पर्षटे ९ निम्बे १० कर्पूरे राजनि० । ११ हिमर्त्तौ च पु० १२ शीत- स्पर्शयुते त्रि० अमरः । १३ अलसे त्रि० मेदि० । १४ क्व- थिते शब्दच० ।
शब्दकल्पद्रुमः
शीतं || क्ली (श्यै ङ गतौ + क्तः । “द्रवमूर्त्ति- स्पर्शयोः श्यः ।” ६ । १ । २४ । इति सम्प्रसार- णम् । “हलः ।” ६ । ४ । २ । इति दीर्घः ।)
हिमगुणः । इत्यमरः ॥ (यथा, मनुः । ११ । ११४ । “उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्व्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥”)
जलम् । इति शब्दमाला ॥ त्वचम् । इति राज- निर्घण्टः ॥ शीतं तुषारवानीरबहुवारद्रुमेषु च इति भरतधृताजयः ॥
शब्दकल्पद्रुमः
शीतः || त्रि (श्यै + क्तः ।)
शीतलः । इत्यमरः ॥ (यथा, महाभारते । ३ । १६८ । ५० । “शीतस्तत्र सुखो वायुःसुगन्धो जीवनः शुचिः ॥ सर्व्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥”)
अलसः । इति मेदिनी ॥ क्वथितः । इति शब्दचन्द्रिका ॥ शीतलद्रव्यगुणाः । पित्त- नाशित्वम् । बलकफवायुकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥
शब्दकल्पद्रुमः
शीतः || पुं, (श्यै + क्तः ।)
वेतसवृक्षः । बहुवारक- वृक्षः । इत्यमरः ॥ अशनपर्णी । इति शब्द- रत्नावली ॥ पर्पटः । निम्बः । कर्पूरः । इति राजनिर्घण्टः ॥ हिम ऋतुः । अस्य विवरणं हेमन्तशब्दे द्रष्टव्यम् ॥