वाचस्पत्यम्
शीतकर || पु० शीतः शीतलः करो यस्य । १ चन्द्रे २ कर्पूरे च शीतकिरणादयोऽप्यत्र त्रि० । शीत करोति कृ—अच् । ३ शीतकारके ।
शब्दकल्पद्रुमः
शीतकरः || पुं, (शीतः शीतलः करो यस्य ।)
चन्द्रः । इति हिमकरशब्ददर्शनात् ॥ (यथा, बृहत्संहितायाम् । ४ । २९ । “भस्मनिभः परुषोऽरुणमूर्त्तिः शीतकरः किरणैः परिहीणः ॥”)
शीतलपाणियुक्ते शीतकारिणि च त्रि ॥