वाचस्पत्यम्
शीतक || पु० शीतमिव करोति कृ—ड । १ दीर्घसूत्रिणि आल- स्यहेतुना कार्य्याकरणाय शीतवाधामभिनोय २ सुस्थिते मेदि० । शीत + स्वार्थे क । ३ शीतपदार्थे ४ शीतकाले मेदि० ५ वृश्चिके शब्दमा० ६ असनपर्ण्यां शब्दर० ।
शब्दकल्पद्रुमः
शीतकः || पुं, (शीत + स्वार्थे कन् ।)
शीतकालः । सुस्थितः । दीर्घसूत्री । इति मेदिनी ॥ अशन- पर्णी । इति शब्दरत्नावली ॥ वृश्चिकः । इति शब्दमाला ॥ (देशविशेषः । यथा, बृहत्- संहितायाम् । १४ । २७ । माणहलहूणकोहलशीतकमाण्डव्यभूत- पुराः ॥”)